श्रीभगवान्
नेदं कृच्छ्रमनुप्राप्तो भवान् स्याद्वसुधाधिप
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन्
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः
वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा
अभक्षितविनाशश्च देवनेन विशाम्पते
स्वातन्त्र्यं द्यूतसङ्गस्य वर्णयेयं यथातथम्
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्
दुःखं चतुष्टयं प्रोक्तं यैर्नरो भ्रश्यते श्रियः
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्
अविश्वास्यमनर्थं च प्रसङ्गे कटुकोदयम्
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम
अनामयं स्याद्धर्मश्च कुरूणां कुरुनन्दन
न चेत्तन्मम राजेन्द्र गृह्णीयान्मधुरं वचः
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्
अथैनमभिनीयैवं सुहृदो नाम दुर्हृदः
सभासदश्च तान्सर्वान् भेदयेयं दुरोदरान्
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम्
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो महीपते
अहो कृच्छ्रमनुप्राप्तास्सर्वे स्म भरतर्षभ
ये वयं त्वां व्यसनिनं पश्याम सह सोदरैः
युधिष्ठिरः
असान्निध्यं कथं कृष्ण तवाऽऽसीद्वृष्णिनन्दन
क्व चासीद्विप्रवासस्ते किञ्चाकार्षीः प्रवासितः
श्रीभगवान्
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ
तं निहन्तुं नृपश्रेष्ठ शृणु मे तत्र कारणम्
महातेजा महाबाहुर्यस्स राजा महायशाः
दमघोषात्मजो वीरश्शिशुपालो मया हतः
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति
सरोष इव सम्प्राप्तो नामृष्यत दुरात्मवान्
श्रुत्वा तं निहतं साल्वस्तीव्रकोपसमन्वितः
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत
स तत्र चोदितो राजन् बालकैर्वृष्णिपुङ्गवैः
निवृत्तः कामगं सौभमारुह्यैव नृशंसवत्
चिरजीवी नृपस्सोऽपि प्रसादात्पद्मजन्मनः
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः
वासुदेवस्स मन्दात्मा वसुदेवसुतो गतः
तस्य युद्धार्थिनो दर्पं युद्धे विनयिताऽस्म्यहम्
आनर्तास्सत्यमाख्यात तत्र गन्तास्मि यत्र सः
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे
क्वासौ क्वासाविति पुनस्तत्र तत्र प्रधावति
मया किल रणे योद्धुं काङ्क्षमाणस्स सौभराट्
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम्
मम पापस्वभावेन भ्राता येन निपातितः
शिशुपालो महीपालस्तं वधिष्ये महीतले
भ्राता बालश्च राजा च न च सङ्ग्रामकोविदः
प्रमत्तश्च हतो वीरस्तं वधिष्ये जनार्दनम्
एवमादि महाराज विलप्य दिवमास्थितः
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन
तमश्रौषमहं गत्वा यथावृत्तस्स दुर्मतिः
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः
ततोऽहमपि कौरव्य रोषव्याकुललोचनः
निश्चित्य मनसा राजन्वधायास्य मनो दधे
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः
ततोऽहमपि कौरव्य रोषव्याकुललोचनः
निश्चित्य मनसा राजन् वधायास्य मनो दधे
ततस्सौभवधायाहं प्रतस्थे पृथिवीपते
स मया सागरोपान्ते दृष्ट आसीत्परीप्सता
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप
आहूय साल्वं समरे युद्धाय समवस्थितः
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैस्सह
वशीभूताश्च मे सर्वे भूतले च निपातिताः
एतत्कार्यं महाबाहो येनाहं नागतस्तदा
श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम्