वैशम्पायनः-
उपोह्यमाने द्यूते तु राजानस्सर्व एव ते
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः
नातीव प्रीतमनसस्तेऽन्ववर्तन्त भारत
ते द्वन्द्वशः पृथक्चैव सिंहस्कन्धा महौजसः
सिंहासनानि भूरीणी विचित्राणि च भेजिरे
शुशुभे सा सभा राजन्राजभिस्तैस्समागतैः
देवैरिव महाभागैस्समुदीर्णं त्रिविष्टपम्
सर्वे वेदविदश्शूरास्सर्वे भास्वरमूर्तयः
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम्
युधिष्ठिरः-
अयं बहुधनो राजन्सागरावर्तसन्निभः
मणिहारोत्तश्श्रीमान्कनकोत्तमभूषणः
एतद्राजधनं मह्यं प्रतिपाणोऽत्र कस्तव
भवत्येष क्रमस्तात जयाभ्येतद्दुरोदरम्
दुर्योधनः-
सन्ति मे मणयश्चैव धनानि विविधानि च
मत्सरश्च न मेऽर्थेषु जयामैतद्दुरोदरम्
वैशम्पायनः-
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्
जितमित्येव शकुनिस्तानक्षान् प्रत्यपद्यत
युधिष्ठिरः-
मत्तः कैतवकेनैव यज्जितोऽसि दुरोदरम्
शकुने हन्त दीव्यावो ग्लहमानौ सहस्रशः
इमे निष्कसहस्रस्य कुण्डिनो हारिणश्शतम्
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
इत्युक्तश्शकुनिः प्राह जितमित्येव तं नृपम्
युधिष्ठिरः-
अयं सहस्रसमितो वैयाघ्रस्सुप्रवर्तितः
सुचक्रोपस्करश्श्रीमान् किङ्किणीजालमण्डितः
संह्रादनो राजरथो य इहास्मानुदावहत्
जैत्रो रथवरः पुण्यो मेघसागरनिस्स्वनः
अष्टौ यं कुलसम्पन्नास्सदश्वा राष्ट्रसम्मताः
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमुवाच ह
सहस्रसङ्ख्या नागा मे मत्तस्तिष्ठन्ति सौबल
हेमकक्ष्याः कृतापीडाः पद्मिनो हेममालिनः
सदन्ता राजवहनास्सर्वशस्त्रसहा युधि
ईषादन्ता महाकायास्तावत्यश्च करेणवः
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः
जितमित्येव शकुनिर् युधिष्ठिरमभाषत
युधिष्ठिरः-
शतं दासीसहस्राणां तरुण्यो हेमभद्रिकाः
कम्बुकेयूरहारिण्यो निष्ककण्ठ्यस्स्वलङ्कृताः
महार्हमाल्याभरणास्सुवस्त्राश्चन्दनोक्षिताः
मणीहेमानि बिभ्रत्यस्सर्वा वै सूक्ष्मवाससः
अनुसेवां चरन्तीमाः कुशला नृत्तसामसु
स्नातकानाममात्यानां राज्ञां च मम शासनात्
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमुवाच ह
युधिष्ठिर उवाच
एवं तावन्ति दासानां सहस्राणि वसन्ति मे
प्रदक्षिणानुलोमाश्च प्रावारवसनास्सदा
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
युधिष्ठिरः-
रथास्तावन्त एवैते हेमभाण्डाः पताकिनः
हयैर्विनीतैस्सम्पन्ना रथिभिश्चित्रयोधिभिः
एकैको ह्यत्र लभते सहस्रपरमां भृतिम्
युध्यतोऽयुध्यतो वाऽपि वेतनं मासकल्पितम्
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
इत्येवमुक्तः पार्थेन कृतवैरो दुरात्मवान्
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
युधिष्ठिरः-
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
युधिष्ठिरः-
रथानां शकटानां च यानानां चायुतानि मे
युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्हयैः
एवं वर्णस्य वर्णस्य समुच्चयसहस्रशः
क्षीरं पिबन्ति तिष्ठन्ति भुञ्जानाश्शालितण्डुलान्
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
युधिष्ठिरः-
ताम्रलोहैः परिवृता निधयो ये चतुश्शतम्
पञ्चद्रौणिकमेकैकं सुवर्णस्याहतस्य वै
एतद्राजधनं मह्यं तेन दीव्याम्यहं त्वया
वैशम्पायनः-
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषतः