दुर्योधनः-
एहि क्षत्तर्द्रौपदीमानयस्व प्रियां भार्यां सम्मतां पाण्डवानाम्
सम्मार्जतां वेश्म परैतु शीघ्रमानन्दो नस्सह दासीभिरस्तु
विदुरः-
दुर्विभाव्यं भवति त्वादृशेन न मन्द सम्बुद्ध्यसि पाशबद्धम्
प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रं मृगः कोपयते हि बाल्यात्
आशीविषाञ्छरशितान् पूर्णकोपान् महाविषान्
मा कोपिष्ठास्सुमन्दात्मन्मा गमस्त्वं यमक्षयम्
न हि दासीत्वमापन्ना कृष्णा भवति धर्मतः
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः
अयं धत्ते वेणुरिवात्मघातं फलं राजा धृतराष्ट्रस्य पुत्रः
द्यूतं हि वैराय महाभयाय पक्वं न बुध्यत्ययमन्तकालम्
नारुन्तुदस्स्यान्न नृशंसवादी न चातिभीतः परमाददीत
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम्
समुच्चरन्त्यतिवादाश्च वक्त्राद्यैराहतश्शोचति रात्र्यहानि
परस्य चेन्मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु
अजो हि शस्त्रमखनत्किलैकश्शास्त्रे विपन्ने पद्भिरपास्य भूमिम्
निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वैरं मा खनीः पाण्डुपुत्रैः
न किञ्चिदित्थं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा
तपस्विनं सम्परिपूर्णविद्यं भषन्ति ये वै श्वनरास्सुधीरम्
द्वारं सुघोरं नरकस्य जिह्यं न बुध्यसे धृतराष्ट्रस्य पुत्र
त्वामन्वेतारो बहवः कुरूणां द्यूतोदये सह दुश्शासनेन
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोम्भसि शश्वदेव
अहो राजा धृतराष्ट्रस्सपुत्रो न मे वाचं पथ्यरूपां शृणोति
अन्तो नूनं भविताऽयं करूणां सुदारुणस्सर्वहरो विनाशः
वाचः पुण्यास्सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव
वैशम्पायनः-
धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः
अवैक्षत प्रातिकामीं सभायामुवाचैनं परमाचार्यमध्ये
दुर्योधनः-
त्वं प्रातिकामिन् द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः
क्षत्ता ह्ययं विवदत्येव भीरुर्न चास्माकं वृद्धिकामस्सदैव
वैशम्पायनः-
एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य
प्रविश्य च श्वेव हि सिंहगोष्ठं समासदन्महिषीं पाण्डवानाम्
प्रातिकामी-
युधिष्ठिरे द्यूतमदेन मत्ते दुर्योधनो द्रौपदि त्वामजैषीत्
समागच्छ त्वं धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणे याज्ञसेनि
द्रौपदी-
कथं त्वेवं वदसि प्रातिकामिन्को हि दीव्येद्भार्यया राजपुत्रः
मूढो राजा द्यूतमदेन मत्त आहो नान्यत्कैतवमस्य किञ्चित्
प्रातिकामी-
यदा नासीत्कैतवमन्यदस्य तदाऽदेवीत्पाण्डवोऽजातशत्रुः
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि
द्रौपदी-
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज
किं तु पूर्वं पराजैषीरात्मानमथवाऽपि माम्
एतज्ज्ञात्वा समागच्छ ततो मां नय सूतज
वैशम्पायनः-
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा
प्रातिकामी-
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी
किं नु पूर्वं पराजैषीरात्मानमथवापि माम्
वैशम्पायनः-
युधिष्ठिरस्तु तच्छ्रुत्वा गतसत्व इवाभवत्
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा
दुर्योधनः-
इहैत्य कृष्णा पाञ्चाली प्रश्नं समनुपृच्छताम्
इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः
वैशम्पायनः-
स गत्वा राजभवनं दुर्योधनवशानुगः
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव
प्रातिकामी-
सभ्यास्त्वमिह राजपुत्र्याह्वयन्ति मन्ये प्राप्तं सङ्क्षयं कौरवाणाम्
न वै समृद्धिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि
द्रौपदी-
एवं द्यूतं व्यदधात् संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ
धर्मं त्वेकं परमं प्राप्य लोके स नश्शमं दास्यति गोप्यमानः
वैशम्पायनः-
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्
द्रौपद्यास्सम्मतं दूतं प्राहिणोद्भरतर्षभ
एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला
सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत्
ततस्तेषां मुखमालोक्य राजा दुर्योधनस्सूतमुवाच हृष्टः
इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्याः कुरवो ब्रुवन्तु
ततस्सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः
विहाय मानं पुनरेव सभ्यानुवाच कृष्णां किमहं ब्रवीमि
दूर्योधनः-
दुश्शासनैषां मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः
स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशास्सपत्नाः
वैशम्पायनः-
ततस्समुत्थाय स राजपुत्रश् श्रुत्वा भ्रातुश्शासनं रक्तदृष्टिः
प्रविश्य तद्वेश्म महारथानामित्यब्रवीद्द्रौपदीं राजपुत्रीम्
दुश्शासनः-
एह्येहि पाञ्चालि जितोऽसि कृष्णे दुर्योधनं पश्य विमुक्तलज्जा
कुरून्भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि
वैशम्पायनः-
ततस्समुत्थाय सुदूर्मनास्सा विवर्णमावृत्य मुखं करेण
आर्ता प्रदुद्राव यतस्स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य
ततो जवेनाभिससार रोषाद्दुःशासनस्तामभिगर्जमानः
दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः
ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन
स तां परामृश्य सभासमीपमानीय कृष्णामतिकृष्णकेशीम्
दुश्शासनो नाथवतीमनाथवच्चकर्ष वायुः कदलीमिवार्ताम्
सा कृष्यमाणा नमिताङ्गयष्टिश्शनैरुवाचाद्य रजस्वलाऽस्मि
एकं च वासो मम मन्दबुद्धे नेतुं सभां नार्हसि मामनार्य
ततोऽब्रवीत्तां प्रसभं प्रगृह्य केशेषु कृष्णेषु तथा स कृष्णाम्
जिष्णुं च कृष्णं च हरिं नरं च त्राणाय विक्रोशय याज्ञसेनि
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाऽप्यथवा विवस्त्रा
द्यूते जिता चासि कृता च दासी दासीषु कामं च यथोपजोषम्
प्रकीर्णकेशी पतितार्द्रवस्त्रा दुश्शासनेन व्यवधूयमाना
ह्रीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा
द्रौपदी-
इमे सभायामुपनीतशास्त्राः क्रियावन्तस्सर्व एवेन्द्रकल्पाः
गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम्
नृशंसकर्मंस्त्वमनार्यवृत्त मा मा विवस्त्रामिति मा विकार्षीः
न मर्षयेयुस्तव राजपुत्रास् सेन्द्रा देवा यदि ते वै सभायाम्
धर्मे स्थितो धर्मसुतश्च राजा धर्मश्च सूक्ष्मो निपुणैश्च लक्ष्यः
न चापि भर्तुः परमाणुमात्रम् इच्छामि दोषं स्वगुणान्विसृज्य
इदं त्वनार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम्
न चापि कश्चित्कुरुते स्म पूजां बलं तवेदं परमं त्ववेक्ष्य
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम्
यत्र ह्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवस्सभायाम्
द्रोणस्य भीष्मस्य च नास्ति सत्यं ध्रुवं तथैवाद्य महात्मनोपि
राज्ञस्तथा भीममर्धमुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः
इमं प्रश्नमिमे ब्रूत सर्व एव सभासदः
जितां वाऽप्यजितां वा मां मन्यध्वे सर्वभूमिपाः
वैशम्पायनः-
तथा ब्रुवन्ती करुणं सुमध्यमा कटाक्षेण भर्तॄन् कुपितानपश्यत्
सा पाण्डवान्कोपपरीतदेहान्सन्दीपयामास कटाक्षपातैः
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव
यथाऽऽर्तिमत्कोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम्
दुश्शासनश्चापि समीक्ष्य कृष्णाम् अवेक्षमाणां कृपणान्पतींस्तान्
आधूय वेगेन विसञ्ज्ञकल्पामुवाच दासीति हसन्निवोग्रम्
कर्णस्तु तद्वाक्यमतीव हृष्टस् सम्पूजयामास हसन्सशब्दम्
गान्धारराजस्सुबलस्य पुत्रस्तथैव दुःशासनमभ्यनन्दत्
सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव
तेषामभूद्दुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम्
भीष्मः-
न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं शक्नोमि ते प्रश्नमिमं यथावत्
अस्वो ह्यशक्तः पणितुं परस्वं स्त्रियाश्च भर्तुर्वशतां समीक्ष्य
त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरस्सत्यमथो न जह्यात्
उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत्
द्यूतेऽद्वितीयश्शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः
न मन्यते तां निकृतिं महात्मा तस्मान्न ते प्रश्नमिमं ब्रवीमि
द्रौपदी-
आहूय राजा कुशलैस्सभायां दुष्टात्मभिर्नैकृतिकैरनार्यैः
द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः
स शुद्धकामो निकृतिप्रवृत्तिम् अबुध्यमानः कुरुपाण्डवाग्र्यः
सम्भूय सर्वैश्च जितोऽपि यस्मात्पश्चाच्च यत् कैतवमभ्युपेतः
तिष्ठन्ति चेमे कुरवस्सभायामीशास्सुतानां च तथा स्नुषाणाम्
समीक्ष्य सर्वे मम चापि वाक्यं प्रब्रूत मे प्रश्नमिमं यथावत्
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्
वैशम्पायनः-
तथा ब्रुवन्तीं करुणं रुदन्तीमवेक्षमाणामसकृत्पतींस्तान्
दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि मन्दः
तां क्लिश्यमानां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम्
वृकोदरः प्रेक्ष्य युधिष्ठिरस्य चकार रोषं परमार्तरूपम्