धृतराष्ट्ः-
त्वं वै श्रेष्ठश्श्रेष्ठिनेयः पुत्रो मा पाण्डवान् द्विषः
द्वेषादसुखमादत्ते यथैव निधनं तथा
व्युत्पन्नं च समानार्थं तुल्यमित्रं युधिष्ठिरम्
अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ
तुल्याभिजनवीर्यश्च कथं भ्रातुश्श्रियं नृप
पुत्र कामयसे मोहान्मैवं भूश्शाम्य साध्विह
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्
आहरिष्यन्ति राजानस् तवापि विपुलं धनम्
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च
मही कामदुघा सा हि वीरपत्नीति चोच्यते
तथा वीर्याश्रिता भूमिस् तनुते हि मनोरथम्
तवाप्यस्ति हि चेद्वीर्यं भोक्ष्यसे हि महीमिमाम्
अनार्थाचरणं तात परस्वहरणं भृशम्
उभयोर्लोकयोर्दुःखं सुहृदामवमाननम्
सुसन्तुष्टस्स्वकर्मस्थो यस्स वै सुखमेधते
अव्यापारः परार्तेषु नित्ययोगस्स्वकर्मसु
उद्यमो रक्षणे स्वोपाम् एतद्विभवलक्षणम्
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान् यतः
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन् प्रियान्
स्त्रीभिः क्रीडन् निरातङ्कः प्रशाम्य भरतर्षभ
दुर्योधनः-
जानन् वै मोहयति मां नावि नौरिव सम्मता
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता
भविष्यदर्थमाख्यासि तदात्वं कृत्यमात्मनः
परप्रणेयोऽग्रणीश्च यश्च मार्गात् प्रमुह्यति
पन्थानमनुगच्छेयुः कथमस्य पदानुगाः
राजन् परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः
प्रतिपन्नान् स्वकार्येषु सम्मोहयसि नो भृशम्
लोकवृत्ताद्राजवृत्तम् अन्यदाह बृहस्पतिः
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्योऽप्रमादतः
क्षत्रियस्य महाराज जये वृत्तिस्समाहिता
स वै धर्मोऽस्त्वधर्मो वा स्वधर्मो भरतर्षभ
प्रकालयेद्दिशस्सर्वाः प्रतोदेनेव सारथिः
प्रत्यमित्रां श्रियं दीप्तां जिहीर्षुर्भरतर्षभ
प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं भेदनं स्मृतम्
असन्तोषश्श्रियो मूलं तस्मात् तं कथयाम्यहम्
समुच्छ्रये यो यतते स राजन् परमो नयी
ममत्वं हि न कर्तव्यम् ऐश्वर्ये वा धनेषु वा
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः
अद्रोहे समयं कृत्वा चिच्छेद नमुचेश्शिरः
शक्रेण विहिता तात रिपौ वृत्तिस्सनातनी
द्वावेव ग्रसते भूमिस् सर्पो बिलशयाविव
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्
नास्ति वै जातितश्शत्रुः पुरुषस्य विशाम्पते
येन साधारणी वृत्तिस् स शत्रुर्नेतरो जनः
शत्रुपक्षसमृद्धिं तां यो मोहात् समुपेक्षते
आप्यायित इव व्याधिस् तस्य मूलं छिनत्ति सः
अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्
आजमीढ रिपोर्लक्ष्मीर् मा ते रोचिष्ट भारत
एष भारस्सत्ववताम् अरेश्शिरसि तिष्ठिताम्
जन्मवृद्धिमिवार्याणां यो वृद्धिमभिकाङ्क्षते
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमात्
सम्प्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति
अवाप्स्ये वा श्रियं तां हि शये वा निहतो युधि
एतादृतस्य किं मेऽद्य जीवितेन विशाम्पते
वर्धन्ते पाण्डवा नित्यं वयं त्वस्थिरवृद्धयः