वैशम्पायनः
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः
स सभाद्वारमागम्य विदुरस्मारमोहितः
समक्षं पार्थिवेन्द्राणां विसञ्ज्ञः प्रापतद्भुवि
स तु लब्ध्वा चिरात्सञ्ज्ञां समुत्थाय महीतलात्
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्
धृतराष्ट्रः
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः
तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीव मे
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै
वैशम्पायनः
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्
धृतराष्ट्रः
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम
मया मूढेन निकृतः कच्चिज्जीवति वा न वा
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन
व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्
न जह्याज्जीवितं प्राज्ञस्तं गच्छाऽऽनय सञ्जय
वैशम्पायनः
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम्
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्
विदुरेण सहाऽऽसीनं ब्राह्मणैश्च सहस्रशः
भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव पुरन्दरम्
युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः
भीमार्जुनयमांश्चापि तथैव प्रत्यपद्यत
राज्ञा पृष्टस्स कुशलं सुखासीनश्च सञ्जयः
शशंसाऽऽगमने हेतुमिदं चैवाब्रवीद्वचः
सञ्जयः
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय नराधिपम्
सोऽनुमान्य कुरुश्रेष्ठान्पाण्डवान्कुरुनन्दनान्
नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद
वैशम्पायनः
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्
सोऽभिगत्वा तदा वेश्म राज्ञस्तमभिवाद्य च
उपातिष्ठन्महात्मानं राजानं प्रत्यवर्तत
तमब्रवीन्महाप्राज्ञो धृतराष्ट्रः प्रतापवान्
धृतराष्ट्रः
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः
चिन्तयाऽहं परिक्लिष्टस्त्वद्गतेनान्तरात्मना
वैशम्पायनः
सोऽङ्कमारोप्य विदुरं मूर्धन्याघ्राय चैव ह
क्षम्यतामिति होवाच यदुक्तोऽसि मया रुषा
विदुरः
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान्
तथाऽहमागतः क्षिप्रं त्वद्दर्शनपरायणः
भवन्ति हि कुरुश्रेष्ठ पुरुषा धर्मचेतसः
दीनानुकम्पिनो राजन्नात्र कार्या विचारणा
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव
दीना इति हि मे बुद्धिरभिपन्नाऽद्य तान्प्रति
वैशम्पायनः
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्