वैशम्पायनः-
वनावासाय चक्रुस्ते मतिं पार्थाः पराजिताः
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्
अजिनैस्संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्
प्रस्थितान्वनवासाय ततो दुश्शासनोऽब्रवीत्
दुश्शासनः-
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः
परिभूताः पाण्डुसुता विपत्तिं परमां गताः
अद्य देवास्सुप्रसन्नास् सह सर्वैर्महर्षिभिः
गुणज्येष्ठास्तथा श्रेष्ठाश् श्रेयांसो यद्वयं परैः
नरकं पातिताः पार्था दीर्घकालमरिन्दमाः
सुखाच्च हीना राज्याच्च विनष्टाश्शाश्वतीः समाः
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः
चित्रान्सन्नाहानवमुञ्चन्तु पार्था वासांसि दिव्यानि च भानुमन्ति
विवास्यन्तां रुरुचर्माणि तानि यथा ग्लहस्सौबलस्याभ्युपेतः
न सन्ति लोकेषु पुमांस ईदृशा इत्येव वै भावितबुद्धयस्सदा
ज्ञास्यन्ति आत्मानमिमेऽद्य पाण्डवा विपर्ययस्ताष्षण्ढतिला इवाफलाः
इयं हि भावोदय ईदृशानां मनस्विनां कौरव मा भवेद्धः
आदीक्षितानामजिनानि यद्वद्बलीयसां पश्यत पाण्डवानाम्
महाप्राज्ञस्सोमको याज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय
अकार्षीद्वै दुष्कृतं ते हसन्ति क्लीबाः पार्थाः पतयो याज्ञसेन्याः
सूक्ष्मप्रावारानजिननानि चोदितान् हित्वाऽरण्ये निर्धनानप्रतिष्ठान्
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्व यमिहान्यमिच्छसि
एते हि सर्वे कुरवस्समेताः क्षान्ता दान्तास्सुद्रविणोपपन्नाः
एषां वृणीष्वान्यतमं पतित्वे मा त्वां तपेत्कालविपर्ययोऽयम्
यथाऽफलाष्षण्डतिला यथा चर्ममया मृगाः
तथैव पाण्डवास्सर्वे यथा काकयवा अपि
किं पाण्डवांस्त्वं पतितानुपास्य मोघश्श्रमष्षण्डतिलानुपास्य
वैशम्पायनः-
एवं नृशंसः परुषाणि पार्थान्व्याश्रावयद्धृतराष्ट्रस्य पुत्रः
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैस्सन्निगृह्यैव रोषात्
उवाचैवं सहसैवोपगम्य सिंहो यथा हैमवतस्सृगालम्
भीमसेनः-
क्रूर पापजनेष्टस्त्वमकृतार्थं प्रभाषसे
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम्
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे
ये च त्वामनुवर्तन्ते कामक्रोधवशानुगम्
गोप्तारस्सानुबन्धांस्तान्नेष्यामि यमसादनम्
वैशम्पायनः-
एवं ब्रुवाणमजिनैर्विवासितं दुःखाभिभूतं परिनृत्यति स्म
मध्ये कुरूणामनिषिद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः
भीमसेनः-
नृशंस परुषं वक्तुं शक्यं दुःशासन त्वया
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति
नाहत्वा सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः
यदि वक्षति भित्त्वा ते न पिबेच्छोणितं रुषा
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम्
शमं गन्ताऽस्मि नचिरात्सत्यमेवं ब्रवीमि वः
वैशम्पायनः-
ततस्स राजा सिंहगतेस्स रोषो दुर्योधनो भीमसेनस्य रोषात्
गतिं स्वगत्याऽनुचकार मन्दो निर्गच्छतां कौरवाणां सभायाः
नैतावता कृतमित्यब्रवीत्तं वृकोदरस्सन्निवृत्तार्धकायः
शीघ्रं हि त्वां निहतं सानुबन्धं संस्मार्याहं सम्प्रवक्ष्यामि मूढ
एतत् समीक्ष्यात्मनि वच्यमानं नियम्य मन्युं बलवान्स मानी
राजानुजस्संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः
भीमसेनः-
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः
शकुनिं चाक्षकितवं सहदेवो वधिष्यति
इदं च भूयो वक्ष्यामि सभामध्ये त्वहं वचः
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव
अर्जुनः-
भीमसेन न ते सन्ति येषां वैरं त्वया त्विह
मत्ता गृहेषु सुखिनो न बुद्ध्यन्ते महद्भयम्
न तु वाच्यं व्यवसितं भीम विज्ञायतां सताम्
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति
भीमसेनः-
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्
अर्जुनः-
असूनृतानां वक्तारं प्रहृष्टानां दुरात्मनाम्
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः
तान् सर्वान् निशितैर्बाणैर्नेताऽस्मि यमसादनम्
चलेद्धि हिमवान्स्थानान्निष्प्रभस्स्याद्दिवाकरः
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे
दुर्योधनोऽपि सत्कृत्य सत्यमेतद्भविष्यति
वैशम्पायनः-
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्
क्रोधसंरक्तनयनो निश्श्वसन्निव पन्नगः
सहदेवः-
अक्षाणि मूढ दुर्बुद्धे गान्धाराणां यशोहर
नैतेऽक्षा निशिता बाणास्त्वयैते समरे धृताः
यथैवेहोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः
हन्ताऽस्मि तरसा युद्धे त्वामेवेह सबान्धवम्
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल
वैशम्पायनः-
सहदेववचश्श्रुत्वा नकुलोऽपि विशाम्पते
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्
नकुलः-
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः
यैर्वाचश्श्राविता रूक्षास्स्थितैर्दुर्योधनप्रिये
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान्
गमयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम्
उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम्
क्रूरं हन्ताऽस्मि समरे ह्यग्रजानामनुज्ञया
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव
वैशम्पायनः-
एवं ते पुरुषव्याघ्राः परिघायतबाहवः
प्रतिज्ञां विपुलां कृत्वा धृतराष्ट्रमुपागमन्
युधिष्ठिरः-
आमन्त्रयामि भरतस्तथा वृद्धं पितामहम्
राजानं सोमदत्तं च महाराजं च बाह्लिकम्
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः
सौमदत्तिं महावीर्यं विकर्णं च महामतिम्
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः
गान्धारीं च महाभागां मातरं च तथा पृथाम्
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य च
वैशम्पायनः-
न च किञ्चित्तथोचुस्ते यियासुं तं युधिष्ठिरम्
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः
विदुरः-
आर्या पृथा राजपुत्री नारण्यं वस्तुमर्हति
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि
इति पार्था विजानीध्वं गमनं वोऽस्तु सर्वशः
युधिष्ठिर विजानीहि ममेदं भरतर्षभ
नाधर्मोपचितः कश्चिद्व्यथते वै पराजयात्
त्वं वै धर्मान् विजानीषे युद्धे वेत्ता धनञ्जयः
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही
संयन्ता सहदेवस्तु धौम्यो ब्राह्मणसत्तमः
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी
अन्योन्यस्य प्रियास्सर्वे तथैव प्रियवादिनः
परैरलङ्घ्यास्सन्तुष्टाः को वो न स्पृहयेदिह
एष वै सर्वकल्याणस् समाधिस्तव भारत
नैव शत्रुर्विषहते शक्रेणापि समोऽप्युत
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा
द्वैपायनेन कृष्णेन नगरे वारणावते
भृगुतुन्दे च रामेण दृषद्वत्यां च शम्भुना
अश्रौषीरसि तस्यापि महर्षेरथ धीमतः
द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः
माहर्षिस्साम्पराये त्वां बुद्धिं तामृषिपूजिताम्
पुरूरवसमैलं च बुद्ध्या जयसि पाण्डव
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया
ऐन्द्रे जये धृतात्मा त्वं याम्यकोपविधारणे
विसर्गे चैव धनदो वारुणश्चैव संयुगे
आत्मप्रदानं सोमस्त्वं मेध्यं चैवात्मजीवनम्
भूमौ क्षमा च तेजश्च समग्रं सूर्यमण्डलात्
वायोश्चैव बलं विद्धि भूतेभ्यश्चात्मसम्भवम्
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान्
आपद्धर्मश्च कृच्छ्रेषु सर्वकार्येषु वा पुनः
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर
आपृष्टस्त्विह कौन्तेय स्वस्ति प्राप्नुहि भारत
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम्
वैशम्पायनः-
एवमुक्तस्तथेत्युक्त्वा पाण्डवस्सत्यविक्रमः
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः