शकुनिः-
बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
युधिष्ठिरः-
मम वित्तमसङ्ख्येयं यदहं वेद सौबल
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि
अयुतं प्रयुतं चैव निखर्वं खर्वमर्बुदम्
कचं प्रतिकचं चैव समुद्रं चात्र पण्यताम्
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिस्तानक्षान् प्रत्यपद्यत
युधिष्ठिरः-
गजाश्वं बहुधेनूकम् असङ्ख्येयमजाविकम्
यत्किञ्चिदनुवर्णानां प्राक् सिद्धिरिति सौबल
एतन्मम धनं राजन् तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिस्तानक्षान् प्रत्यपद्यत
युधिष्ठिरः-
पुरं जनपदो भूमिरब्राह्मणधनैस्सह
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिस्तानक्षान् प्रत्यपद्यत
युधिष्ठिरः-
राजपुत्रा इमे राजञ्छोभन्ते यैश्च भूषिताः
कुण्डलानि च निष्काश्च सर्वशश्चाङ्गभूषणाः
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
युधिष्ठिरः-
श्यामो युवा लोहिताक्षस् सिंहस्कन्धो महाद्युतिः
नकुलो ग्लह एवैक एतद्वै मद्गतं धनम्
शकुनिः-
प्रियस्ते नकुलो राजन् राजपुत्रो युधिष्ठिर
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे
वैशम्पायनः-
एवमुक्त्वाऽथ शकुनिस्तानक्षान् प्रत्यपद्यत
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
युधिष्ठिरः-
अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च
अनर्हता राजपुत्रेण तेन त्वया दीव्याम्यप्रियवत्प्रियेण
शकुनिः-
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया
गरीयांसौ तु तौ मन्ये भीमसेनधनञ्जयौ
युधिष्ठिरः-
अधर्मं चरसे वै त्वं यत् ते नावेक्षिता वयम्
यो नस्सुमनसां मूढ विभेदयितुमिच्छसि
शकुनिः-
गर्ते मन्दः प्रपतति प्रमत्तस्स्थाणुमृच्छति
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ
स्वप्नेऽपि तानि पश्यन्ति जाग्रतोऽपि युधिष्ठिर
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव
युधिष्ठिरः-
यो नस्सङ्ख्ये नौरिव पारनेता जेताऽरीणां राजपुत्रस्तरस्वी
अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने चार्जुनेन
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
शकुनिः-
अयं मया पाण्डवानां धनुर्धरः पराजितः पाण्डवस्सव्यसाची
भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव तेऽवशिष्टम्
युधिष्ठिरः-
सेनां नेता संयुगार्थं प्रणेता यथा वज्री दानवशत्रुरेकः
तिर्यक्प्रेक्षी सङ्गतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदाऽत्यमर्षी
बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतां मान्य इहारिमर्दनः
अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन्
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिस्तानक्षान् प्रत्यपद्यत
शकुनिः-
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
युधिष्ठिरः-
अहं विशिष्टस्सर्वेषां भ्रातॄणां दयितस्तथा
कुर्याम ते पणं द्यूते स्वयमात्मन्युपग्रहे
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
शकुनिः-
एतत्पापिष्ठमकरोर्यदात्मानं पराजिता
शिष्टे सति धने राजन्पाप आत्मपराजयः
वैशम्पायनः-
एवं जित्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्
अपाजयल्लोकवीरानवैक्षत पृथक् पृथक्
शकुनिः-
अस्ति ते वै प्रिया दवी ग्लह एकोऽपराजितः
पणस्व कृष्णां पाञ्चालीं तयाऽऽत्मानं पुनर्जय
युधिष्ठिरः-
नैव ह्रस्वा न महती न कृशा न रोहिणी
सा रागरक्तवसना तया दीव्याम्यहं त्वया
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया
शारदोत्पलसेविन्या रूपेण श्रीसमानया
तथैव स्यादानुशंस्यात्तथा स्याद्रूपसम्पदा
तथा स्यात्पुत्रसम्पत्त्या यामिच्छेत्पुरुषस्स्त्रियम्
चरमं संविशति या प्रथमं च प्रबुध्यते
आगोपालाविपालेभ्यस् सर्वं वेद कृताकृतम्
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च
वेदीमध्या दीर्घकेशी ताम्राक्षी नातिलोमशा
तयैवंविधया राजन्पाञ्चाल्याऽहं सुमध्यया
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल
वैशम्पायनः-
एवमुक्ते तु वचने धर्मराजेन धीमता
धिग्धिगित्येव वृद्धानां सभ्यानां निस्सृता गिरः
चुक्षुभे सा सभा राजन्राज्ञां शोको महानभूत्
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत
शिरो गृहीत्वा विदुरो गतसत्व इवाभवत्
आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्नुरगो यथा
बाह्लीकस्सोमदत्तश्च प्रातिपेयस्स सञ्जयः
द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः
हस्तौ पिंषन्नधोवक्त्रा निश्वसन्त इवोरगाः
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः
किं जितं किं जितमिति ह्याकारं नाभ्यगूहत
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम्
सौबलस्त्वविचार्यैवं जितकाशी मदोत्कटः
जितमित्येव तानक्षान्पुररेवान्वपद्यत