जनमेजयः
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैस्सहामात्यैर्निकृत्या द्विजसत्तम
श्राविताः परुषा वाचस्सृजद्भिर्वैरमुत्तमम्
किमकुर्वत कौरव्या मम पूर्वपितामहाः
कथमैश्वर्यभूयिष्ठास्सहसा दुःखमेयुषः
वने विजह्रिरे पार्थाश्शक्रप्रतिमतेजसः
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्
किमाहाराः किमाचाराः क्व च वासो महात्मनाम्
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम्
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्
पतिव्रता महाभागा सततं सत्यवादिनी
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे
वैशम्पायनः
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैस्सहामात्यैर्निर्ययुर्गजसाह्वयात्
वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा
उदङ्मुखाश्शस्त्रभृतः प्रययुस्सह कृष्णया
इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश
रथैरनुययुश्शीघ्रैः स्त्रिय आदाय सर्वशः
ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत
ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्
व्रजतस्तान्विदित्वा तु पौराश्शोकसमन्विताः
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्
ऊचुर्वै समयं कृत्वा समागम्य परस्परम्
पौराः
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः
यत्र दुर्योधनः पापस्सौबलेयेन पालितः
कर्णदुश्शासनाद्यैश्च राज्यमेतच्चिकीर्षति
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतस्सुखम्
यत्र पापसहायोऽयं पापो राज्यं बुभूषते
दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः
वैशम्पायनः
एवमुक्त्वाऽनुजग्मुस्तान् पाण्डवांस्ते समेत्य च
ऊचुः प्राञ्जलयस्सर्वे तान्कुन्तीमाद्रिनन्दनान्
पौराः
क्व गमिष्यथ भद्रं वस्त्यक्त्वाऽस्मान्दुःखभागिनः
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः
उद्विग्नास्स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ
भक्तानुरक्तास्सुहृदस्सदा प्रियहिते रताः
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः
श्रूयतां चाभिधास्यामो गुणदोषान्नराधिपाः
शुभाशुभाधिवासेन संसर्गं कुरुते यथा
वस्त्रमम्भस्तिलान्भूमिं गन्धो वासयते यथा
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः
मोहजालस्य योनिर्हि मूढैरेव समागमः
अहन्यहनि धर्मस्य योनिस्साधुसमागमः
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः
सद्भिश्च सह संसर्गः कार्यश्शमपरायणैः
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च
ते सेव्यास्तैस्समास्या हि शास्त्रेभ्योऽपि विशिष्यते
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्
असतां दर्शनात्स्पर्शात्सम्भाषणसहासनात्
धर्माचाराः प्रहीयन्ते न च सिद्ध्यन्ति मानवाः
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः
लोकाचाराश्च सम्भूता वेदोक्ताश्शिष्टसम्मताः
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः
युधिष्ठिरः
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः
तदहं भ्रातृसहितस्सर्वान्विज्ञापयामि
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया
भीष्मः पितामहो राजा जननी विदुरश्च मे
सुहृज्जनश्च वा यो मे नगरे नागसाह्वये
ते ह्यस्मद्धितकामार्थं पालनीयाः प्रयत्नतः
युष्माभिस्सहितैस्सर्वैश्शोकसन्तापविह्वलैः
निवर्तध्वं गता दूरं ममागमनकाङ्क्षिणः
स्वजनो न्यासभूतो मे कार्या स्नेहान्विता मतिः
एतद्धि मम कार्याणां परमं हृदि संस्थितम्
कृता तेन मे तुष्टिस्सत्कारश्च भविष्यति
वैशम्पायनः
तथाऽनुमन्त्रितास्तेन ता वै प्रजास्तथा
चक्रुरार्तस्वरं सर्वा हा राजन्निति दुःखिताः
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः
अकामास्सन्न्यवर्तन्त समागम्याथ पाण्डवैः
विनिवृत्तेषु पौरेषु रथानास्थाय पाण्डवाः
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्
ततो दिवसशेषेण वटं गत्वा तु पाण्डवाः
ऊषुस्तां रजनीं वीरास्संस्पृश्य सलिलं शुचि
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे
ब्रह्मघोषपुरस्कारस्सञ्जल्पस्समजायत
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः
आश्वासयन्तो विप्रेन्द्राः क्षपां सर्वां व्यनोदयन्
राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः
अशेत तां निशां राजन्दुःखशोकसमाहितः