वैशम्पायनः
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः
युधिष्ठिरः
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः
फलमूलामिषाहारा वनं यास्याम दुःखिताः
वनं च दोषबहुलं बहुव्यालसरीसृपम्
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति
ब्राह्मणानां तु सङ्क्लेशो दैवतान्यपि सादयेत्
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः
ब्राह्मणाः
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः
स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु
युधिष्ठिरः
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः
सहायविपरिभ्रंशस्त्वयं सादयतीव माम्
आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च
दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे
ब्राह्मणाः
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव
स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम्
अनुध्यानेन जप्येन विधास्यामश्शिवं तव
कथाभिश्चानुकूलाभिस्सह रंस्यामहे वने
युधिष्ठिरः
एवमेतन्न सन्देहो रमेयं ब्राह्मणैस्सह
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः
कथं द्रक्ष्यामि वस्सर्वान्स्वयमाहृतभोजनान्
मद्भक्तान् क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्
वैशम्पायनः
इत्युक्त्वा नृपतिश्शोचन्निषसाद महीतले
तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत्
शौनकः
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम्
श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता
अर्थकृच्छ्रेषु दुःखेषु व्यापत्सु स्वजनेष्वपि
शारीरे मानसे चैव न सीदन्त्यसुखे बुधाः
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा
आत्मव्यवस्थानकरा गीताश्श्लोका महात्मना
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्
एतच्चतुर्भिश्शारीरं कारणैस्सम्प्रवर्तते
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात्
आधिव्याधिप्रशमनं क्रियायोगबलेन तु
मतिमन्तो व्यथोपेताश्शमं प्रायेण कुर्वते
मानसाख्यं प्रियाख्यानात्सम्भोगोपनयैर्नृणाम्
मानसेनैव दुःखेन शरीरमुपतप्यते
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना
प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च
शोकहर्षौ तथाऽऽयासः स्नेहात्सर्वं प्रवर्तते
स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुस्स्मृतः
कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत्
धर्मार्थिनं तथाऽल्पोऽपि रागदोषो विनाशयेत्
विप्रयोगे न तु त्यागी दोषदर्शी समागमात्
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात्
स्वशरीरसमुत्थं तु ज्ञानेन परिवर्जयेत्
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्
रागाभिभूतः पुरुषः कामेन परिकृष्यते
इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम्
अधर्मबहुला चैव घोरा पापानुबन्धिनी
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतस्सुखम्
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्
विनाशयति सम्भूता अयोरज इवानलः
यथाऽयः स्वसमुत्थेन वह्निना नाशमृच्छति
तथाऽकृतात्मा लोभेन सहजेन विनश्यति
राजतस्सलिलादग्नेश्चोरतस्स्वजनादपि
अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव
यथा ह्यामिषमाकाशे पक्षिभिश्श्वापदैर्भुवि
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान्
अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम्
अर्थे श्रेयसि चासक्तो न श्रेयो विन्दते नरः
तस्मादर्थागमास्सर्वे मनोमोहविवर्धनाः
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्
अर्थस्योपार्जने दुःखमार्जितानां तु रक्षणे
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्
अर्था दुःखं परित्यक्तुं पालिताश्चापि ते सुखाः
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत्
असन्तोषपरा मूढास्सन्तोषं यान्ति पण्डिताः
अन्तो नास्ति पिपासायास्सन्तोषः परमं सुखम्
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः
ऐश्वर्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः
त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहैतुकम्
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः
अतश्च धर्मिभिस्सद्भिर्न चेहार्थः प्रशस्यते
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः
युधिष्ठिरः
नास्मत्पोषनलिप्सार्थमियमर्थेप्सुता मम
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः
कथं ह्यस्मद्विधो विप्र वर्तमानो गृहाश्रमे
भरणं पालनं चापि न कुर्यादनुयायिनाम्
संविभागो हि भूतानां सर्वेषामेव दृश्यते
तथैव याचमानेभ्यः प्रदेयं गृहमेधिना
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्
प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनाम्
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः
आत्मार्थं न पचेदन्नं न वृथा घातयेत्पशुम्
न चैकस्स्वयमश्नीयाद्विधिवर्जं न निर्वपेत्
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि
वैश्वदेवं हि नामेदं सायं प्रातर्विधीयते
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम्
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे
शौनकः
अहो बत महत्कष्टं विपरीतमिदं जगत्
येनापत्रपते साधुरसाधुस्तेन तुष्यति
शिश्नोदरकृते चाज्ञो विघसं कुरुते बहु
मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः
ह्रियते बुध्यमानोऽपि मनो हारिभिरिन्द्रियैः
विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्त इव सारथिः
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः
मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम्
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते
ततस्सङ्कल्पवीर्येण कामेन विषयेषुभिः
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्
ततो दारैर्विहारैश्च मोहितश्च विशाम्पते
महामोहमुखे मग्नो नात्मानमवबुध्यते
एवं पतति संसारे तासु तास्विह योनिषु
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते
जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः
तदिदं वेदवचनं कुरु कर्म त्यजेति च
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्
इज्याध्ययनदानानि तपस्सत्यं क्षमा दमः
अलोभ इति मार्गोऽयं धर्मस्याष्टविधस्स्मृतः
अत्र पूर्वश्चतुर्भागः पितृयाणपथे स्थितः
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्
उत्तरो देवयानं तु सद्भिराचरितं तथा
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्
सम्यक्सङ्कल्पयोगाच्च सम्यक्चेन्द्रियनिग्रहात्
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः
रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः
रुद्रास्साध्यास्तथाऽऽदित्या वसवोऽथाश्विनावपि
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम्
तस्मात्तपस्समास्थाय कुरुष्वात्ममनोरथम्