वैशम्पायनः
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्
धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः
स सौबलं समानाय्य कर्णदुश्शासनौ तथा
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः
दुर्योधनः
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य सम्मतः
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन
पुनश्शोषं गमिष्यामि निरसुर्निरवग्रहः
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे
शकुनिः
किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते
गतास्ते समयं कृत्वा नैतदेवं भविष्यति
सत्यवाक्येः स्थितास्सर्वे पाण्डवा भरतर्षभ
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा गृहम्
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः
दुश्शासनः
एवमेतन्महाप्राज्ञ यथा वदसि मातुल
नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते
तथा तद्भविता राजन्नान्यथा तद्भविष्यति
कर्णः
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते
वैशम्पायनः
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः
उपलभ्य ततः कर्णो विवृत्य नयने शुभे
रोषाद्दुश्शासनं चैव सौबलं च तमेव च
कर्णः
उवाच परमक्रुद्ध उद्यम्याऽऽत्मानमात्मना
अथो मम मतं यत्तु तन्निबोध नराधिपाः
प्रियं सर्वे चिकीर्षामो राज्ञः किं करवामहे
न चास्य शक्नुमस्सर्वे ह्यवस्थातुमतन्द्रिताः
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः
गच्छामस्सहिता हन्तुं पाण्डवान्वनगोचरान्
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्
यावदेव परिद्यूना यावच्छोकपरायणाः
यावन्मन्त्रविहीनाश्च तावद्गच्छाम माचिरम्
वैशम्पायनः
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः
प्रहृष्टमनसः सर्वे प्रत्यूचुस्सूतजं तदा
दुश्शासनादयः
एतत्कृत्यतमं राज्ञः कौरवस्य महात्मनः
वैशम्पायनः
एवमुक्त्वा सुसंरब्धा रथैस्सर्वे पृथक्पृथक्
निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्