दुर्योधनः-
शृणु राजन्पुराऽचिन्त्यानर्जुनस्य च साहसान्
अर्जुनो धन्विनां श्रेष्ठो दुष्कृतं कृतवान्पुरा
द्रुपदस्य पुरे राजन्द्रौपद्याश्च स्वयंवरे
आबालवृद्धसङ्घोषे सर्वक्षत्रसमागमे
क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह
सर्वैर्नृपैरसाध्यं तत्कार्मुकप्रवरं च वै
क्षणेन सज्यमकरोत्सर्वक्षत्रस्य पश्यतः
ततो यन्त्रमयं विद्ध्वा विवाहं फल्गुनो बली
कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः
ततस्तया वृतं पार्थं दृष्ट्वा सर्वे नृपास्तदा
रोषात्सर्वायुधान्गृह्य क्रुद्धा वीरा महौजसः
वैकर्तनं पुरस्कृत्य सर्वे पार्थमुपाद्रवन्
स दृष्ट्वा पार्थिवान्सर्वान्क्रुद्धान्पार्थो महाबलः
वारयित्वा शरैस्तीक्ष्णैरजयत्तत्र स स्वयम्
जित्वा तु तान्महीपालान्सर्वान्कर्णपुरोगमान्
लेभे कृष्णां शुभां पार्थो युध्वा वीर्यबलात्तदा
सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा
ततः कदाचिद्बीभत्सुस्तीर्थयात्रां ययौ स्वयम्
अथोलूपीं शुभां जातां नागराजसुतां तदा
नागेष्ववाप चाग्र्येषु प्रार्थितोऽथ यथातथम्
ततो गोदावरीं वेष्णां कावेरीं चावगाहत
तत्र पाण्ड्यं समासाद्य तस्य कन्यामवाप सः
लब्ध्वा जिष्णुर्मुदं तत्र ततो याम्यां ययौ दिशम्
स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै
कुमारीतीर्थमासाद्य मोक्षयामास चार्जुनः
ग्राहरूपान्विताः पञ्च अतिशौर्येण वै बलात्
कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ
तत्र कृष्णनिदेशात्स सुभद्रां प्राप्य फल्गुनः
तामारोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति
अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः
तमभ्यधावन्सङ्क्रुद्धास् सिंहं व्याघ्रगणा इव
प्रद्युम्नः कृतवर्मा च गदस्सारणसात्यकी
आहुकश्चैव साम्बश्च चारुदेष्णो विडूरथः
अन्ये च यादवास्सर्वे बलदेवपुरोगमाः
एकमेव ऋते कृष्णं गजवाजिरथैर्युताः
अथासाद्य वने यान्तं परिवार्य धनञ्जयम्
चक्रुर्युद्धं सुसङ्क्रुद्धा बहुकोट्यश्च यादवाः
एक एव तु पार्थस्तैर्युद्धं चक्रे सुदारुणम्
तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह
ततः पार्थो रणे सर्वान्वारयित्वा शितैश्शरैः
बलाद्विजित्य राजेन्द्र वीरस्तान्सर्वयादवान्
तां सुभद्रामथादाय शक्रप्रस्थं विवेश ह
भूयः शृणु महाराज फल्गुनस्य च साहसम्
ददौ स वह्नेर्बिभत्सुः प्रार्थितं खाण्डवं वनम्
लब्धमात्रे तु तेनाथ भगवान्हव्यवाहनः
भक्षितुं खाण्डवं राजंस्ततस्समुपचक्रमे
ततस्तं भक्षयन्तं वै सव्यसाची विभावसुम्
रथी धन्वी शरान्गृह्य स कलापयुतः प्रभुः
पालयामास राजेन्द्र स्ववीर्येण महाबलः
ततश्श्रुत्वा महेन्द्रस्तं मेघांस्तान्सन्दिदेश ह
तेनोक्ता मेघसङ्घास्ते ववर्षुरतिवृष्टिभिः
ततो मेघगाणान्पार्थश् शरव्रातैस्समन्ततः
खगमैर्वारयामास तदाश्चर्यमिवाभवत्
वारितान्मेघसङ्घांश्च श्रुत्वा क्रुद्धः पुरन्दरः
पाण्डरं गजमास्थाय सर्वदेवगणैर्वृतः
ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च
रुद्राश्च मरुतश्चैव वसवश्चाश्विनौ तदा
आदित्याश्चैव साध्याश्च विश्वेदेवाश्च भारत
गन्धर्वाश्चैव सहिता अन्ये सुरगणाश्च ये
ते सर्वे शस्त्रसम्पन्ना दीप्यमानास्स्वतेजसा
धनञ्जयं जिघांसन्तः प्रपेतुर्विबुधाधिपाः
युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्यपि
सर्वाणि तत्र दृश्यन्ते सुघोराणि महीपते
ततो देवगणास्सर्वे पार्थं समभिदुद्रुवुः
असम्भ्रान्तस्तु तान्दृष्ट्वा स तां देवमयीं चमूम्
त्वरितः फल्गुनो गृह्य तीक्ष्णस्तानाशुगांस्तदा
शक्रं देवांश्च सम्प्रेक्ष्य तस्थौ काल इवात्यये
ततो देवगणास्सर्वे बीभत्सुं सपुरन्दराः
अवाकिरञ्छरव्रातैर्मानुषं तं महीपते
ततः पार्थो महातेजा गाण्डीवं गृह्य सत्वरः
वारयामास देवानां शरव्रातैश्शरांस्तदा
पुनः क्रुद्धास्सुरास्सर्वे मर्त्यं सङ्ख्ये महाबलाः
नानाशस्त्रैर्ववर्षुस्तं सव्यसाचिं महीपते
तान्पार्थश्शस्त्रवर्षान्वै विसृष्टान्विबुधैस्तदा
द्विधा त्रिधा स चिच्छेद ख एव निशितैश्शरैः
पुनश्च पार्थस्सङ्क्रुद्धो मण्डलीकृतकार्मुकः
देवसङ्घाञ्छरैस्तीक्ष्णैरर्पयद्वै समन्ततः
ततो देवगणास्सर्वे युद्ध्वा पार्थेन वै मुहुः
रणे जेतुमशक्यं तं ज्ञात्वा ते भरतर्षभ
शान्तास्ते विबुधास्सर्वे पार्थबाणाभिपीडिताः
सद्विपं वासवं त्यक्त्वा दुद्रुवुस्सर्वतोदिशम्
प्राचीं रुद्रास्सगन्धर्वा दक्षिणां मरुतो युधि
दिशं प्रतीचीं भीतास्ते वसवश्च तथाऽश्विनौ
आदित्याश्चैव विश्वे च दुद्रुवुर्वा उदङ्मुखाः
साध्याश्चोर्ध्वमुखा भीताश्चिन्तयन्पार्थसायकान्
एवं सुरगणास्सर्वे प्राद्रवन्सर्वतोदिशम्
मुहुर्मुहुः प्रेक्षमाणाः पार्थमेव सकार्मुकम्
विद्रुतान्देवसङ्घांस्तान्रणे दृष्ट्वा पुरन्दरः
ततः क्रुद्धो महातेजाः पार्थं बाणैरवाकिरत्
पार्थोऽपि शक्रं विव्याथ मानुषो विबुधाधिपम्
ततस्सोऽश्ममयं वर्षं व्यसृजद्विबुधाधिपः
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः
अथ संवर्धयामास तद्वर्षं देवराडपि
भूय एव तदा वीर्यं जिज्ञासुस्सव्यसाचिनः
सोऽश्मवर्षं महावेगमिषुभिः पाण्डवोऽपि च
विलयं गमयामास हर्षयन्पाकशासनम्
उपादाय तु पाणिभ्यामङ्गदं नाम पर्वतम्
सद्रुमं व्यसृजच्छक्रो जिघांसुश्श्वेतवाहनम्
ततोऽर्जुनो वेगवद्भिर्ज्वलमानैरजिह्मगैः
बाणैर्विध्वंसयामास गिरिराजं सहस्रशः
शक्रं च वारयामास शरैः पार्थो बलाद्युधि
ततश्शक्रो महाराज रणे वीरं धनञ्जयम्
ज्ञात्वा जेतुमशक्यं तं तेजोबलसमन्वितम्
परां प्रीतिं ययौ तत्र पुत्रशौर्येण वासवः
तदा तत्र न तस्यासीद् दिवि कश्चिन्महायशाः
समर्थो निर्जये राजन्नपि साक्षात्प्रजापतिः
ततः पार्थश्शरैर्हत्वा यक्षराक्षसपन्नगान्
दीप्ते चाग्नौ महातेजाः पातयामास सन्ततम्
प्रतिप्रेक्षयितुं पार्थं न शेकुस्तत्र केचन
दृष्ट्वा निवारितं शक्रं दिवि देवगणैस्सह
यथा सुपर्णस्सोमार्थं विबुधानजयत्पुरा
तथा जित्वा सुरान्पार्थस्तर्पयामास पावकम्
ततोऽर्जुनस्स्ववीर्येण तर्पयित्वा विभावसुम्
रथं ध्वजं हयांश्चैव दिव्यास्त्राणि सभां च वै
गाण्डीवं च धनुश्श्रेष्ठं तूणी चाक्षयसायकौ
एतान्यवाप बीभत्सुर्लेभे कीर्तिं च भारत
भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम्
विजित्य नववर्षांश्च सपुरांश्च सपर्वतान्
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ
बलाज्जित्वा नृपान्सर्वान्करे च विनिवेश्य च
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम्
ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम्
राजसूयं क्रतुश्रेष्ठं कारयामास भारत
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा
अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित्
देवदानवयक्षाश्च पिशाचोरगराक्षसाः
भीष्मद्रोणादयस्सर्वे कुरवश्च महारथाः
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः
एते चान्ये च बहवः परिवार्य महीपते
एकं पार्थं रणे यत्ताः प्रतियोद्धुं न शक्नुयुः
अहं हि नित्यं कौरव्य फल्गुनं प्रति सत्तमम्
अनिशं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात्
गृहे गृहे च पश्यामि तात पार्थमहं सदा
शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम्
अपि पार्थसहस्राणि भीतः पश्यामि भारत
पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे
पार्थमेव हि पश्यामि रहिते तात भारत
दृष्ट्वा स्वप्नगतं पार्थमुद्भ्रमामि ह्यचेतनः
अकारादीनि नामानि अर्जुनग्रस्तचेतसः
अश्वाश्चार्था ह्यजाश्चैव त्रासं सञ्जनयन्ति मे
नास्ति पार्थादृते तात परवीराद्भयं मम
प्रह्लादं वा बलिं वाऽपि हन्याद्धि विजयो रणे
तस्मात् तेन महाराज युद्धमस्मज्जनक्षयम्
अहं तस्य प्रभावज्ञो नित्यं दुःखं वहामि च
पुरा हि दण्डकारण्ये मारीचस्य यथा भयम्
भवेद्रामे महावीर्ये तथा पार्थे भयं मम
धृतराष्ट्रः-
जानाम्येव महद्वीर्यं जिष्णोरेतद्दुरासदम्
तात वीरस्य पार्थस्य मा कार्षीस्त्वं तु विप्रियम्
द्यूतं वा शस्त्रयुद्धं वा दुर्वाक्यं वा कदाचन
एतेष्वेवं कृते तस्य विग्रहश्चैव वो भवेत्
तस्मात्त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय
यश्च पार्थेन सम्बन्धाद् वर्तते च नरो भुवि
तस्य नास्ति भयं किञ्चित्त्रिषु लोकेषु भारत
तस्मात्त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय
दुर्योधनः-
द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता
तस्माद्धि तं जहि सदा त्वन्योपायेन नो भवेत्
धृतराष्ट्रः-
उपायश्च न कर्तव्यः पाण्डवान्प्रति भारत
पार्थान्प्रति पुरा वत्स बहूपायाः कृतास्त्वया
तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः
तस्माद्धितं जीविताय नः कुलस्य जनस्य च
त्वं चिकीर्षसि चेद्वत्स समित्रस्सहबान्धवः
सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय
वैशम्पायनः-
धृतराष्ट्रवचश्श्रुत्वा राजा दुर्योधनस्तदा
चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत्
दुर्योधनः-
न त्वयेदं श्रुतं राजन् यज्जगाद बृहस्पतिः
शक्रस्य नितिं प्रवदन् विद्वान् देवपुरोहितः
सर्वोपायैर्निहन्तव्याश् शत्रवश्शत्रुकर्शन
पुरा युद्धाद् बलाद्वाऽपि प्रकुर्वन्ति तवाहितम्
ते वयं पाण्डवधनैस् सर्वान् सम्पूज्य पार्थिवान्
यदि तान् योधयिष्यामः किं वा नः परिहास्यति
अहीनाशीविषान् क्रुद्धान् दंशाय समुपस्थितान्
बद्ध्वा कण्ठे च पृष्ठे च कस्समुत्स्रष्टुमर्हति
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः
निश्शेषान् नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा
सन्नद्धो ह्यर्जुनो यातो विवृत्य परमेषुधीः
गाण्डीवं मुहुरादत्ते निशश्वास नराधिप
निरीक्षते गदां गुर्वी समुद्यम्य वृकोदरः
सरथं योजयित्वा तु निर्यात इति नश्श्रुतम्
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम्
सहदेवश्च राजा च चक्रुराकामिङ्गितैः
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिग्रहाः
अभिघ्नन्तो रथान्राजन्सेनायोगाय निर्ययुः
न क्षमन्ते तथाऽस्माभिर्जातु विप्रकृतास्तु ते
द्रोपाद्यास्तु परिक्लेशं कस्तेषां क्षन्तुमर्हति
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः
एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः
प्रविशेम महारण्यं रौरवाजिनवाससः
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्
अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ
अयं हि शकुनिर्वेद निकृत्यामक्षसम्भवाम्
दृढमूला वयं राज्ये मित्राणि परिगृह्य च
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम्
जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप
धृतराष्ट्रः-
तूर्णं प्रत्यानयस्वैतान्काममध्वगतानपि
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः
वैशम्पायनः-
ततो द्रोणस्सोमदत्तो बाह्लीकश्चैव गौतमः
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्
भूरिश्रवाश्शान्तनवो विकर्णश्च महारथः
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्
अकरोत्पाण्डवाह्वानं धृतराष्ट्रस्सुतप्रियः
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्
पुत्रहार्दाद्धर्मशीला गान्धारी शोककर्शिता
गान्धारी-
जाते दुर्योधने क्षत्ता महामतिरभाषत
नीयतां परलोकाय साध्वयं कुलपांसनः
व्यनदज्जातमात्रो हि गोमायुरिव भारत
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत
अबालानां विशिष्टानां माऽवमंस्था मतिं प्रभो
मा कुलस्य क्षये घोरे कारणं च नरेन्द्र भूः
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं हुताशनम्
शमे धृतान् पुनः पार्थान्कोपयेद्भरतर्षभ
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः
न शास्त्रं शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन
त्वन्नेत्रास्सन्तु ते पुत्रा मा त्वां जीर्णं प्रहासिषुः