द्रौपदी
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात्
अभिवादं करोम्येषां कुरूणां कुरुसंसदि
न मे स्यादपराधोऽयं तदिदं न कृतं मया
वैशम्पायनः-
सा तेन च समुद्धूता दुःखेन च तपस्विनी
पतिता विललापैवं सभायामतथोचिता
द्रौपदी-
स्वयंवरे याऽस्मि नृपैर्दृष्टा रङ्गे समागतैः
अदृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे
साऽहमद्य सभामध्ये दृष्टाऽस्मि कुरुसंसदि
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना
मृष्यन्ते कुरवश्चेमे मन्ये कालविपर्ययम्
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्
किन्न्वतः कृपणं भूयो यदिदं स्त्री सती शुभा
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्
धर्मं स्त्रियस्सभापूर्वं न नयन्तीति नश्श्रुतम्
स नष्टः कौरवेयेषु पूर्वो धर्मस्सनातनः
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती
वासुदेवस्य च सखी पार्थिवानां सभामिमाम्
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्
ब्रूत दासीमदासीं मां किं करिष्यामि कौरवाः
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः.
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः
जितां वाऽप्यजितां वापि मन्यध्वे वा यथा नृपाः
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः
भीष्मः-
उक्तवानस्मि कल्याणि धर्मस्यास्य परां गतिम्
लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः
स धर्मो धर्मवेलायां भवत्यभिहतः परैः
न विवेक्तुं तु ते प्रश्नम् इमं शक्नोमि निश्चयात्
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्
नूनमन्तः कुलस्यास्य भविता न चिरादिव
तथा हि कुरवस्सर्वे लोभमोहपरायणाः
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम्
धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूस्स्थिता
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः
शून्यैश्शरीरैस्तिष्ठन्ति गतासत्त्वा इवानताः
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रधानमिति मे मतिः
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति