वैशम्पायनः-
ततस्सम्प्रस्थिते तत्र धर्मराजे तदा नृपे
जनास्समस्तास्तं द्रष्टुं समारुरुहुरातुराः
ततः प्रासादवर्याणि विमानशिखराणि च
गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः
अधिरुह्य जश्श्रिमान् उदासीनो व्यलोकयत्
न हि रथ्यास्ततश्शक्या गन्तुं बहुजनाकुलाः
आरुह्य ते स्मा तान्यत्र दीनाः पश्यन्ति पाण्डवम्
पदाति वर्जितरथं चेलभूषणवर्जितम्
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा
ऊचुर्बहुविधा वाचो भृशोपहतचेतसः
जनाः-
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्
तमेकं कृष्णया सार्धमनुयान्ति स्म पाण्डवाः
चत्वारो भ्रातरश्चैव पुरोधाश्च विशाम्पते
भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः
अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम्
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्
अद्य नूनं पृथा देवी सत्यमाविश्य भाषते
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति
निर्गुणस्यापि पुत्रस्य कथं स्याद्दुःखदर्शनम्
किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्
आनृशंस्यमनुक्रोशो धृतिश्शीलं दमश्शमः
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात्
पीडया पीडितं सर्वं जगत्तस्य जगत्पतेः
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः
ते भ्रातर इव क्षिप्रं सपुत्रास्सहबान्धवाः
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम्
समुद्धृतनिधानानि परिध्वस्ताजिराणि च
उपात्तधनधान्यानि हृतसाराणि सर्वशः
रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः
मूषकैः परिधावद्भिरुद्बलैरावृतानि च
अपेतोदकधूमानि हीनसम्मार्जनानि च
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम्
वनं नगरमद्यास्तु यत्र गच्छन्ति पाण्डवाः
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्
बिलानि दंष्ट्रिणस्सर्वे वनानि मृगपक्षिणः
त्यजन्त्वस्मद्भयाद्भीता गजास्सिंहा वनान्यपि
अनाक्रान्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः
वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः
वैशम्पायनः-
इत्येवं विविधा वाचो नानाजनसमीरिताः
शुश्राव पार्थश्श्रुत्वा च न विचक्रेऽस्य मानसम्
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः
ततः प्रासादजालानि उत्पाट्यावरणानि च
ददृशुः पाण्डवान्दीनान्रौरवाजिनवाससः
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च
एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम्
दृष्ट्वा तदा स्त्रियस्सर्वा विवर्णवदना भृशम्
विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः
हा हा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन्
जनस्याथ वचश्श्रुत्वा स राजा भ्रातृभिस्सह
उद्दिश्य वनवासाय प्रतस्थे कृतनिश्चयः
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्
अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः
यथार्हं वन्दनाश्लेषान् कृत्वा गन्तुमियेष सा
ततो निनादस्सुमहान्पाण्डवान्तःपुरेऽभवत्
कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्
कुन्ती-
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्
स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा
न त्वां सन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते
साध्वी गुणसमाानैर्भूषितं ते कुलद्वयम्
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे
अरिष्टं गच्छ पन्थानं मदनुध्यानबृंहिता
भाविन्यर्थे हि सत्स्त्रीणां वैक्लब्यं नोपजायते
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि
सहदेवश्च मे पुत्रस् सदाऽवेक्ष्यो वने वसन्
यथेदं व्यसनं प्राप्य नावसीदेन्महामनाः
वैशम्पायनः-
तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला
शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्
अथापश्यत्सुतान्सर्वान्हृताभरणवाससः
रुरुचर्माघृततनून्ह्रिया किञ्चिदवाङ्मुखान्
परैः परीतान्संहृष्टैस् सुहृद्भिश्चानुशोचितान्
तदवस्थांस्तु तान्सर्वान् पश्यन्ती वत्सला शुभा
संस्वजानाऽपतच्छोकात्तत्तद्विलपती बहु
कुन्ती-
कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान्
अक्षुद्रांश्चैव भक्तांश्च दैवतेज्यापरान्सतः
सदा व्यसनमभ्यागाद्विधेः कोऽयं विपर्ययः
कस्यापनयनं चेदं नाहं पश्यामि वो धिया
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम्
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः
कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः
वीर्यशक्तिबलोत्साहतेजोभिरकृशाः कृशाः
यद्येतदहमज्ञास्यं वनवासं हि वो ध्रुवम्
शतशृङ्गान्मृते पाण्डौ नागमिष्यं नगाह्वयम्
धन्यं वः पितरं मन्ये तपस्तप्त्वा मृतं तदा
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम्
धन्यां चातीन्द्रियज्ञानां प्राप्तां वै परमां गतिम्
मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु
गत्या नत्या च मत्या च माद्र्याऽहमतिसंहता
जीवितप्रियतामेतां धिगिमां क्लेशभागिनीम्
पुत्रकान् न विहास्येऽहं कृच्छ्रलब्धान्प्रियान्सतः
सह यास्यामि हि वनं हा कृष्णे किं जहासि माम्
ममान्तो नैव विहितस्तेनायुर्न जहाति माम्
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे
पुत्रान्विवास्यतस्साधूनरिभिर्द्यूतवञ्चितान्
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः
शरीरादपि माद्रेय मां मा त्याक्षीः कृपाऽस्तु ते
व्रजन्त्विमे भ्रातरस्ते यदि सत्याभिसंश्रिताः
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि
वैशम्पायनः-
एवं विपलतीं कुन्तीमभिसान्त्व्य प्रणम्य च
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः
विदुरश्चैव तामार्तां कुन्तीमाश्वास्य हेतुभिः
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरश्शनैः
राजा तु धृतराष्ट्रस्स शोकोपहतचेतनः
क्षत्तुस्सम्प्रेषयामास शीघ्रमागम्यतामिति
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः