धृतराष्ट्रः
किम्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत्समागमः
विदुरः
शृणु भीमस्य कर्मेदमतिमानषकर्मणः
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम्
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः
दूरात्परिहरन्ति स्म पुरुषादभयात्किल
तेषां प्रविशतां तत्र मार्गमावृत्य भारत
दीप्ताक्षं भीषणं रक्षस्सोल्मुकं प्रत्यदृश्यत
बाहू महान्तौ कृत्वा तु तथाऽऽस्यं च भयानकम्
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्
सृजन्तं राक्षसीं मायां महारावविराविणीम्
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम्
तस्य नादेन सन्त्रस्ताः पक्षिणस्सर्वतोदिशम्
विमुक्तनादास्सम्पेतुस्स्थलजा जलजैस्सह
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत्
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः
विदूरजाताश्च लतास्समाश्लिष्यन्त पादपान्
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः
तं समासाद्य वित्रस्ता कृष्णा कमललोचना
अदृष्टपूर्वमत्यन्तं विषादमगमद्भृशम्
दुश्शासनकरोत्कृष्टविप्रकीर्णशिरोरुहा
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता
विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यस्सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्षुब्धः कालकल्पो ह्यदृश्यत
युधिष्ठिरः
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्
वैशम्पायनः
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
राक्षसः
अहं बकस्य वै भ्राता किम्मीर इति विश्रुतः
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरे
के यूयमभिसम्प्राप्ता भक्ष्यभूता ममान्तिकम्
युधि निर्जित्य वस्सर्वान्भक्षयिष्ये गतज्वरः
विदुरः
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
आचचक्षे ततस्सर्वं गोत्रनामादि भारत
युधिष्ठिरः
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः
सहितो भ्रातृभिस्सर्वैर्भीमसेनार्जुनादिभिः
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
वनमभ्यागतो घोरमिदं तव परिग्रहम्
विदुरः
किम्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम
उपपादितमद्येह चिरकालान्मनोरथम्
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम्
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्
अनेन हि मम भ्राता बको विनिहतः प्रियः
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः
हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्
प्रचारसमयेऽस्माकमर्द्धरात्रे समास्थिते
अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम्
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा
अद्याहमनृणो भूत्वा भ्रातुस्सख्युस्तथैव च
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम्
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्
सम्भक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम्
वैशम्पायनः
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः
नैतदस्तीति सङ्क्रुद्धो भर्त्सयामास राक्षसम्
ततो भीमो महाबाहुरारुज्य तरसा द्रुमम्
दशव्याममिवाविद्धं निष्पत्रमकरोत्तदा
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघगर्जितम्
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत
इत्युक्त्वा तमभिक्रुद्धं कक्ष्यामुत्पीड्य पाण्डवः
निष्पिष्य पाणिना पाणिं सन्दष्टौष्ठपुटो बली
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि
पातयामास वेगेन कुलिशं मघवानिव
असम्भ्रान्तं तु तद्रक्षस्समरे प्रत्यदृश्यत
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
तदुदस्तमलातं तु भीमः प्रहरतां वरः
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्
किम्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्
दण्डपाणिरिव क्रुद्धस्समरे प्रत्यदृश्यत
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्युद्धं भ्रात्रोस्स्त्रीकाङ्क्षिणोर्यथा
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः
यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा
मूर्ध्नि जर्झरभूतास्तु बहवस्तत्र पादपाः
चीराणीव व्युदस्तानि रेजुस्तत्र महावने
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशाम्पते
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च
ततश्शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह
तं शिलाताडनजडं पर्यधावत् स राक्षसः
बाहुविक्षिप्तकिरणस्स्वर्भानुरिव भास्करम्
तावन्योन्यं समाश्लिश्य विकर्षन्तौ परस्परम्
उभावपि चकाशेते प्रवृद्धौ वृषभाविव
तयोरासीत्सुतुमुलस्सम्प्रहारस्सुदारुणः
नखदंष्ट्रायुधवतोर्व्याघ्रयोर्दृप्तयोरिव
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः
अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः
मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम्
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यवान्
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा
शब्दस्समभवद्घोरो वेणुस्फोटसमो युधि
अथैनमाक्षिप्य बलाद्भीमसेनो महाबलः
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम्
स भीमेन परामृष्टो दुर्बलो बलिनां रणे
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवः
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा
नदन्तं तं महानादं भिन्नभेरीसमस्वनम्
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्
आक्रम्य च कटीदेशे जानुना राक्षसाधमम्
अपीडयत बाहुभ्यां तस्य कण्ठं वृकोदरः
अथ कज्जलसर्वाङ्गं व्यावृत्तनयनोल्बणम्
भूतले पातयामास वाक्यं चेदमुवाच ह
भीमः
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्
करिष्यसि गतश्चासि यमस्य सदनं प्रति
विदुरः
इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधविवृत्तनेत्रः
प्रस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः
भीमं परिष्वज्य गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः
विदुरः
एवं विनिहतस्सङ्ख्ये किम्मीरो मनुजाधिप
भीमेन वचनात्तस्य धर्मराजस्य कौरव
ततो निष्कण्टकं कृत्वा वनं तदपराजितः
द्रौपद्या सह धर्मज्ञा वसतिं चावसन् यतः
समाश्वास्य च ते सर्वे द्रौपदीं पुरुषर्षभाः
प्रहृष्टमनसस्सर्वे प्रशशंसुर्वृकोदरम्
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम्
स मया गच्छता मार्गे विनिकीर्णो भयावहः
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत
ब्राह्मणानां कथयतां ये तत्रासन्समागताः
वैशम्पायनः
एवं विनिहतं सङ्ख्ये किम्मीरं राक्षसाधमम्
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा