धृतराष्ट्रः-
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः
भीमसेनस्सव्यसाची माद्रीपुत्रौ च तावुभौ
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी
श्रोतुमिच्छाम्यहं सर्वं तेषामिङ्गितचेष्टितम्
विदुरः-
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः
बाहू विशालौ कृत्वा च भीमो गच्छति पाण्डवः
सिकता वपन्सव्यसाची राजानमनुगच्छति
माद्रीपुत्रस्सहदेवो मुखमालिप्य गच्छति
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः
दर्शनीयतमो वीरो राजानमनुगच्छति
कृष्णा तु केशैः प्रतिच्छाद्य मुखमायतलोचना
दर्शनीया प्ररुदती राजानमनुगच्छति
धौम्यो याम्यानि सामानि रौद्राणि च विशाम्पते
गायन्गच्छति मार्गेषु कुशानादाय पाणिना
धृतराष्ट्रः-
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते
विदुरः-
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत
निकृत्या क्रोधसन्तप्तो नोन्मीलयति लोचने
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा
पिधाय तु मुखं राजा तस्माद्गच्छति पाण्डवः
यथा च भीमो व्रजति तन्मे निगदतश्शृणु
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ
बाहू विशालौ कृत्वाऽथ भीमसेनोऽनुगच्छति
बाहू दर्शयमानोऽपि बाहुद्रविणदर्पितः
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः
प्रदिशञ्छरसङ्घातान्कुन्तीपुत्रोऽर्जुनस्तदा
सिकता वपन्सव्यसाची राजानमनुगच्छति
असक्तास्सिकतास्तस्य यथा सम्प्रति भारत
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु
न मे कश्चिद्विजानीयान्मुखमद्येति भारत
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति
नासां मनांस्याददेयं मार्गे स्त्रीणामिति प्रभुः
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति
एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत्
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे
हतपत्यो हतसुता हतबन्धुजनप्रियाः
बह्व्यश्शोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम्
कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुनः पुनः
सामानि गायन्याम्यानि पुरतो याति भारत
हतेषु भरतेष्वाजौ कुरूणां कुरवस्तदा
एवं सामानि गायन्त्वित्युक्त्वा धौम्योऽपि गच्छति
प्रस्थाप्य पाण्डवाञ्शेषान्निश्शेषस्ते भविष्यति
इति धौम्यो व्यवसितो रौद्रसामानि गायति
एवमाकारलिङ्गैस्तैर्व्यवसायं मनोगतम्
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्
अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पत
राहुरग्रसदादित्यमपर्वणि विशाम्पते
उल्का चाप्यपसव्यं तु पुरस्कृत्वा व्यशीर्यत
प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः
देवायतनचैत्येषु प्राकाराट्टालकेषु च
एवमेते महाराज वनं गच्छन्ति पाण्डवाः
भरतानां विनाशाय राजन् दुर्मन्त्रिते तव
वैशम्पायनः-
एवमुक्त्वा तु विदुरस्तूष्णीमासीद्विशाम्पते
नारदश्च सभामध्ये कुरूणामग्रतस्स्थितः
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह
नारदः-
इतश्चतुर्दशे वर्षे विनशिष्यन्ति कौरवाः
दुर्योधनापराधेन भीमार्जुनबलेन च
वैशम्पायनः-
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत
ब्राह्मीं श्रियं च विपुलां बिभ्रद्देवर्षिसत्तमः
धृतराष्ट्रः-
किमब्रुवन्नागरिकाः किं वै जनपदा जनाः
मह्यं तत्त्वेन चाचक्ष्व क्षत्तस्सर्वमशेषतः
विदुरः-
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा येऽन्ये वदन्त्यथ
तच्छृणुष्व महाराज वक्ष्यते च मया तव
हाहा गच्छन्ति नो नाथास् समवेक्षध्वमीदृशम्
इति पौरास्सुदुःखार्ताश्शोचन्ति स्म समन्ततः
ततः पौराश्च दीनास्ते गते पार्थे वनं तथा
गावो हीना यथा वत्सैः पुरं प्रविविशुः पुनः
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत्
नगरं हस्तिनपुरं सस्त्रीवृद्धकुमारकम्
सर्वे चासन् निरुत्साहा व्याधिना बाधिता यथा
पार्थान् प्रति नरा नित्यं चिन्ताशोकपरायणाः
तत्र तत्र कथां चक्रुस्समासाद्य परस्परम्
कुन्ती च भृसदुःखार्ता पुत्रैस्सर्वैर्विवर्जिता
हीनवत्सा यथा धेनुर्विललाप सुदुःखिता
वनं गते धर्मराजे दुःखशोकपरायणाः
बभूवुः कौरवा वृद्धा भृशं शोकेन पीडिताः
ततः पौरजनास्सर्वश्शोचन्नास्ते जनाधिपम्
कुर्वाणाश्च कथास्तत्र ब्राह्मणाः पार्थिवं प्रति
ब्राह्मणाः-
कथं नु राजा धर्मात्मा वने वसति निर्जने
तस्यानुजाश्च ते नित्यं कृष्णा च द्रुपदात्मजा
सुखार्हाऽपि च दुःखार्ता कथं वसति सा वने
विदुरः-
एवं पौराश्च विप्राश्च सदारास्सहपुत्रकाः
स्मरन्तः पाण्डवान्सर्वे बभुवुर्भृशदुःखिताः
आविद्धा इव शस्त्रेण नाभ्यनन्दन् कथञ्चन
सम्भाष्यमाणा अपि ते न किञ्चित् प्रत्यपूजयन्
न भुक्त्वा न शयित्वा ते दिवा वा यदि वा निशि
शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन्
यदवस्था बभूवार्ता ह्ययोध्या नगरी पुरा
रामे वनं गते दुःखाद्धृतराज्ये सलक्ष्मणे
तदवस्थं बभूवार्तमद्येदं गजसाह्वयम्
गते पार्थे वनं दुःखाद्धृतराज्ये सहानुजैः
वैशम्पायनः-
विदुरस्य वचश्श्रुत्वा नागरस्य गिरं च वै
भूयो मुमोह शोकाच्च धृतराष्ट्रस्सबान्धवः
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्
द्रोणः-
अथाब्रवीत्तदा द्रोणो दुर्योधनममर्षणम्
दुःशासनं च कर्णं च सर्वानेव च भारतान्
अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः
अहं तु शरणं प्राप्तान्वर्तमानान् यथाबलम्
आगतान् पालयिष्यामि धार्तराष्ट्रान्सराजकान्
नोत्सहे समभिव्यक्तुं दैवं मूलमतः परम्
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः
मया तु भ्रंशितो राजद्द्रुपदस्सखिविग्रहे
पुत्रार्थमयजत्कोपाद् वधाय मम भारत
याजोपयाजतपसा पुत्रं लेभे स पावकात्
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम्
ज्वाल्वर्णो देवदत्तो धनुष्मान्कवची शरी
मर्त्यधर्मतयाऽस्माकं तस्मान्मां भयमाविशत्
गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः
मद्वधाय श्रितो धीमान् लोके चाप्यतिविश्रुतः
सृष्टप्राणो भृशं तात तस्माद्युत्से तवारिभिः
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम्
मुहूर्तं सुखमेवैतत्कूलच्छायेव हैमनी
जयध्वं च महायज्ञैर्भोगानश्नीत पार्थिवाः
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम्
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि
वैशम्पायनः-
शमं वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्
धृतराष्ट्रः-
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्
यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः