शकुनिः-
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परम्
अगत्वा संशयमहम् अयुद्ध्वा च चमूमुखे
अक्षान् क्षिपन्नक्षतस्सन् विद्वानविदुषो जये
ग्लहान् धनूंषि मे विद्धि शरानक्षांश्च भारत
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम्
दुर्योधनः-
अयमुत्सहते राजञ्छ्रियमाहर्तुमक्षवित्
द्यूतेन पाण्डुपुत्रेभ्यस् तत् तुभ्यं तात रोचताम्
धृतराष्ट्रः-
स्थितोऽस्मि शासने भ्रातुर् विदुरस्य महात्मनः
तेन सङ्गम्य वेत्स्यामि मन्त्रस्यास्य विनिश्चयम्
दुर्योधनः-
कृष्णादभ्याधिकस्सोऽपि बोद्धा क्षत्ता विशाम्पते
केवलं धर्ममेवाह न तद्विजयसाधनम्
नयश्च धर्मतोपेतस् तथैव भरतर्षभ
तस्माद्विनयतो जेतुस् तावुभौ च विरोधिनौ
विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः
पाण्डवानां हिते युक्तो न तथा मम कौरव
नारभेत् परसामर्थ्यात् पुरुषः कार्यमात्मनः
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन
भयं परिहरन् मन्द आत्मानं परिपालयन्
वर्षासु क्लिन्नवटवत् तिष्ठन्नैवावसीदति
न व्याधयो नापि यमश् तावच्छ्रेयस्समाचरेत्
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्
धृतराष्ट्रः-
सर्वथा पुत्र बलिभिर् विग्रहं तैर्न रोचते
वैरं विनाशं सृजति तद्वै शस्त्रमनायसम्
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थिनं कलहं चातिघोरम्
तद्वै प्रवृत्तं तु यथाकथञ्चित् विमोक्षयेच्चाप्यसायकांश्च
दुर्योधनः-
द्यूते पुराणैर्व्यवहारः प्रणीतस् तत्रात्ययो नास्ति न सम्प्रहारः
तद्रोचतां ते शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम्
भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व
धृतराष्ट्रः-
वाक्यं न मे रोचते यत् त्वयोक्तं यत् ते प्रियं तत् क्रियतां नरेन्द्र
पश्चात् त्वं तप्यसे दुस्तरं च वाक्यं न हीदं भावि चाद्य प्रयुक्तम्
दृष्टं ह्येतद्विदुरेणैव सर्वं प्राप्तं ह्येतद्बुद्धिविद्यान्तगेन
तदेवैतदयशस्य ह्युपैति महद्भयं क्षत्रियवीजघाति
वैशम्पायनः-
इत्येमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च
शशासोच्चैः पुरुषान् पुत्रवाक्ये स्थितो राजा दैवसम्मूढचेताः
सहस्रस्थूणां हेमवैडूर्यचित्रां शतद्वारां स्फाटिकतोरणग्राम्
सभामग्र्यां क्रोशमात्रायतां मे एतद्विस्तारामाशु कुर्वन्तु युक्ताः
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तथा चक्रुराशु
सर्वद्रव्याण्युपजह्रुस्सभायां सहस्रशश्शिल्पिनां चापि युक्ताः
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम्
चित्रैर्हैमैरासनैरभ्युपेतामa आचख्युस्ते तस्य राज्ञः प्रतीताः
ततो विद्वान् विदुरं मन्त्रिमुख्यम् उवाचेदं धृतराष्ट्रो नरेन्द्रः
युधिष्ठिरं राजपुत्रं हि गत्वा मद्वाक्येन क्षिप्रमिहानयस्व
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः
सा दृश्यतां भ्रातृभिस्सार्धमेत्य सुहृद्द्यूतं वर्ततामत्र चैत्य
मतमाज्ञाय पुत्रस्य धृतराष्ट्रः प्रतापवान्
मत्वा च दुस्तरं दैवम् एतद्राजा चकार ह
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः
नाभ्यनन्दद्वचो भ्रातुर् वचनं चेदमब्रवीत्
विदुरः-
नाहं नन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि
पुत्रैर्भिन्नः कलहस्ते ध्रुवस्स्याद एतच्छङ्के द्यूतकृते नरेन्द्र
धृतराष्ट्रः-
नेह क्षत्तः कलहस्तस्य वै मे न चेद्दैवं प्रतिलोमं भविष्यत्
छात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम्
तदद्य विदुर प्राप्य राजानं मम शासनात्
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्
वैशम्पायनः
ततः प्रायाद्विदुरोऽश्वैरुदारैर् महाजवैर्बलिभिस्साधु दान्तैः
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशे
सोऽभिपत्य तदध्वानम् आसाद्य नृपतेः पुरम्
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः
स राजगृहमासाद्य कुबेरभवनोपमम्
अभ्यागच्छत धर्मात्मा धर्मराजं युधिष्ठिरम्
तं वै राजा सत्यधृतिर्महात्मा ह्यजातशत्रुर्विदुरं यथावत्
पूजापूर्वं प्रतिगृह्याजमीढस् ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्
युधिष्ठिरः-
विज्ञायते ते मनसोऽप्रहर्षः कच्चित् क्षत्तः कुशलेनागतोऽसि
कच्चित् पुत्रास्स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽपि कच्चित्
विदुरः-
राजा महात्मा कुशली सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः
प्रीतो राजन् पुत्रगुणैर्विनीतैर् विशोक एवात्मरतिर्दृढात्मा
इदं त्वा कुरुराजो ह्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च
इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते पश्यतामेत्य पुत्र
समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च
प्रीयामहे भवतस्सङ्गमेन समागताः कुरवश्चापि सर्वे
दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा
तान् द्रक्ष्यसे कितवान् सन्निविष्टान् इत्यागतोऽहं नृपते ताञ्जुषस्व
युधिष्ठरः-
द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचते बुध्यमानः
किं वा भवान् मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्मः
विदुरः-
जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे
राजा च मां प्राहिणोत् त्वत्सकाशं श्रुत्वा विद्वञ् श्रेय इहाचरस्व
युधिष्ठिरः-
के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः
पृच्छामि त्वां विदुर ब्रूहि नस्तान् यैर्दीव्यामश्शतशस्सन्निपत्य
विदुरः-
गन्धारराजश्शकुनिर्विशाम्पते राजाऽतिदेवी कृतहस्तो मताक्षः
विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च
युधिष्ठिरः-
महामायाः कितवास्सन्निविष्टा मायोपधा देवितारोऽत्र सन्ति
धात्रा तु दिष्टस्य वशे किलेदं न देवनं कितवैरद्य तैर्मे
नाहं राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम्
इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा
न चाकामश्शकुनिना देविताऽहं न ह्यात्मना धृष्णुराह्वयिता सभायाम्
आहूतोऽहं न निवर्ते कदाचित् तथा हीदं शाश्वतं वै व्रतं मे
वैशम्पायनः-
एवमुक्त्वा विदुरं धर्मराजः प्रायाणिकं सर्वमाज्ञाप्य तूर्णम्
प्रायाच्छ्वोभूते सगणस्सानुयात्रस् सह स्त्रीभिर्दौपदीमादिकृत्वा
दैवं हि प्रज्ञां मुष्णाति तेजश्चक्षुरिवापतत्
धातुश्च वशमन्वेति पाशैरिव करी स्थितः
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः
बाह्लिकेन रथं यत्तम् आस्थाय परवीरहा
परिच्छन्नो ययौ पार्थो भ्रातृभिः परिवारितः
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरस्सरः
सन्दिदेश ततः प्रेष्यान् नागाह्वयगतिं प्रति
ततस्ते नृपशार्दूलश् चक्रुर्वै नृपशासनम्
ततो राजा महातेजास् सधौम्यस्सपरिच्छदः
ब्राह्मणैस्स्वस्ति वाच्यैव निर्ययौ मन्दिराद्बहिः॥
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि
अन्येभ्यस्स तु दत्त्वाऽर्थं गन्तुमेवोपचक्रमे
सर्वलक्षणसम्पन्नं राजार्हं सपरिच्छदम्
तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम्
निषसाद गजस्कन्धे काञ्चने परमासने
हारी किरीटी हेमाभस् सर्वाभरणभूषितः
रराज राजन् पार्थो वै परया नृपशोभया
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः
ततो जगाम राजा स प्रहृष्टनरवाहनः
रथघोषेण महता पूरयन् वै नभस्स्थलम्
संस्तूयमानस्स्तुतिभिस् सूतमागधवन्दिभिः
महासैन्येन संवीतो यथाऽऽदित्यस्स्वरश्मिभिः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट्
उभयोः पक्षयोश्चैव गजाश्वैः कुरुनन्दनः
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरस्सरः
चामरैर्हेमदण्डैश्च धूयमानस्समन्ततः
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः
प्रत्यगृह्णाद्यथान्यायं यथावद्भरतर्षभः
अपरे कुरुराजानं पथि यान्तं समाहिताः
स्तुवन्ति सततं सौख्यान्मृगपक्षिस्वनैर्नराः
तथैव सैनिका राजन् राजानमनुयान्ति ये
तेषां हलहलाशब्दो दिवं स्तब्ध्वा प्रतिष्ठितः
नृपस्याग्ने ययौ भीमो गजस्कन्धगतो बली
उभौ पार्श्वे गजौ राज्ञस् सतल्पौ वै सुकल्पितौ
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ
शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ
पृष्ठतोऽनुययौ धीमान् पार्थश्शस्त्रभृतां वरः
श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः
सैन्यमध्ये ययौ राजन् कुरुराजो युधिष्ठिरः
द्रौपदीप्रमुखा नार्यः सानुगास्सपरिच्छदाः
आरुह्य ता विचित्राणि शिबिकानां शतानि च
महत्या सेनया राजन्नग्रे राज्ञो ययुस्तदा
समृद्धनरनागाश्वं सपताकरथध्वजम्
सन्नद्धनरनानागाश्वं पत्तिभिर्घोषनिस्स्वनम्
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम्
शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया
महत्या सेनया सार्धं गुरुमित्रं स गच्छति
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना
सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा
स सरांसि नदीश्चैव वनान्युपवनानि च
अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत
हस्तीपुरसमीपे तु कुरुराजो युधिष्ठिरः
चक्रे निवेशनं तत्र ततस्स सहसैनिकः
शिवे देशे समे चैव न्यवसत् पाण्डवस्तदा
ततोराजन् समाहूय शोकविह्वलया गिरा
एतद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम्
आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह
श्रुत्वा तु भाषितं तेन धर्मराजोऽब्रवीदिदम्
युधिष्ठिरः-
मर्षयामि ह्यहं क्षत्तस् समाह्वानं व्रतेन मे
स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा
वैशम्पायनः-
इत्युक्त्वा प्रययौ राजा पुरं नागाह्वयं ततः
धृतराष्ट्रेण चाहूतः कालस्य समयेन च
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ
समेयाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः
ततो द्रोणेन भीष्मेण कर्णेन च कृपेण च
समेयाय यथान्यायं द्रौणिना च विभुस्सह
समेयाय यथान्यायं सोमदत्तेन चाभिभूः
दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान्
ये चान्ये तत्र राजानः पूर्वमेव समागताः
दुश्शासनेन कौन्तेयस् सर्वैर्भ्रातृभिरेव च
जयद्रथेन हि तथा कुरुभिश्चापि सर्वशः
समेत्य कुरुभिस्सर्वैर् यथान्यायमरिन्दमः
ततस्सर्वैर्महाबाहुर् भ्रातृभिः पिरवारितः
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य सम्मतम्
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्
स्नुषाभिस्संवृतां शश्वत् ताराभिरिव रोहिणीम्
अभिवाद्य च गान्धारीं तया च प्रतिनन्दितः
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्
राज्ञा मूर्धन्युपाघ्रातास् ते च कौरवनन्दनाः
चत्वारः पाण्डवा राजन् भीमसेनपुरोगमाः
ततो हर्षस्समभवत् कौरवाणां विशाम्पते
तान् दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ
विविशुस्ता उपायाता द्रौपदीप्रमुखास्स्त्रियः
याज्ञसेन्याः पराम् वृद्धिं दृष्ट्वा प्रज्वलितामिव
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिश्च संविदम्
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च
ततः कृताह्निकास्सर्वे दिव्यचन्दनरूपिताः
कल्याणमनसस्सर्वे ब्राह्मणान् स्वस्ति वाच्य च
मनोज्ञमशनं भुक्त्वा विविशुश्शयनान्यथ
उपगीयमाना नारीभिर् अस्वपन् कुरुनन्दनाः
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्
सुखोषितास्ते रजनीं प्रातस्सर्वे कृताह्निकाः
सभां रम्यां प्रविविशुः कितवैरभिसंवताम्