वैशम्पायनः-
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः
प्रातिकामी-
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः
युधिष्ठिरः-
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभे
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे
वैशम्पायनः-
इति ब्रुवन्निववृते भ्रातृभिस्सह पाण्डवः
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः
विविशुस्ते सभां तां तु पुनरेव महारथाः
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभ
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये
सर्वलोकविनाशाय दैवेनोपनिपीडिताः
शकुनिः-
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्
ग्लहाम्यहं पणं चैकं शृणु मे भरतर्षभ
वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः
प्रविशेम महारण्यं रौरवाजिनवाससः
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्
ज्ञाताश्चेत् पुनरन्यानि वने वर्षाणि द्वादश
अस्माभिर्वा जिता यूयं वने द्वादश वत्सरान्
वसध्वं कृष्णया सार्धमजिनैः प्रतिवारिताः
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत
सभासदः-
अहो धिक् पाण्डवा नैते बोधयन्ति महद्भयम्
बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः
वैशम्पायनः-
जनप्रवादान्सुबहूनिति शृण्वन् नराधिपः
ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्
अप्ययं न विनाशस्स्यात्कुरूणामितिचिन्तयन्
युधिष्ठिरः-
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया
शकुनिः-
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्
तथा कोशो हिरण्यं च दासीदासं च सर्वशः
एष वे ग्लह एवैको वनवासाय पाण्डवाः
यूयं वयं वा विजिता वसेम वनमाश्रिताः
अनेन व्यवसायेन दीव्याम पुरुषर्षभ
समुत्क्षेपेण चैकेन वनवासाय भारत
वैशम्पायनः-
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः
भीष्मद्रोणैर्वार्यमाणो विदुरेण च धीमता
युयुत्सुना कृपेणाथ सञ्जयेन च भारत
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा
सोमदत्तेन च तथा बाह्लीकेन च धीमता
वार्यमाणोपि सततं न च राजा नियच्छति
एवं स वार्यमाणोऽपि कौन्तेयो हितकाम्यया
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्
आविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत
एवं भवत्विति तदा वनवासाय दीव्यते
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत