कर्णः-
या नश्श्रुता मनुष्येषु स्त्रियो रूपेण सम्मताः
तासामेतादृशं कर्म न कस्याश्चिन्निशाम्यते
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रसुतेन च
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्
पाञ्चाली पाण्डुपुत्राणां पारगा नौरिवाऽभवत्
वैशम्पायनः-
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः
भीमः-
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्
युद्धेऽपराङ्मुखत्वं च आहूतस्यानिवर्तनम्
दाराणां रक्षणं चैव इति तज्जोतिषां त्रयम्
अपत्यं कर्म विद्या च यतस्सृष्टाः प्रजास्ततः
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते
तन्नो ज्योतिरुपहतं दाराणामभिमर्शनात्
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम्
धनञ्जयः-
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च
सन्तः प्रतिविजानन्ति लब्धा प्रत्ययमात्मनः
भीमः-
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान्
अथ निष्क्रम्य राजेन्द्र आमूलाद्धन्मि भारत
किं नो विवदितेनेह किं नः क्लेशेन चैव ह
अद्य चैतान्निहत्येह प्रशाधि वसुधामिमाम्
वैशम्पायनः-
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः
मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत
सान्त्व्यमानो वार्यमाणः पार्थेनाक्लिष्टकर्मणा
स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान्
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप
सधूमस्सस्फुलिङ्गार्चिः पावकस्समजायत
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत
निवार्य च महाबाहुं कोपसंरक्तलोचनम्
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः
युधिष्ठरः-
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः
नित्यं हि स्थातुमिच्छामस्तव भारत शासने
धृतराष्ट्रः-
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत
अनुज्ञातास्सहधनास् स्वराज्यमनुशासत
इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम्
मया निगदितं कृत्स्नं पश्य निःश्रेयसं परम्
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता
यतो बुद्धिस्ततश्शान्तिः प्रशमं गच्छ भारत
नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्
विरोधं नाधिगच्छन्ति नित्यमुत्तमपूरुषाः
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः पुरुषमुत्तरम्
नैवोक्ता नैव चानुक्ता हीनतः परुषा गिरः
अतिजल्पन्ति वै धीरास् सदा तूत्तमपूरुषाः
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः
तथा चरितमार्येण त्वयाऽस्मिन्सत्समागमे
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः
मातरं चैव गान्धारीं मा च त्वद्गुणकाङ्क्षिणम्
उपस्थितं वृद्धमन्धं पितरं पश्य भारत
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः
त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः
शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः
वैशम्पायनः-
इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिस्सह
ते रथान्सूर्यसङ्काशानास्थाय सह कृष्णया
प्रययुर्हृष्टमनस इन्द्रप्रस्थपुरं प्रति