भीमः-
भवन्ति वेश्या वर्धक्यः कितवानां युधिष्ठिर
न ताभिरपि दीव्यन्ति दया नैवास्ति ते विभो
काश्यो यद्बलिमाहार्षीद् द्रव्यं यच्चान्यदुत्तमम्
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन्
वाहनानि धनं चैव कवचान्यायुधानि च
राज्यमात्मा वयं चैव कैतवेन हृताः परैः
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्
इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय
अर्जुनः-
पुरा न भीमसेन त्वम् ईदृशं वदसे गिरम्
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्
न सकामाः परे कार्या धर्ममेवाचरोत्तमम्
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्
दीव्यते परकामेन तन्नः कीर्तिकरं महत्
भीमसेनः-
एवमस्मिन्कृते विद्यां यद्याह स्म धनञ्जय
दीप्तेऽग्नौ सहितौ बाहू प्रक्षिपेयं बलादिव
वैशम्पायनः-
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत्
विकर्णः-
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः
अविवेकेन वाक्यस्य नरकस्सद्य एव नः
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च
कथमेतावपि प्रश्नं नाहतुर्द्विजसत्तमौ
ये त्वन्ये पृथिवीपालास् समेतास्सर्वतोदिशम्
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभम्
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्
वैशम्पायनः-
एवं स बहुशस्सर्वानुक्तवांस्तान्सभासदः
न च ते पृथिवीपालास्तमूचुस्साध्वसाधु वा
उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन्
पाणौ पाणिं विनिष्पिष्य निश्श्वसन्निदमब्रवीत्
विकर्णः-
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः
चत्वार्याहुर्मुनिश्रेष्ठा व्यसनानि महीक्षिताम्
मृगयां पानमक्षांश्च स्त्रीषु चैवातिरक्तताम्
एतेषु हि नरस्सक्तो धर्ममुत्सृज्य वर्तते
यथाऽयुक्तेन च कृतां क्रियां लोको न पश्यति
तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्
समाहूतेन कितवैर् आस्थिता द्रौपदी पणम्
साधारणी च सर्वेषां पाण्डवानामनिन्दिता
जितेन पूर्वं चानेन पाण्डवेन पणे कृता
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम्
वैशम्पायनः-
एतच्छ्रुत्वा महान्नादस् सभ्यानामुदतिष्ठत
विकर्णं शंसमानानां सौबलं च विनिन्दताम्
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्
कर्णः-
दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः
व्याधिर्बलं नाशयते शरीरस्थोऽपि सम्भृतः
तृणानि पशवो घ्नन्ति स्वपक्षं चैव कौरवः
द्रोणो भीष्मः कृपो द्रौणिर् विदुरश्च महामतिः
धृतराष्ट्रश्च गान्धारी भवतः प्राज्ञवत्तराः
एते न किञ्चिदप्याहुश् चोद्यमानाश्च कृष्णया
धर्मेण विजितामेतां मन्यन्ते च नृपात्मजाम्
त्वं तु केवलबाल्येन धार्तराष्ट्र वदिष्यसि
यद्ब्रवीषि सभामध्ये बालस्स्थविरभाषितम्
न च धर्मं यथावत्त्वं वेत्सि दुर्योधनावर
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः
अभ्यन्तरांश्च सर्वस्वान् द्रौपदी च नरर्षभः
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्
कीर्तिता द्रौपदी वाचाऽप्यनुज्ञाता च पाण्डवैः
भवत्यविजिता केन हेतुनैषा मता तव
अहं मन्ये सभामेतामानीतामेकवाससम्
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम्
एको भर्ता स्त्रियो देवैर्विहितः कुरुनन्दन
इयं त्वनेकवशगा बर्धकीति विनिश्चिता
अस्यास्सभायां नयनं न चित्रमिति मे मतिः
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता
यच्चैतत् द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर
वैशम्पायनः-
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत
अवकीर्योत्तरीयाणि सभायां समुपाविशन्
ततो दुश्शासनो राजन्द्रौपद्या वसनं बलात्
सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे
आकृष्यमाणे वसने विललाप सुदुःखिता
ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना
महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान्हरिः
वैशम्पायनः-
गोविन्देति समाभाष्य कृष्णेति च पुनः पुनः
मनसा चिन्तयामास देवं नारायणं प्रभुम्
आपत्स्वभयदं कृष्णं लोकानां प्रपितामहम्
द्रौपदी-
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम्
हा कृष्ण द्वारकावास क्वासि यादवन्दन
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे
वैशम्पायनः-
कृष्णं च विष्णुं च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी
ततस्तु धर्मोऽन्तरितो महात्मा समावृणोद्विविधैर्वस्त्रपूगैः
तस्य प्रसादाद्द्रौपद्याः कृष्यमाणेऽम्बरे तदा
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः
नानारागविरागाणि वसनान्यथ वै प्रभो
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात्
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः
तदद्भुततमं लोके वीक्ष्य सर्वे सभासदः
धिग्धिगित्यनिशं वाचमुत्सृजन्कौरवं प्रति
यदा तु वाससां राशिस्सभामध्ये समाचितः
तदा दुःशासनः श्रान्तो व्रीडितस्समुपाविशत्
शशाप तत्र भीमस्तु राजमध्ये महास्वनः
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम्
भीमः-
इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम्
अस्य पापस्य दुर्जातेर्भारतापशदस्य च
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि
वैशम्पायनः-
तस्य ते तद्वचः श्रुत्वा रौद्रं लोकप्रहर्षणम्
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्
धिग्धक्शब्दस्ततस्तत्र समभूद्रोमहर्षणः
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा
न ब्रुवन्ति हि कौरव्याः प्रश्नमेतमिति स्म ह
सज्जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन्
ततो बाहू समुद्धृत्य निवार्य च सभासदः
विदुरस्सर्वधर्मज्ञ इदं वचनमब्रवीत्
विदुरः-
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत्
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते
सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाट्
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत
धर्म्यं प्रश्नमतो ब्रूयादार्यस्सभ्येषु मानवः
ते न ब्रूयुस्ततः प्रश्नं कामक्रोधवशानुगाः
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः
अनृते या फलावाप्तिस्तस्यास्सोऽर्धं समश्नुते
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा
तयोर्देवनमत्रासीत्प्राणयोरिति नश्श्रुतम्
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा
स वै विवदनाद्भीतस्सुधन्वानमलोकयत्
तं सुधन्वाऽब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन्
सुधन्वा-
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति
विदुरः-
सुधन्वना तथोक्तस्सन्व्यथितोऽश्वत्थपर्णवत्
जगाम कश्यपं दैत्यो धृतराष्ट्र महौजसम्
प्रह्लादः-
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च
ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु
यो हि प्रश्नं न विब्रूयाद्वितथं वा विनिर्दिशेत्
के च तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः
कश्यपः-
प्रश्नान् यो हि न विब्रूयात्कामात्क्रोधाद्भयात्तथा
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति
साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्चरन्
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते
तस्मात्सत्यं हि वक्तव्यं जानता सत्यमञ्जसा
विद्धो धर्मोऽप्यधर्मेण सभां यत्रोपपद्यते
न चास्य शल्यं कृन्तन्ति विद्धास्सर्वे सभासदः
अर्धं भजति वै श्रेष्ठः पादो भवति कर्तृषु
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान्
हृतस्वस्य हि यद्दुःखं मृतपुत्रस्य चापि यत्
वैरिणा प्रतिपन्नस्य राज्ञा ग्रस्तस्य चापि यत्
स्त्रियाः पत्या विहीनायास्सार्थाद्भ्रष्टस्य चैव यत्
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत्
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहितस्य च
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः
तानि दुःखानि सर्वाणि प्राप्नोति वितथं ब्रुवन्
विदुरः-
समक्षदर्शनात् साक्ष्यं श्रवणाच्चेति धारणात्
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते
कश्यपस्य वचश्श्रुत्वा प्रह्लादः पुत्रमब्रवीत्
प्रह्लादः-
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाऽङ्गिराः
माता सुधन्वनश्चैव श्रेयसी मातृतस्तव
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव
सुधन्वा-
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः
विदुरः-
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्
वैशम्पायनः-
विदुरस्य वचश्श्रुत्वा नोचुः किञ्चन पार्थिवाः
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्