श्रीभगवान्
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम्
उत्पतद्भिरिवाकाशं हयैरभ्यपतन्परान्
विक्षिपन्नाददानश्च धनुर्ज्यामाक्षिपन्मुहुः
तूणखड्गधरश्शूरो बद्धगोधाङ्गुलित्रवान्
सविद्युच्चपलं चापं विहरन्वै तलात्तलम्
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः
नास्य विक्षिपतश्चापं सन्दधानस्य चासकृत्
अन्तरं ददृशे कश्चिन्निघ्नतश्शात्रवान् रणे
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य
सिंहोन्नतस्याप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम्
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननश्शत्रुबलप्रमाथी
व्यत्रासयद्दानवराजमुख्यान् साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः
ततस्तूर्णं विनिष्पत्य प्रद्युम्नश्शत्रुकर्शनः
साल्वमेवाभिदुद्राव निवार्यारिबलं रुषा
अभिघातं तु वीरेण प्रद्युम्नेन महात्मना
न मर्षयन् सुसङ्क्रुद्धस्साल्वः कुरुकुलोद्वह
सरोषमदसम्मत्तः कामगादवरुह्य च
प्रद्युम्नं योधयामास साल्वः परपुरञ्जयः
तयोस्सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः
समेता ददृशुर्लोका बलिवासवयोरिव
तस्य मायामयो वीर रथो हेमपरिष्कृतः
सध्वजस्सपताकश्च सानुकर्षस्सतूणवान्
स तं रथवरं श्रीमान्समारुह्य किल प्रभो
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे
प्रद्युम्नो भुजवेगेन साल्वं सम्मोहयन्निव
स तैरभिहतस्सङ्ख्ये नामर्षयत सौभराट्
शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः
मुमोच बाणं च रिपोर्मर्मभेदिनमाहवे
तस्य मर्म विभिद्याऽऽशु स बाणो मत्सुतेरितः
विवेश हृदयं पत्री स पपात भृशाहतः
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि
सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम्
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृपे
तत उत्थाय राजेन्द्र प्रतिलभ्य स चेतनाम्
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः
तेन बाणेन महता प्रद्युम्नस्समरे स्थितः
जत्रुदेशे भृशं विद्धो व्यवासीदद्रथे तदा
तं स विद्ध्वा तु राजेन्द्र साल्वो रुक्मिणिनन्दनम्
ननाद सिंहनादं च नादेनापूरयन्महीम्
ततो मोहं समापन्ने तनये मम भारत
मुमोच बाणांस्त्वरितः पुनरन्यान् दुरात्मवान्
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे