धृतराष्ट्रः
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने
अहं चैव विजानामि सर्वे चेमे नराधिपाः
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम्
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम
व्यासः
अयमायाति वै राजन्मैत्रेयो भगवानृषिः
अन्वीक्ष्य पाण्डवान्भ्रातॄनिहैवाऽस्मद्दिदृक्षया
एष दुर्योधनं पुत्रं तव राजन्महानृषिः
अनुशास्तु यथान्यायं शमायास्य कुलस्य ते
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा
वैशम्पायनः
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः
कृत्वाऽर्घ्याद्याः क्रियास्सर्वा विश्रान्तं मुनिपुङ्गवम्
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः
धृतराष्ट्रः
सुखेनाऽऽगमनं कच्चिद्भगवन्कुरुजाङ्गले
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः
कच्चित्कुरूणां सौभ्रात्रमविच्छिन्नं भविष्यति
मैत्रेयः
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम्
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने
तं जटाजिनसंवीतं तपोवननिवासिनम्
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो
तत्राश्रौषमहं राजन् पुत्राणां तव विग्रहम्
अनयं द्यूतरूपेण महापायमुपस्थितम्
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया
सदा ह्यभ्यधिकस्स्नेहः प्रीतिश्च त्वयि मे प्रभो
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति
यदन्योन्यकृते पुत्रा विरुध्यन्ते नराधिप
मेधीभूतस्स्वयं राजन्निग्रहे प्रग्रहे भवान्
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे
दस्यूनामिव ते वृत्तं सभायां कुरुनन्दन
तेन न भ्राजसे राजंस्तापसानां समागमे
वैशम्पायनः
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः
मैत्रेयः
दुर्योधन महाबाहो निबोध वदतां वर
वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ
पाण्डवान्प्राप्य तान् रात्रौ किम्मीरो नाम राक्षसः
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः
तं भीमस्समरश्लाघी बलेन बलिनां वरः
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा
पश्य दिग्विजये राजन्यथा भीमेन पातितः
जरासन्धो महेष्वासो नागायुतबलो युधि
सम्बन्धी वासुदेवश्च येषां स्यालश्च पार्षतः
ते हि सर्वे नरव्याघ्राश्शूरा विक्रान्तयोधिनः
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः
सत्यव्रतपरास्सर्वे सर्वे पुरुषमानिनः
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्
हिडिम्बबकमुख्यानां किम्मीरस्य च रक्षसः
कस्तान्युधि समासीत जरामरणवान्नरः
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः
वैशम्पायनः
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते
ऊरुं गजकराकारं करेणाभिजघान सः
दुर्योधनस्स्मितं कृत्वा चरणेनोल्लिखन्महीम्
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्
स कोपवशमापन्नो मैत्रेयो भगवानृषिः
विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे
ततस्स वार्युपस्पृश्य कोपसंरक्तलोचनः
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्
मैत्रेयः
यस्मात्त्वं मामनादृत्य न मे वाचं चिकीर्षसि
तस्मादस्यावमानस्य सद्यः फलमवाप्स्यसि
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्
यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बलात्
वैशम्पायनः
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः
प्रसादयामास मुनिं नैतदेवं भवेदिति
मैत्रेयः
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा
शापो न भविता तात विपरीते भविष्यति
वैशम्पायनः
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा
मैत्रेयं प्राह किम्मीरः कथं भीमेन पातितः
मैत्रेयः
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः
एष ते विदुरस्सर्वमाख्यास्यति गते मयि
वैशम्पायनः
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्
किम्मीरवधसंविग्नो भयं दुर्योधनोऽगमत्