युधिष्ठिरः
वासुदेव महाबाहो विस्तरेण महामते
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यताम्
श्रीभगवान्
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृप
उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम्
अरुधत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
साल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः
तत्र सोऽथ महीपालो योधयामास तां पुरीम्
अभिसारेण सर्वेण तत्र युद्धमवर्तत
पुरी समन्ताद्विहिता सपताका सतोरणा
सचक्रा सार्गला चैव सयन्त्रखनका तथा
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा
सचक्रग्रहिणी चैव सोल्कालातावपोथिका
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका
साष्टिका साङ्कुशा राजन्सशतघ्नी सलाङ्गला
ससुतूणी सासिधरा सायुधा सपरश्वधा
लोहचर्मवती चापि साग्निस्सगुडशृङ्गिका
शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ
दृप्तैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः
पुरुषै राजशार्दूल समन्तात् परिवारिता
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे
मध्यमेन च गुल्मेन रक्षिता सा पुरी तदा
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः
आघोषितं च नगरे न पातव्या सुरेति ह
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः
प्रमत्तेष्वभिघातं हि कुर्यात्साल्वो नराधिपः
इति कृत्वाऽप्रमत्तास्ते सर्वे वृष्ण्यन्धकास्स्थिताः
आनर्ताश्च तथा सर्वे नटनर्तकगायकाः
बहिर्निर्वासितास्सर्वे रक्षद्भिर्वित्तसञ्चयान्
सङ्क्रमा भेदितास्सर्वे नावश्च प्रतिषेधिताः
परिघाश्चापि कौरव्य कीलकैस्सुनिकीलिताः
उदपानाः कुरुश्रेष्ठ तथा वाप्यः क्षतास्तथा
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः
सङ्क्रमा भेदितास्सर्वे प्राकाराश्च नवीकृताः
प्रकृत्या विषमं सर्वं प्रकृत्या च सुरक्षितम्
प्रकृत्या चायुधोपेतं विशेषेण तदाऽनघ
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा
न चामुद्रोऽविनिर्याति न चामुद्रः प्रवेश्यते
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे
अनुरथ्यासु सर्वासु चत्वरेषु च कौरव
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्
कृतापदानं च तदा बलमासीद्विशाम्पते
न कोऽप्यवेतनः कश्चिन्न चातिक्रान्तवेतनः
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन
तां तापयित्वा राजेन्द्र साल्वस्सौभपतिस्तदा
प्रभूतनरनागेन बलेनोपविवेश ह
समे निविष्टा सा सेना प्रभूतसलिलाशये
चतुरङ्गबलोपेता साल्वराजाभिपालिता
वर्जयित्वा श्मशानानि देवतायतनानि च
वल्मीकांश्चैव चैत्यांश्च सन्निविष्टमभूद्बलम्
अनीकानां विभागेन पन्थानस्संस्कृतास्तथा
प्रतिमा नवमाश्चैव साल्वस्य शिबिरे नृप
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्
रथनागाश्वकलिलं पदातिजनसङ्कुलम्
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम्
विचित्रध्वजसन्नाहं विचित्रशरकार्मुकम्
सन्निवेश्य तु कौरव्य द्वारकायां नरर्षभ
अभिसारयामास तदा वेगेन पतगेन्द्रवत्
तदापतत्तु सन्दृश्य बलं साल्वपतेस्तदा
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः
असहन्तोऽभियानं तत्साल्वराजस्य कौरव
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः
ते रथैर्दंशितास्सर्वे विचित्राभरणध्वजाः
संसक्तास्साल्वराजस्य बहुभिर्योधपुङ्गवैः
गृहीत्वा तु धनुस्साम्बस्साल्वस्य सचिवं रणे
योधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम्
तस्य बाणमयं वर्षं जाम्बवत्यास्सुतो महत्
मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक्
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः
क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः
ततस्साम्बाय राजेन्द्र क्षेमधूर्तिस्स्मयन्निव
मुमोच मायाविहितं शरजालं महत्तरम्
ततो मायामयं जालं माययैव विदार्य सः
साम्बश्शरसहस्रेण रथमस्याभ्यवर्षत
ततस्स विद्धस्साम्बेन क्षेमधूर्तिश्चमूपतिः
अपायाज्जवनैरश्वैस्साम्बबाणप्रपीडितः
तस्मिन्विप्रद्रुते शूरे साल्वस्याथ चमूपतौ
वेगवान्नाम दैतेयस्सुतं मेऽभ्यद्रवद्बली
अभिद्रुतस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन्
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्
चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि
वातरुग्ण इव क्षुण्णश्शीर्णमूलो वनस्पतिः
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे
प्रविश्य महतीं सेनां योधयामास मे सुतः
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः
महारथस्समाज्ञातो महाराज महाधनुः
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः
वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत्
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुश्शरैः
विनदन्तौ महाराज सिंहाविव महाबलौ
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्
अभिमन्त्र्य महास्त्रेण सन्दधे शत्रुनाशनम्
स विविन्ध्याय सक्रोधस्समाहूय महारथः
चिक्षेप मे सुतो राजन्स गतासुरवापतत्
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम्
कामगेन स सौभेन साल्वः पुनरुपागमत्
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्
दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम्
ततो निर्याय कौरव्य व्यवस्थाप्य च तद्बलम्
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत्
प्रद्युम्नः
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम्
अयं सौभपतेस्सेनामायसैर्भुजगोपमैः
धनुर्मुक्तैश्च नाराचैर्नाशयाम्यद्य यादवाः
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति
मयाऽभिपन्नो दुष्टात्मा ससौभस्सपदानुगः
श्रीभगवान्
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन
धिष्ठितं तद्बलं द्वारि युयुधे च यथासुखम्