वैशम्पायनः
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः
केकयाश्च महेष्वासा भ्रातरो लोकविश्रुताः
वने तेऽभिययुः पार्थान्क्रोधामर्षसमन्विताः
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन्
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्
श्रीभगवान्
दुर्योधनस्य शकुनेः कर्णस्य च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्
निकृत्या वा चरन्वध्य एष धर्मस्सनातनः
वैशम्पायनः
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्
अर्जुनश्शमयामास दिधक्षन्तमिव प्रजाः
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः
अर्जुनः
दशवर्षसहस्राणि यत्र सायङ्गृहो मुनिः
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने
दशवर्षसहस्राणि दशवर्षशतानि च
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन
अतिष्ठ एकपादेन वायुभक्षश्शतं समाः
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसन्ततः
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके
प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम्
तत्र कृष्ण महाबाहो दिव्यं वर्षसहस्रकम्
अतिष्ठस्तप एकेन पादेन नियमे स्थितः
क्षेत्रज्ञस्सर्वभूतानामादिरन्तश्च केशव
तपसां च निधिः कृष्ण यज्ञस्त्वं च सनातनः
निहत्य नरकं भौममाहृत्य मणिकुण्डले
प्रादास्त्वमदितेः कृष्ण भवान् नः परमा गतिः
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः
कृत्वा तत्कर्म लोकानामृषभस्सर्वलोकजित्
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्
ततस्सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव
स त्वं नारायणो भूत्वा हरिरासीः परन्तप
ब्रह्मा सोमश्च विष्णुश्च धर्मो धाता यमोऽनलः
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः
अजश्चराचरगुरुस्स्रष्टा त्वं पुरुषोत्तम
नारायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः
अयजो भूरितेजास्त्वं कृष्ण चैत्ररथे वने
शतं शतसहस्राणि सुवर्णस्य जनार्दन
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान्
अदितेरपि पुत्रत्वमेत्य यादवनन्दन
त्वं विष्णुरिति विख्यात इन्द्रादवरजोऽभवः
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा
सम्प्राप्य पदमाकाशमादित्यसदने स्थितः
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा
मौरवास्सादिताः पाशा निशुम्भनरकौ हतौ
कृतः क्षेमः पुनः पन्थाः प्राग्ज्योतिषपुरं प्रति
जारूथ्यामाहुतः क्रोधाच्छिशुपालोऽनुगैस्सह
भीमधन्वा च शैब्यश्च शतधन्वा च निर्जितः
तथा पर्जन्यघोषेण रथेनाऽऽदित्यवर्चसा
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणम्
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्
हतस्सौभपतिस्साल्वस्त्वया सौभश्च पातितः
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा
आगम्य ऋषयस्सर्वे ध्यायन्त्यमलमच्युत
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन
आत्मनैवाऽऽत्मसात्कृत्वा जगदास्से परन्तप
नैवं पूर्वे परे चैव करिष्यन्ति कृतानि ते
कर्माणि यानि देव त्वं बाल एव महाद्युते
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्
वैराजभवने चापि ब्रह्मणा न्यवसस्सह
वैशम्पायनः
एवमुक्त्वा स्वमात्मानमात्मा कृष्णस्य पाण्डवः
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः
श्रीभगवान्
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु
नरस्त्वमसि दुर्धर्ष हरिर्नारायणोऽस्म्यहम्
लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी
अनन्यः पार्थ मत्तस्त्वं अहं त्वत्तश्च पाण्डव
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ
वैशम्पायनः
तस्मिन्वीरसमावापे सङ्क्रुद्धेष्वथ राजसु
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैस्सह
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी
द्रौपदी
वासुदेव वसूनां त्वं वासवावरजाच्युत
देवदेवो हि देवानामिति द्वैपायनोऽब्रवीत्
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम्
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत्
विष्णुस्त्वमसि दुर्धर्षस्त्वं यज्ञो मधुसूदन
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत्
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाऽब्रवीत्
साध्यानामपि देवानां वसूनामीश्वरेश्वरः
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत्
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी प्रभो
जठरे त इमे लोकाः पुरुषोऽसि सनातनः
विद्यातपोभितृप्तानां तपसा भावितात्मनाम्
आत्मदर्शनसिद्धानामृषीणामसि सत्तमः
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम
त्वं प्रभुस्त्वं विभुश्च त्वमात्मभूस्त्वं सनातनः
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन
ईशस्त्वं सर्वलोकानां ये दिव्या ये च मानुषाः
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि
राजमध्ये सभायां तु रजसाऽभिपरिप्लुता
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात्
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मतः
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन
शाश्वतोऽयं धर्मपथस्सद्भिराचरितस्सदा
यद्भार्यां परिरक्षन्ति भर्तारोऽप्यबलीयसः
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन
ते मां शरणमापन्नां नान्वपद्यन् कथं वराः
पञ्चेमे पञ्चभिर्जाताः कुमारा भूरितेजसः
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमाः
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्
अधर्मेण हृतं राज्यं सर्वे दासास्तथा कृताः
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम्
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
य एतानाक्षिपद्भ्रातॄन्सह मात्रा विहिंसकः
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम्
कालकूटनिभं तीक्ष्णं सम्भृतं रोमहर्षणम्
तज्जीर्णमविकारेण सहान्नेन जनार्दन
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम
प्रमाणकोट्यां विश्वस्तं पाशैर्बध्वा वृकोदरम्
तोये सुभीमे गङ्गायाः प्रक्षिप्य पुनराव्रजत्
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः
आशीविषैः कृष्णसर्पैस्सुप्तं चैनमदंशयत्
सर्वेष्वेवाङ्गदेशेषु न ममार ह शत्रुहा
प्रतिबुद्धस्तु कौन्तेयस्सर्वान्सर्पानपोथयत्
सारथिं चास्य दयितमपहस्तेन जघ्निवान्
ततः पुनरुपाधाक्षीद्बालकान्वारणावते
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति
यत्राऽऽर्या रुदती भीता पाण्डवानिदमब्रवीत्
महद्व्यसनमापन्ना शिखिना परिवारिता
आर्या
हा हताऽस्मि कुतोन्वद्य भवेच्छान्तिरिहानलात्
अनाथा विनशिष्यामि बालकैः पुत्रकैस्सह
द्रौपदी
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः
आर्यामाश्वासयामास भ्रातॄंश्चैव वृकोदरः
वैनतेयो यथा पक्षी गरुडः पततां वरः
तथैवाभिपतिष्यामि भयं वो नेह विद्यते
आर्यामङ्केन वामेन दक्षिणेन युधिष्ठिरम्
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात्
ते रात्रौ प्रस्थितास्सर्वे सह मात्रा यशस्विनः
अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात्
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी
भीमस्य पादौ कृत्वा तु स्वपतोऽङ्के ततो बलात्
पर्यष्वजत संहृष्टा कल्याणी मृदुपाणिना
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः
पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते
तयोश्श्रुत्वा तु कथितमागच्छद्राक्षसाधमः
भीमरूपो महानादान्विसृजन्भीमदर्शनः
राक्षसः
केन सार्धं कथयसि आनयैनं ममान्तिकम्
हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि
द्रौपदी
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी
नैतदैच्छत्तदा कर्तुमनुक्रोशादनिन्दिता
स नादान्विपुलान्घोरान् राक्षसः पुरुषादकः
कृत्वाऽभ्यगच्छद्वेगेन भीमसेनं तदा किल
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्
संहत्य भीमसेनस्य व्याक्षिपत्सहसा करम्
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिस्सह
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः
ततस्ते प्राद्रवन्सर्वे सह मात्रा यशस्विनः
एकचक्रामभिगतास्संवृता ब्राह्मणव्रजैः
प्रस्थाने विदुरश्चैषां मन्त्री प्रियहितोऽभवत्
ततोऽगच्छन्नेकचक्रां पाण्डवास्संशितव्रताः
तत्राप्यासादयामासुर्बकं नाम महाबलम्
पुरुषादं प्रतिभयं हिडिम्बेनैव सम्मितम्
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः
सहितो भ्रातृभिस्सर्वैर्द्रुपदस्य पुरं ययौ
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन
स्वयंवरे महत्कर्म कृत्वाऽप्यसुकरं परैः
एवं क्लेशैस्सुबहुभिः क्लिश्यमाना सुदुःखिता
निवसाम्यार्यया हीना कृष्ण धौम्यपुरस्सरा
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः
अजिताः परिकृष्यन्तीं समुपैक्षन्त मां कथम्
एतादृशानि दुःखानि सहन्ती दुर्बलीयसाम्
दीर्घकालं प्रदीप्तानि पापानां पापकर्मणाम्
कुले महति जाताऽस्मि दिव्येन विधिना किल
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः
कचग्रहमनुप्राप्ता का नु जीवेत मादृशी
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन
वैशम्पायनः
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः
चक्षुषी परिमार्जन्ती निश्श्वसन्ती पुनः पुनः
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत्
द्रौपदी
नैव मे पतयस्सन्ति न पुत्रा मधुसूदन
न भ्रातरो न च पिता नैव त्वं न च बान्धवाः
ये मां विप्रकृतां क्षुद्रैरुपेक्षन्ते विशोकवत्
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा
वैशम्पायनः
श्रीभगवान्
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धाऽसि भामिनि
बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान्
निहताञ्जीवितं त्यक्त्वा शयानान्धरणीतले
यत्समक्षं पाण्डवानां तत्करिष्यामि मा शुचः
सत्यं ते प्रतिजानामि राज्ञो राज्ञी भविष्यसि
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत्
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्
धृष्टद्युम्नः
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः
रामकृष्णौ व्यपाश्रित्य अजेयास्स्म शुचिस्मिते
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः
वैशम्पायनः
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थिताः
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्