विदुरः-
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत
मुमूर्षोरौषधमिव रोचेत हि न ते श्रुतम्
यो वै पुरा जातमात्रो रुरोद गोमायुवद्विस्वरं पापचेताः
दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः
गृहे वसन्तं गोमायुं त्वं वै तं तु न बुध्यसे
दुर्योधनस्वरूपेण शृणु काव्यां गिरं मम
मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते
आरुह्य तेन सज्जेत पतनं वाऽपि गच्छति
सोऽयं मत्तः कैतवेन मधुवन्न पीरक्षते
प्रपातं बुध्यते नैवं वैरं कृत्वा महारथैः
विदितं मे महाराज स्वे परेवाऽसमञ्जसम्
अन्धका यादवा भोजास्समेताः कंसमत्यजन्
नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना
एवं ते ज्ञातयस्सर्वे मोदमानाश्शतं समाः
त्वन्नियुक्तस्सव्यसाची निगृह्णातु सुयोधनम्
निग्रहादस्य पापस्य मोदन्तां कुरवस्सुखम्
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च
क्रीणीष्व पाण्डवान्राजन्मा मज्जीश्शोकसागरे
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
सर्वज्ञस्सर्वभावज्ञस्सर्वशत्रुभयङ्करः
इति स्म भाषते काव्यो जम्भत्यागे महासुरान्
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान्
गृहे किल कृतावासाँल्लोभाद्राजान्नपीडयत्
सदैव लोभाद्भोगात्मा हिरण्यार्थी परन्तप
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्
तदर्थकामः पाण्डूनां मा द्रुहः पुरुषर्षभ
मोहात्मा तप्स्यसे पश्चात् पक्षिहा पुरुषो यथा
एतेन तव नाशस्स्याद् बडिशाच्छफरो यथा
जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः
वृक्षानङ्गारकारीव मा च धाक्षीस्समूलकान्
मा गमस्ससुतामात्यस् ससुहृच्च पराभवम्
समवेतान् हि कः पार्थान् प्रतियुध्येत भारत
मरुद्भिस्सहितो राजन्नपि साक्षान्मरुत्पतिः
युधि जेतुमशक्तो हि पाण्डवान् पुरुषोत्तमान्
द्यूतं मूलं कलहस्यातिघोरं मिथो भेदो महते रणाय
यदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनस्सृजति वैरमुग्रम्
प्रातिपीयाश्शान्तनवा भीमसेनास्सबाह्लिकाः
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः
दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति
विषाणं गौरिव मदात्स्वयमारुजते बलात्
यश्चित्तमन्वेति परस्य राजन्वीरः कविस्स्वामतिपत्य दृष्टिम्
नावं समुद्र इव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत्
दुर्योधनो ग्लहते पाण्डवेन सम्प्रीयसे त्वं जयतीति तच्च
अतिमात्रं जायते सम्प्रहारो यतो विनाशस्समुपैति पुंसाम्
आकर्षते वाक्यबलप्रणीतो हृदि प्रौढो मन्त्रपदस्समाधिः
प्रातिपेयाश्शान्तनवाश्च राजन् काम्यां वाचं श्रुणुतां माऽत्यगास्ताम्
युधिष्ठिरेण कलहस्तवास्तु सुखप्रदस्सुचिरं ते सुधन्वा
वैश्वानरं प्रज्वलितं सुघोरं को युद्धेन प्रशयितोत्पतन्तम्
यदा मन्युं पाण्डवोऽजातशत्रुर् न संयच्छेदक्षमदाभिभूतः
वृकोदरस्सव्यसाची यमौ च कोऽत्र स्थाता तुमुले वै तदानीम्
महाराज प्रभवस्त्वं धनानां पुरा द्यूतं मनसा यावदिच्छेः
बहु वित्तं पाण्डवांश्चेज्जयस्त्वं किं चेदं स्याद्वसु विन्देत पार्थान्
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः
यतः प्राप्तश्शकुनिस्तत्र यातु मायायोगी भारत पार्वतीयः