वैशम्पायनः
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्
युधिष्ठिरः
प्रस्थिताननुयातान्नो ब्राह्मणान्वेदपारगान्
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे
कथमत्र मया कार्यं तद्बूहि भगवन्मम
वैशम्पायनः
धौम्यः
मुहूर्तं मनसा ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम्
युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्
ततोऽनुकम्पया तेषां सविता स्वपिता इव
गत्वोत्तरायणं तेजो लोकानुद्धृत्य रश्मिभिः
दक्षिणायनमावृत्तो महीं वर्षति वारिभिः
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः
रवेस्तेजस्समुद्धृत्य जनयामास वारिणा
निषिक्तश्चन्द्रतेजोभिस्सूयते जगतो रविः
ओषध्यष्षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्
नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज
राजानो हि महात्मानो योनिकर्मविशोधिताः
उद्धरन्ति प्रजास्सर्वास्तप आस्थाय पुष्कलम्
भौमेन कार्तवीर्येण वैन्येन नहुषेण च
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः
तथा त्वमपि कौन्तेय कर्मणा च विशोधितः
तप आस्थाय धर्मेण द्विजातीन्भर कौरव
वैशम्पायनः
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्
दीप्यमानस्स्ववपुषा ज्वलन्निव हुताशनः
आदित्यः
यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि
अहमन्नं प्रदास्यामि नव वर्षाणि त्रीणि च
फलमूलामिषं शाकं संस्कृतं यन्महानसे
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप
यावद्वाञ्चति पाञ्चाली पात्रेणानेन सुव्रता
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति
धनं च विविधं तुभ्यमित्युक्त्वाऽन्तरधीयत
वैशम्पायनः
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्
जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः
द्रौपद्या सह सङ्गम्य पश्यमानोऽपयात्प्राभुः
महानसे तदाऽन्नं तु साधयामास पाण्डवः
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम्
अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान्
भुक्तवत्स्वथ विप्रेषु भोजयित्वाऽनुजानपि
शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु
इज्यार्थे स्म प्रवर्तन्ते विधिमन्त्रप्रमाणतः
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम्
जनमेजयः
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि
सर्वात्मभूतं सम्पूज्य यतप्राणो जितेन्द्रियः
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम्
मयि स्नेहोऽस्ति चेद्ब्रह्मन्यदनुग्रहभागहम्
भगवन्नास्ति चेद्गुह्यं तच्च मे ब्रूहि साम्प्रतम्
वैशम्पायनः
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम्
धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने
नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते
सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कस्सविता रविः
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्
सोमो बृहस्पतिश्शुक्रो बुधोऽङ्गारक एव च
इन्द्रो विवस्वान्दीप्तांशुश्शुचिश्शौरिश्शनैश्चरः
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश्च कलिस्सर्वामराश्रयः
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः
पुरुषश्शाश्वतो योगी व्यक्ताव्यक्तस्सनातनः
लोकाध्यक्षस्सुराध्यक्षो विश्वकर्मा तमोनुदः
वरुणस्सागरोंऽशुश्च जीमूतो जीवनोऽरिहा
भूताश्रयो भूतपतिस्सर्वभूतनिषेवितः
मणिस्सुवर्णो भूतात्मा कामदस्सर्वतोमुखः
जयो विशालो वरदश्शीघ्रगः प्राणधारणः
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेस्सुतः
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना
शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम्
धौम्याद्युधिष्ठरः प्राप्य सर्वान्कामानवाप्तवान्
सुरपितृगणयक्षसेवितं निशिचरसिद्धगणैश्च वन्दितम्
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम्
सूर्योदये यस्सुसमाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान्
लभेत जातिस्मरतां सदा नरो धृतिं च मेधां च स विन्दते वराम्
इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति वा यस्सुमनास्समाहितः
स मुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान्