वैशम्पायनः-
अर्जुनः-
द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः
स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत्
कर्णं हन्तास्मि समरे सपुत्रं सहबान्धवम्
यस्याश्रयात् स्वयं पापो दार्तराष्ट्रः प्रगर्जति
तं समूलं हनिष्यामि सूतं तं बलशालिनम्
ये चापरे च योत्स्यन्ति धार्तराष्ट्रास्सबान्धवाः
तान् सर्वान् निहनिष्यामि सत्येनायुधमालभे
अद्यैवाहं हनिष्यामि सर्वानेतान् सभासदः
अतीव कोपो भवति दृष्ट्वेमां द्रुपदात्मजाम्
किन्न्वहं वै करिष्यामि यद्राजा सततं धृणीः
अथवाऽहं मुहूर्तेन कृत्स्नं नृपतिमण्डलम्
शस्त्रैर्नयिष्ये सदनं यमस्यामित्रकर्शिनः
अयं तु मां वारयते धर्मराजो युधिष्ठिरः
वैशम्पायनः-
इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान्
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत
उद्यन्तं फल्गुनं तत्र ददृशुस्सर्वपार्थिवाः
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम्
वीक्षमाणं धनुष्पाणिं निश्श्वसन्तं मुहुर्मुहुः
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा
तथाभूतं नृपा दृष्ट्वा विषेदुस्त्रस्तमानसाः
धनञ्जयस्य वीर्यज्ञा निराशा जीविते तदा
मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः
क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह
खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः
नादित्यो विरराजाथ नापि वाति च मारुतः
न चन्द्रो न च नक्षत्रं द्यौर्दिशो न व्यभाव्यत
सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम्
उत्पतन्स बभौ पार्थो दिवाकर इवाम्बरे
पार्थं दृष्ट्वान्तरे क्रुद्धं कालान्तकयमोपमम्
भीमसेनो मुदा युक्तो युद्धायैव मनो दधे
पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम्
हन्तुकामं रिपून्सर्वान्सुपर्णमिव पन्नगान्
दुष्प्रेक्षस्सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्
तं दृष्ट्वा तेजसाऽविष्टं विव्यधुः पुरवासिनः
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम्
जग्राह स तदा राजा पुरुहूतो यथा हरिम्
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः
युधिष्ठिरः-
मा पार्थ साहसं कार्षीर्मा विनाशं गमेर्यशः
अहमेतं पापमतिं सूतं दग्धुं समुत्सहे
किन्त्वस्य चरणौ दृष्ट्वा क्रोधो नाशमुपैति मे
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव
वैशम्पायनः-
एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः
क्रोधं संशमयन् पार्थो धार्तराष्ट्रं प्रति स्थितः
तस्मिन् वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः
सर्वं प्रहृष्टमभवज्जगत्स्थावरजङ्गमम्
वारितं च ततो दृष्ट्वा भ्रात्रा पार्थं वृकोदरः
बभूव विमना राजन्नभून्निश्शब्दमत्र वै
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे
तं रासभाः प्रत्यवाश्यन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः
तं वै शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च
भीष्मो द्रोणो गौतमश्चापि विद्वान् स्वस्ति स्वस्तीत्यब्रुवन् सर्व एव
ततो गान्धारी विदुरश्चैव विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे
निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे
धृतराष्ट्रः-
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम्
स्त्रियं समाकर्षसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम्
वैशम्पायनः-
एतावदुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात्
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया मन्दबुद्धिः
धृतराष्टः-
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षितम्
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती
द्रौपदी-
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ
सर्वधर्मानुगश्श्रीमानदासोऽस्तु युधिष्ठिरः
मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः
एष वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम्
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत
अनर्हा वरमादातुं तृतीयं राजसत्तम
धृतराष्ट्रः-
एवं भवतु कल्याणि यथा त्वमभिभाषसे
एकामाहुर्वैश्यवरं द्वौ वरौ क्षत्रियस्त्रियाः
द्वितीयं ते वरं भद्रे ददामि वरयस्व माम्
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः
मनो हि मे वितरति नैकं त्वं वरमर्हसि
द्रौपदी-
सरथौ सधनुष्कौ न भीमसेनधनञ्जयौ
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम
नकुलस्सहदेवश्च द्वितीयं वरये वरम्
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा
धृतराष्ट्रः-
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी
द्रौपदी-
लोभो धर्मविनाशाय भगवन्नाहमुत्सहे