वैशम्पायनः
धतराष्ट्र महाप्राज्ञ निबोध वचनं मम
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः
ते स्मरन्तः परिक्लेशान्पूर्णे वर्षे त्रयोदशे
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत
तदयं किं नु पापात्मा तव पुत्रस्सुमन्दधीः
पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति
वार्यतां साध्वयं मूढश्शमं गच्छतु ते सुतः
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यते
यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम्
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत
उपेक्ष्यमाणा सा राजन्महान्तमनयं सृजेत्
अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः
पाण्डवैस्सहितो राजन्नेक एवासहायवान्
ततस्संसर्गजस्स्नेहः पुत्रस्य तव पाण्डवैः
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ
अथवा जायमानस्य यच्छीलमनुजायते
श्रूयते तन्महाराज नामृतस्यापसर्पति
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा
भवान्वाऽत्र परं कार्यं पुराऽपार्थोऽनिवर्तते
धृतराष्ट्रः
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम्
मन्ये तु विधिनाऽऽक्रम्य कारितोऽस्मीति वै मुने
न तद्रोचयते भीष्मो न द्रोणो विदुरो न च
गान्धार्या नेष्यते द्यूतं तच्च मोहात्प्रवर्तितम्
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत
व्यासः
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः
अन्यैस्समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम्
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत
इन्द्रः
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्
मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति
सुरभिः
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम्
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम्
एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप
कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम
एकस्त्वत्र बलोपेतो धुरमुद्वहतेऽधिकाम्
अपरोप्यबलप्राणः कृशो धर्मनिसन्ततः
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव
वध्यमानः प्रतोदेन तुद्यमानस्तथैव च
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती
इन्द्रः
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने
किं कृपान्वितवत्यत्र पुत्र एकोऽत्र हन्यते
सुरभिः
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे
दीनस्य तु ततश्शक्र पुत्रस्याभ्यधिका कृपा
व्यासः
तदिन्द्रस्सुरभेर्वाक्यं निशम्य भृशविस्मितः
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक
विदुरश्च महाप्राज्ञस्स्नेहादेतद्ब्रवीम्यहम्
चिराय तव पुत्राणां शतमेकं च पार्थिव
पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दास्सुदुःखिताः
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि
इति दीनेषु पार्थेषु मानो मे परितप्यते
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि
दुर्योधनस्तव सुतश्शमं गच्छतु पाण्डवैः