शकुनिः-
उपस्तीर्णा सभा राजन् वयं त्वेेते कृतक्षणाः
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर
युधिष्ठिरः-
निकृत्या देवनं पापं न क्षात्रोऽत्र पराक्रमः
न च नीतिर्ध्रुवा राजन् किं त्वं द्यूतं प्रशंससि
न च मायां प्रशंसन्ति कृतिनः कितवस्य हि
शकुने मैव नो जैषीर् अमार्गेण नृशंसवत्
शकुनिः-
योऽन्वेति सख्यं निकृतौ विधिज्ञश् चेष्टास्वखिन्नः कितवोऽक्षजासु
महामतिर्यो विदधाति द्यूतं स वै सर्वं लभते प्रक्रियासु
अक्षग्लहस्सोऽभिभवेत् परं तु तेनैव कालो भवतीदमात्थ
दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः
युधिष्ठिरः-
एवमाहासितो राजन् देवलो मुनिसत्तमः
इमानि लोकद्वाराणि यो वै सञ्चरते सदा
इदं वै देवनं पापं निकृत्या कितवैस्सह
धर्मेण तु जयो युद्धे तत् परं न तु देवनम्
नार्या म्लेच्छन्ति भाषाभिर् मायया न चरन्त्युत
अजिह्यमशठं युद्धम् एतत् सत्पुरुषव्रतम्
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे
तद्वै विद्वन् माऽतिदेवीर् मा जैषीश्शकुने परम्
नाहं निकृत्या कामेयं सुखान्युत धनानि वा
कितवासाद्यनिकृतेर् वृत्तमेतन्न पूज्यते
शकुनिः-
श्रोत्रियऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः
अकृतास्त्रं कृतास्त्रश्च दुर्बलं बलवत्तरः
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्
युधिष्ठिरः-
आहूतो न निवर्तेयम् इति मे व्रतमाहितम्
विधिश्च बलवान् राजन् दिष्टस्यास्मि वशे स्थितः
अस्मिन् समागमे केन देवनं मे भविष्यति
प्रतिपाणश्च को न्यस्तस् ततो द्यूतं प्रवर्तताम्
दुर्योधनः-
अहं दातास्मि रत्नानां धनानां च विशाम्पते
मदर्थे देविता चायं शकुनिर्मातुलो मम
युधिष्ठिरः-
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम्