जनमेजयः-
कथं तदभवद् द्यूतं भ्रातॄणां तन्महात्ययम्
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः
के च तत्र सभास्तारा राजानो ब्रह्मवित्तमाः
के चैनमन्वमोदन्ते के चैनं प्रत्यषेधयन्
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज
मूलं ह्येतद्विनाशस्य पृथिव्यां द्विजसत्तम
सूतः-
एवमुक्तस्ततो राज्ञा व्यासशिष्यो महामतिः
आचचक्षे यथावृत्तं तत् सर्वं वेदतत्त्ववित्
वैशम्पायनः-
शृणु मे विस्तरेणेमां कथां भरतसत्तम
भूय एव महाराज यदि ते श्रवणे मनः
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः
दुर्योधनमिदं वाक्यम् उवाच विजने पुनः
धृतराष्ट्रः-
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति
न ह्यसौ सुमहाबुद्धिर् अहितं नोऽभिधास्यति
हितमेव परं मन्ये विदुरो यत् प्रभाषते
क्रियतां पुत्र तत् सर्वम् एतन्मन्ये हितं तव
देवर्षिर्वासवगुरुर् देवराजाय धीमते
यत् प्राह शास्त्रं सुमहद् बृहस्पतिरुदारधीः
तद्वेद विदुरस्सर्वं सरहस्यं महाकविः
स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक
विदुरश्च स मेधावी कुरूणां प्रवरो मतः
उद्धवो वा महाबाहुर् वृष्णीनामर्चितः कविः
तदलं पुत्र भेदेन द्यूते भेदो हि दृश्यते
भेदे विनाशस्सुव्यक्तस् तस्मादेतां मतिं त्यज
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्
प्राप्तस्त्वमसि नस्तात पितृपैतामहं पदम्
अधीतवान् कृती शास्त्रे लालितस्सततं गृहे
भ्रातृज्येष्ठस्स्थितो राज्ये विद्यते किं नु शोचनम्
पृथग्जनैरलभ्यं यद् भोजनाच्छादनं परम्
तत् प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्
नित्यमाज्ञापयन् शासि दिवि देवेश्वरो यथा
यादृशं च तवैश्वर्यं तदन्येषां सुदुर्लभम्
ये चोपभोगास्ते तात मया ते परिकीर्तिताः
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्
समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि
दुर्योधनः-
अश्नाम्याच्छादयामीति प्रपश्यन् हीनपौरुषः
नामर्षं कुरुते यस्तु पुरुषस्सोऽधमस्स्मृतः
न मां प्रीणाति पृथिवी राजन् साधारणी विभो
ज्वलन्तीमिव कौन्तेये श्रियं दृष्ट्वा महात्मनि
सर्वां च पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम्
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते
आवर्जिता इवाभान्ति निघ्नाः किङ्करका गुरो
कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने
हिमवत्सागरानुपास् सर्वरत्नाकरास्तथा
अन्त्यास्सर्वे पर्युदस्ता युधिष्ठिरनिवेशने
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चापि विशाम्पते
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः
प्रातिष्ठं तदविश्रान्तो गृह्य दूराहृतं वसु
उपस्थितानां रत्नानां श्रेष्ठानां रत्नहारिणाम्
पारमन्तं न पश्यामि नापरं तत्र भारत
कृतां बिन्दुसरोरत्नैर् मयेन स्फाटिकच्छदाम्
अपश्यं नलिनीं पूण्याम् उदकस्येव भारत
उत्कर्षन्तं च वै वासः प्राहसन्मां वृकोदरः
किङ्कराश्च सभापाला जहसुर्भरतर्षभ
पित्रोरर्थे विशेषेण प्रावृण्यं तत्र जीवितम्
तत्र स्म यदि शक्तस्स्यां घातयेयं वृकोदरम्
सपत्नेनावहासो मे स मां दहति भारत
तत्र स्फटिकतोयां हि स्फाटिकाम्बुजशोभिताम्
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप
तत्र मामहसद्भीमस् सह पार्थेन सस्वरम्
द्रौपदी च सह स्त्रीभिः पातयन्ती मनो मम
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः
ददुर्वासांसि चाऽन्यानि तच्च दुःखतरं मम
प्रलम्भं च शृणुष्वान्यद् गदतो मे नराधिप
अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा
अभिहत्य शिलां भूयो ललाटे चास्मि विक्षतः
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप
अग्रतः प्रहसन् वाक्यं बभाषे स वृकोदरः
इदं द्वारमिदं राजन् न द्वारमिति मां प्रति
तत्र मां यमजौ दूराद् आलोक्य ललितौ किल
सहितावनुशोचन्तौ बाहुभिः प्रत्यगृह्णताम्
उवाच सहदेवो मां तत्र विस्मापयन्निव
इद द्वारमितो राजन् निर्गच्छेति पुनः पुनः
न श्रुतानि न दृष्टानि यानि रत्नानि मे क्वचित्
तानि तत्र च दृष्टानि तेन तप्तोऽस्मि दुःखितः
हुताशनं प्रवेक्ष्यामि प्रविशे वा महोदधिम्
सम्भावितस्य चाकीर्तिर् मरणादतिरिच्यते
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत
आहृतं भूमिपालेब्यो वसु मुख्यं ततस्ततः
निर्विद्ये दृढमात्मानं दृष्ट्वाऽहं तदरेर्धनम्
लालतो भूमितो वाऽपि प्रतिपद्यस्व भारत
कुथांश्चेलान् पार्षतांश्च जातरूपपरिष्कृतान्
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ वसु
अश्वांस्तित्तिरिकल्माषांस् त्रिशतं शुकनासिकान्
उष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः
गोपास्स्वनेन सहितास् तदादाय च षट्पदम्
वसातयो दुद्रावाश्च द्वारि तस्यावतस्थिरे
कमण्डलूनुपादाय जातरूपमयाञ्छुभान्
रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत्
यश्च स द्विजमुख्येन राज्ञश्शङ्खो निवेदितः
प्रीत्या दत्तः कुणिन्देन धर्मराजाय धीमते
तं सर्वे भ्रातरो भ्रात्रे ददुश्शङ्खं किरीटिने
तं प्रत्यगृह्णाद्बीभत्सुस् तोयजं हेममालिनम्
चितं निष्कसहस्रेण भ्राजमानं स्वतेजसा
रुचिरं दर्शनीयं च भूषितं विश्वकर्मणा
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः
योऽन्नदाने नदति स ननादाधिकं तदा
प्रणादाद्भूमिपास्तस्य पेतुर्हीनास्स्वतेजसा
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः
सत्वस्थाश्शौर्यसम्पन्ना अन्योन्यप्रियकारिणः
विसञ्ज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस्तदा
ततः प्रहृष्टो बीभत्सुर् अददाद्धेमशृङ्गिणः
शतान्यनडुहां पञ्च द्विजमुख्याय भारत
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे
कुविन्देन हिरण्यं च वासांसि विविधानि च
काश्मीरराजो माद्वीकं शुद्धं च रसवन्मधु
बलिं च कृत्स्नमादाय पाण्डवायाभ्युपाहरत्
यवना हयानुपादाय पार्वतीयान् मनोजवान्
आसनानि महार्हाणि कम्बलांश्च महाधनान्
नवान् विचित्रान् सूक्ष्मांश्च परार्थ्यान् सुप्रदर्शनान्
अन्यच्च विविधं रत्नं द्वारि तिष्ठन्ति वारिताः
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम्
अङ्गस्स्त्रियो दर्शनीया जातरूपविभूषिताः
वङ्गो जाम्बूनदमयान् पर्यङ्काञ्छतशो नृप
दक्षिणात् सागराभ्याशात् प्रावारांश्च परश्शतम्
औदकानि सरत्नानि बलिं चादाय भारत
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत्
दार्दुरं चन्दनं मुख्यं भारं षण्णवतिं द्रुतम्
पाण्डवाय ददौ पाण्ड्यश् शङ्खांस्तावत एव च
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिकाः
चोलश्च केरलश्चोभौ ददतुः पाण्डवाय वै
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषिताः
सवत्साः कुम्भदोहाश्च गास्सहस्राण्यदाद्दश
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम्
अददात् सैन्धवो राजा हेममाल्यैरलङ्कृतान्
सौवीरो हस्तिभिर्युक्तान् रथांश्च त्रिशतावरान्
जातरूपपरिष्कारान् मणिरत्नविभूषितान्
मध्यन्दिनार्कप्रतिमांस् तेजसाऽप्रतिमानिव
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्
अवन्तिराजो रत्नानि विविधानि सहस्रशः
हाराङ्गदांश्च मुख्यान् वै विविधं च विभूषणम्
दासीनामयुतं चैव बलिमादाय भारत
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान्
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्
काशिराजेन हृष्टेन बली राजन् निवेदितः
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम्
विविधानि च रत्नानि काशिराजो बलिं ददौ
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश
शैब्यो वसादिभिस्सार्धं त्रिगर्तो मालवैः सह
तस्मै रत्नानि ददतुर् एकैको भूमिपोऽमितम्
हारांस्तु मुक्तान् मुख्यांश्च विविधं च विभूषणम्
शतं दासीसहस्राणि कार्पासिकनिवासिनीः
श्यामास्तन्वीर्दीर्घकेशीर् हेमाभरणभूषिताः
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ
शुद्धान् विप्रोत्तमार्हांश्च कम्बलप्रवरान् ददौ
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन् दिदृक्षवः
उपायनं यदा दद्युस् तदा द्वारमलभ्यत
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नाद्यमुखैस्तु ये
समुद्रनिष्कुटाज्जाताः परिसिन्धुनिवासिनः
ते वै द्रुमाः पारदाश्च काश्यकैरातकैस्सह
बलिं विविधमादाय रत्नानि विविधानि च
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु
कम्बलान् विविधांश्चैव द्वारि तिष्ठन्ति वारिताः
प्राग्ज्योतिषपतिश्शूरो म्लेच्छानामधिपो वशी
यवनैस्सहितो राजा भगदत्तो महीपतिः
आजानेयान् हयाञ्छीघ्रान् आदायानिलरंहसः
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः
अश्मसारमयं भाण्डं शुभान् दन्तत्सरूनसीन्
प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत् तदा
द्व्यक्षांस्त्र्यक्षाल्ँललाटाक्षान् नानादिग्भ्यस्समागतान्
औष्णीषानहयांश्चैव बाहुकान् पुरुषादकान्
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु
इन्द्रगोपकसङ्काशाञ् छुकवर्णान् मनोजवान्
तथैवेन्द्रायुधनिभान् सन्ध्याभ्रसदृशानपि
अनेकवर्णानारण्यान् गृहीत्वाश्वांस्तदा बहून्
जातरूपमथाग्नेयं ददुस्तस्यैकपादकाः
सिंहलश्च तदा राजा परिगृह्य धनं बहु
गोशीर्षकं पद्मकं च हरिं श्यामं च चन्दनम्
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः
ये नग्नविषया राजन् बर्बरेयाश्च विश्रुताः
शतं दासीसहस्राणां कम्बलानां सहस्रशः
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः
कालेयकं च रूप्यं च परिगृह्य परिच्छदान्
अगरून् स्फाटिकांश्चैव दन्ताञ्जातीफलानि च
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबलाः
अन्यांश्च विविधान् द्रव्यान् परिगृह्य उपस्थिताः
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः
शैलेयश्च ततो राजा पत्रोर्णान् परिगृह्य सः
द्वारि तिष्ठन् महाराज द्वारपालैर्निवारितः
चीना हूणाः खषाः काचाः पर्वतान्तरवासिनः
आहार्षुर्दशसाहस्रान् विनीतान् दिक्षु विश्रुतान्
उष्णीषं कम्बलं चैव कीटजं पट्टजं तथा
प्रमाणरागस्पर्शाढ्यान् बाह्वीचीनसमुद्भवान्
रसान् गन्धान् प्रशंसन्तस् ततो द्वारमलभ्यत
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा
चेलान् बहुविधान् गृह्य द्वारि तिष्ठन्ति वारिताः
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा
नापितास्त्रैपुराश्चैव पञ्चजेयास्सहोरुजाः
तथा चाटविकास्सर्वे नानाद्रव्यपरिच्छदान्
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः
शकास्तुषाराः कौरव्य रोमकाश्शृङ्गिणो नराः
बलाद्दूरुगमान् राजन् गणितं चार्बुदं मया
किट्टीकृतं सुवर्णं च पद्मकिञ्जल्कसन्निभम्
शितान् दीर्घानसीनन्यान् यष्टिशक्तिपरश्वथान्
श्लक्ष्णं वस्त्रमकार्पासम् आविकं ह्येणकाजिनम्
बलिमेतं समादाय द्वारि तिष्ठन्ति वारिताः
आसनानि महार्हाणि यानानि शयनानि च
मणिकाञ्चनचित्राणि गजदन्तमयानि च
रथांश्च विविधाकाराञ् जाम्बूनदपरिष्कृतान्
हयैर्विनीतैस्सम्पन्नान् वैयाघ्रपरिवारितान्
विचित्रान् सपरिस्तोमांश् चापानि विविधानि च
नाराचानर्घनाराचाञ् छस्त्राणि विविधानि च
एतद्गृह्य महद्द्रव्यं पूर्वदेशाधिपो नृपः
प्रविष्टो यज्ञसदनं पाण्डवस्य यशस्विनः
जतुचेलान् द्विसाहस्रं दुकूलान्ययुतानि
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा
अन्यान् बहुविधान् राजन् नरास्सागरमाश्रिताः
रत्नं बहुविधं गृह्य ददुस्ते पाण्डवाय तु
मालवाश्च ततो राजन् रत्नानि विविधानि च
गोधूमानां च राजेन्द्र द्रोणानां कोटिसम्मितम्
अन्यांश्च विविधान् धान्यान् परिगृह्य महाबलः
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम्
नानारत्नान् बहून् गृह्य सुराष्ट्राधिपतिर्नृपः
तैलकुम्भैर्महाराज द्रोणानामयुतानि च
गुडानपि सितान् स्वादून् सहस्रशकटैर्नृपः
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः
अन्ये च पार्थिवा राजन् नानादेशसमागताः
रत्नानि विविधान् गृह्य ददुस्ते कौरवाय तु
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते
करं तु न प्रयच्छेद् यो नास्ति पार्थस्य पार्थिवः
नरस्सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा
इमांश्च देयान् विविधान् निबोध मम पार्थिव
यज्ञार्थे राजभिर्दत्तान् महतो धनसञ्चयान्
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
ये ते कीचकवेणूनां छायां रम्यामुपासते
खषाश्शकाश्शतज्योत्स्नाः प्रवासा दीर्घवेणवः
पशुपाश्च कुणिन्दाश्च तङ्कणाः परतङ्कणाः
ते वै पिपीलिका नाम पुरा दत्तं पिपीलिके
जातरूपमयं द्रोणम् अहार्षुः पुञ्जतो मधु
कृष्णवालांश्च चमराञ् छुक्लवालांस्तथा परान्
हिमवत्पुष्पजं चैव स्वादु क्षौद्ररसं बहु
उत्तरेभ्यः कुरुभ्यश्च व्यूढं माल्यं महाम्बुभिः
उत्तरादपि कैलासाद् ओषधीश्च महाबलाः
पार्वतीयान् बलींश्चान्यान् आहृत्य प्रणतास्स्थिताः
अजातशत्रवे राजन् द्वारि तिष्ठन्ति वारिताः
ये परार्घ्या हिमवतस् सूर्योदयगिरेरनु
एवंरूपास्समुद्रान्ते लौहित्यमभितश्च ये
फलमूलाशना ये च किराताश्चर्मवाससः
चन्दनागरुमुख्यानि महार्हान् कम्बलांस्तथा
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च
कैरातकीनामयुतं दासीनां च विशाम्पते
आहृत्य रमणीयार्थान् दूरजान् मृगपक्षिणः
विचित्रं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः
कालव्या दरदा दर्व्यश् शूरा हैमकयास्तथा
औदुम्बरा दुर्विभागाः पौरवास्सह बाह्लिकैः
काश्मीराः कुन्दमानाश्च गौरका हंसकास्तथा
शैब्यास्त्रिगर्ता यौधेया राजन्या मद्रकैस्सह
वसातयस्समौलेयास् सह क्षुद्रकमालवैः
शौण्डिकाश्चोदराश्चैव साल्वाश्चैव विशाम्पते
अङ्गावङ्गाश्च मनव अनवद्या गयैस्सह
स्वजातीयाश्श्रेणिमन्तश् श्रेयांसश्शस्त्रधारिणः
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे
वङ्गाः कलिङ्गपतयस् ताम्रलिप्ताश्च पुण्ड्रकाः
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत
औपाव्रता नृपास्तस्य ददुः प्रीतिं न चागमन्
उच्यन्ते तत्र हि द्वार्स्थैर् बलिमादाय विष्ठिताः
ईषादन्तान् हेमकक्ष्यान् पद्मवर्णान् कुथास्तृतान्
पर्वतप्रतिमाञ्जातान् अभितः कम्बुकं सरः
क्षमावतः कुलीनांश्च कुञ्जरान् सपरिच्छदान्
दत्त्वैकैको दशशतं द्वारे प्रविशन्ति च
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः
मरुकाः काशिका दर्दा भौमेया नटनाटकाः
कर्णाटाः कांस्यकुट्टाश्च पद्मजालासुतीवराः
दाक्षिणात्याः पुलिन्दाश्च शम्बराः कङ्कणाः खषाः
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा
पल्लवाश्शककारूशास् तुम्बराः काशिकास्तथा
एते चान्ये च बहवो गणा दिग्भ्यस्समागताः
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः
समुद्रसारवैडूर्यान् मुक्ताश्शङ्खास्तथैव च
शुभावर्ताञ्छुभाञ्छुक्तीस् सिंहलास्समुपाहरन्
सम्भृतान् मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान्
राजा चित्ररथो नाम गन्धर्वो वासवानुगः
शतानि चत्वार्यददाद् द्वीपानां देवजन्मनाम्
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्
आम्रपत्रसवर्णानाम् अददद्धेममालिनाम्
कुणिन्दराजः कौरव्य अंसुकानां विशाम्पते
अददात् तानि रत्नानि शतशोऽथ सहस्रशः
विराटेन तु मत्स्येन बलिर्मुख्यो निवेदितः
कुञ्जराणां सहस्रेण मत्तानां हेममालिनाम्
वसुराष्ट्राद्वसुदानो राजा षड्त्रिंशतं गजान्
हयानां च सहस्रेण राजन् काञ्चनमालिनाम्
जवसत्वोपपन्नानां वयस्थानां नराधिप
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
दासानामयुतं चापि सदाराणां विशाम्पते
पञ्चविंशतिसाहस्रम् अश्वानां हेममालिनाम्
बाह्लीकः प्रददौ राजन् पाण्डवाय महात्मने
हययुक्तान् महाराज रथान् षड्विंशतिं गजान्
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्
अददद्गजमुख्यानां सहस्राणि चतुर्दश
अन्तरात्मा महाराज तस्माद्यन्मे न शाम्यति
अश्वेनेव युगं नद्धं विपरीतं हि दृश्यते
गुणहीनतराश्चापि युष्माभिर्भरतर्षभ
कनीयांसोऽभिर्धन्ते ज्येष्ठपुत्रोऽवसीदति
वद मे कारणं भक्त्या कुन्तीपुत्रस्य धीमतः
सर्वे सुबलसम्पन्नाः क्षत्रिया मानगर्विताः
यज्ञे करप्रदास्तस्य ये च म्लेच्छेषु भूमिपाः
अतीव ते प्रमुदिताः पाणडुपुत्रा महारथाः
अत्यर्थं ब्राह्मणाश्चैव क्षत्रिया युद्धनिर्जिताः
उपकर्तुं विशश्चैव शूद्राश्शुश्रूषवोऽपि च
प्रीत्या च बहुमानाच्च अभ्यागच्छन् युधिष्ठिरम्
सर्वे म्लेच्छास्सर्ववर्णा आदिमध्यान्तजास्तथा
नानादेशसमुत्थैश्च नानाजातिभिरागतैः
पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने
उच्चावचानुपग्राहान् राजभिः प्रहितान् बहून्
शत्रूणां पश्यतो दुःखान् मुमूर्षा मेऽद्य जायते
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः
अयुतं त्रीणि पद्मानि गजारोहास्ससादिनः
रथानामयुतं चैव पादाता बहवस्तथा
प्रमीयमाण आरम्भः पच्यमानस्तथैव च
विसृज्यमानश्चान्यत्र पुण्याहस्वन एव च
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथञ्चन
अपश्यं सर्ववर्णानां युधिष्ठिमहाध्वरे
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः
परितृष्टाश्च तेऽस्याशीस् सदा शंसन्त्यरिक्षयम्
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्
भुञ्जते रुक्मपात्रेषु युधिष्ठिरनिवेशने
भुक्ताभुक्तमिदं सर्वं सर्वमाकुब्जवामनम्
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत
वैवाहिकेन पाञ्चालास् सख्येनान्धकवृष्णयः
आर्यास्तु ये वै राजानस् सत्यसन्धा महाव्रताः
पर्याप्तविद्या वक्तारो ह्यध्वरावभृथप्लुताः
प्रीतिमन्तो महात्मानो धर्मात्मानो यशस्विनः
मूर्धावसिक्तास्ते चैनं राजानस्समुपासते
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः
आरण्ये बहुसाहस्रा याः पश्याम्यत्र गास्तदा
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः
बाह्लीको रथमाहार्षीज् जाम्बूनदपरिष्कृतम्
सुदक्षिणस्तु युयुजे श्वेतैः काम्भोजजैर्हयैः
सुनीथोऽप्रतिमस्तस्य सुनीथस्यात्मजस्तथा
ध्वजं चेदिपतिः क्षिप्रम् अहार्षीत् स्वयमुद्यतम्
दाक्षिणात्यस्सन्नहनं स्रगुष्णीषे तु मागधः
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्
मत्स्योऽक्षानश्वबद्धान् वै एकलव्य उपानहौ
आवन्त्यस्त्वभिषेकार्थम् अपो बहुविधास्तथा
चेकितान उपासङ्गं धनुः काश्य उपाहरत्
असिं च सत्सरुं शल्यश् शैक्यं काञ्चनभूषणम्
अनुजग्मुर्महात्मानम् ऋत्विजो भूरिदक्षिणाः
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा
अधारयच्छत्रमस्य सात्यकिस्सत्यविक्रमः
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः
उपागृह्णाद्यथेन्द्राय पुरा कल्पे प्रजापतिः
तदस्मै शङ्खमाहार्षीद् वरुणः कलशोदधिः
सप्तनिष्कसहस्रेण सुकृतं विश्वकर्मणा
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्
जलार्थं तत्र राजेन्द्र घटानादाय राक्षसाः
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः
तत्र स्म दध्मुश्शतशश्शङ्खान् माङ्गल्यकारणात्
प्राणदन्त समाध्मातास् ततो रोमाणि मेऽहृषन्
प्रणता भूमिपाश्चैव पेतुर्हीनास्स्वतेजसा
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः
सत्वस्थाश्शौर्यसम्पन्ना ह्यन्योन्यप्रियकारिणः
विसञ्ज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस्तदा
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत
न चैवं वीर्यवानासीद् यौवनाश्वो मनुर्न च
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः
यथाऽतिमात्रं कौन्तेयश् श्रिया परमया युतः
राजसूयमवाप्यैव हरिश्चन्द्र इव प्रभुः
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो
कथं नु जीवितं श्रेयो मम पश्यसि भारत
अश्वेनेव युगं नद्धं विपर्यस्तं नराधिप
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत
एवं दृष्ट्वा नाभिविन्दामि शान्तिं परीक्षमाणोऽपि कुरुप्रवीर
तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च