वैशम्पायनः-
अनुभूय तु राज्ञो राजसूयं सुदुर्मतिः
युधिष्ठिरस्य शकुनिर् दुर्योधनवशे स्थितः
विवेश हास्तिनपुरं दुर्योधनमतेन सः
बाढमित्येव शकुनिर् दृढं हृदि चकार ह
अस्वस्थतां च तां दृष्ट्वा धार्तराष्ट्रस्य पापकृत्
पापः पापात्मना तेन समेत्य पृथिवीक्षिता
भारतानां च दुष्टात्मा क्षयाय हि नृपश्रियाम्
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्
वैशसं सर्वलोकस्य हृदि कृत्वा सुदुर्मतिः
दैवेन विधिना चैव चोदितः क्रूरकर्मकृत्
आत्मवैरं हृदीकृत्य सौबलानां पुरस्कृतम्
गान्धारराजश्शकुर् धृतराष्ट्रं जनेश्वरम्
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्
शकुनिः-
दुर्योधनो महाराज विवर्णो हरिणः कृशः
दीनश्चिन्तापरश्चैव तं विद्धि भरतर्षभ
न वै परीक्षसे सम्यग् अस्य त्वं राजसत्तम
ज्येष्ठपुत्रस्य हृच्छोकं तमिमं नावबुध्यसे
वैशम्पायनः-
एवमुक्तश्शकुनिना धृतराष्ट्रो जनेश्वरः
दुर्योधनं समाहूयं इदं वचनमब्रवीत्
धृतराष्ट्रः-
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम्
चिन्तयन् वै न पश्यामि शोकस्य तव सम्भवम्
ऐश्वर्यं हि महत् पुत्र त्वयि सर्वं समाहितम्
भ्रातरस्सुहृदश्चैव कुर्वन्ति तव सुप्रियम्
त्वद्दत्तं चैव भुञ्जावो गान्धारी चाहमेव च
आच्छादयसि प्रावारानश्नासि पिशितौदनम्
आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक
शयनानि महार्हाणि योषितश्च मनोरमाः
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्
देवनामिव ते सर्वं वाचि बद्धमसंशयम्
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक
मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्
प्राप्तस्त्वमसि तत् तात निखिलां नः कुलश्रियम्
उपस्थितस्सर्वकामैस् त्रिदिवे वासवो यथा
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि
निरुक्तं निगमं छन्दस् सषडङ्गार्थशास्त्रवान्
अधीतः कृतविद्यस्त्वम् अष्टव्याकरणैः कृपात्
हलायुधात् कृपाद्द्रोणाद् अस्त्रविद्यामधीतवान्
भ्राताज्येष्ठस्स्थितो राज्ये किन्नु शोचसि पुत्रक
पृथग्जनैरलभ्यं यद् अशनाच्छादनं बहु
प्रभुस्त्वं भुञ्जसे पुत्र संस्तुतस्सूतमागधैः
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्
लोकेऽस्मिञ् ज्येष्ठभागी त्वं तन्ममाचक्ष्व पुत्रक
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन्
दुर्योधनः-
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा
अमर्षं धारये चोग्रं तितिक्षुः कालपर्ययम्
अमर्षणस्स्वां प्रकृतिं अभिभूय चरेद्धितम्
क्लेशान् मुमुक्षुः परजान् स वै पुरुष उच्यते
सन्तोषो वै श्रियं हन्ति ह्यभिमानश्च भारत
अनुक्रोशश्श्रियं हन्ति सन्तोषश्चापि तावुभौ
अनुत्थानभये चोभे यैर्वृतो नाश्नुते महत्
न मामवैमि तद्भूतां श्रियं दृष्ट्वा युधिष्ठेरे
ज्वलन्तीमिव राजेन्द्र विवर्णकरणीं मम
सपत्नानृद्ध्यतोऽत्मानं हीयमानं निशाम्य ह
अतुष्यन्नपि कौन्तेयं नाहं पश्यामि वर्धितुम्
तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्
भुञ्जते रुक्मपात्रीभिर् युधिष्ठिरनिवेशने
शत्रोर्ऋद्धिविशेषेण विरूपोन्नविबर्जितः
कदलीमृदुरोमाणि कृष्णश्यामारुणानि च
काम्भोजः प्राहिणोत् तस्मै परार्ध्यानपि कम्बलान्
गजयोषिद्गवाश्वानां सहस्राणि चतुर्दश
त्रिंशतं चोष्ट्रवामीनां सहस्राणि वहन्त्युत
एवं सर्वाणि रत्नानि पृथिव्यां सर्वपार्थिवाः
प्रयच्छन्ति महाराज कुन्तीपुत्रस्य सर्वतः
न क्वचिद्धि मया दृष्टस् तादृशो नैव च श्रुतः
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः
असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप
शमं नैवाभिगच्छामि चिन्तयानो विशाम्पते
ब्राह्मणा वाटधानाश्च गोमन्तश्शतसङ्घशः
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम्
यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः
तदस्मै कांस्यमादाय वारुणं कलशोदधिः
रुक्मस्य तु सहस्रं च कलशं रत्नविभूषितम्
दृष्ट्वाऽथ मे मनस्तात ज्वररूपमिवाभवत्
गृहीत्वा कलशं यान्ति समुद्रौ पूर्वदक्षिणौ
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ
जलार्थं तत्र राजेन्द्र घटानादाय राक्षसाः
दिशो ययुर्जलार्थं ते वर्जयित्वोत्तरां दिशम्
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः
कृतां बैन्दुसरै रत्नैर् मयेन स्फाटिकच्छदाम्
अपश्यं नलिनीं पूर्णाम् उदकस्येव भारत
उत्कर्षन्तं च वै वासः प्राहसन्मां वृकोदरः
किङ्कराश्च सभापाला जहसुर्भरतर्षभ
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम्
तत्र त्म यदि शक्तस्स्यां घातयेयं वृकोदरम्
सपत्नेनापहासो हि स मां दहति भारत
तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम्
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप
तत्र मामहसद्भीमस् सह पार्थेन सस्वरम्
द्रौपदी च सह स्त्रीभिः पातयन्ती मनो मम
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम
अस्तम्भा इव तिष्ठन्ति स्तम्भाश्शतसहस्रशः
सोहं तत्राहतो राजन् स्फटिकाभ्यन्तरे विभो
अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः
आमृशन्नियतं दृष्ट्वा मार्गान्तरमुपाविशम्
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप
इदं द्वारमिदं राजन् न द्वारमिति मां प्रति
अग्रतः प्रहसन् वाक्यं बभाषे स वृकोदरः
सर्वं हासकरं तेषां सदस्यानां नरर्षभ
न श्रुतानि न दृष्टानि यानि रत्नानि मे क्वचित्
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः
हुताशनं प्रवेक्ष्यामि प्रविशे वा महोदधिम्
सम्भावितस्य चाकीर्तिर् मरणादतिरिच्यते
इदं चाद्भुतमत्रासीत् तन्मे कथयतश्शृणु
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा
स्थापिता तत्र सञ्ज्ञाऽभूत् छङ्खोऽध्मायत नित्यशः
मुहुर्मुहुः प्रणदतस् तस्य शङ्खस्य नित्यशः
उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन्
पार्थिवैर्बहुभिः कीर्णम् उपस्थानं दिदृक्षुभिः
सर्वरत्नान्युपादाय महार्हाणि जनेश्वर
यज्ञे तस्य महाभाग पाण्डवेयस्य धीमतः
वैश्या इव महीपाला द्विजातिपरिवेषकाः
न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा
गुह्यकाधिपतेर्वाऽपि या श्री राजन् युधिष्ठिरे
राक्षसाधिपतेर्वाऽपि या श्री राजन् युधिष्ठिरे
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम्
शान्तिं न परिगच्छामि दह्यमानेन चेतसा
अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते
अवाप्स्ये वा रणं बाणैश् शयुष्ये वा हतः परैः
अतादृशस्य मे किं नु जीवितेन परन्तप
वर्धन्ते पाण्डवा राजन् वयं हि स्थितवृद्धयः
शकुनिः-
यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे
तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम
अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्
आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम्
वैशम्पायनः-
एवमुक्तश्शकुनिना राजा दुर्योधनस्तदा
धृतराष्ट्रं तदा वाक्यं मन्दधीरिदमब्रवीत्
दुर्योधनः-
अयमुत्सहते राजञ्श् रियमाहर्तुमक्षवित्
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि
धृतराष्ट्रः-
क्षत्ता मन्त्री महाप्राज्ञस् स्थितो यस्यास्मि शासने
तेन सङ्गम्य वेत्स्यामि कार्याकार्यविनिश्चयम्
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हि नः
उभयोः पक्षयोः पथ्यं वक्ष्यत्यर्थं विनिश्चयात्
दुर्योधनः-
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति
निवृत्ते त्वयि राजेन्द्र मरिष्यामि न संशयः
स त्वं मयि मृते राजन् विदुरेण सुखी भव
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि
वैशम्पायनः-
आर्तवाक्यं तु तत् तस्य प्रणयोक्तं निशम्य सः
दुर्योधनस्य शान्त्यर्थं धृतराष्ट्रोऽन्वशात् तदा
धृतराष्ट्रः-
स्थूणासहस्रैर्महतीं शतद्वारां सभां मम
मनोहरां दर्शनीयाम् आशु कुर्वन्तुं शिल्पिनः
ततस्त्वास्तीर्य रत्नैस्ताम् अक्षानावाय्य सर्वशः
संस्कृतां सुप्रवेशां च निवेदयत मा चिरम्
वैशम्पायनः-
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै
अपृष्ट्वा विदुरं ह्यस्य नासीत् कश्चिद्विनिर्णयः
द्यूते दोषांश्च जानन् स पुत्रस्नेहादकृष्यत
तच्छ्रुत्वा विदुरो धीमान् कलिद्वारमुपस्थितम्
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत्
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत्
विदुरः-
नाभिनन्दामि ते राजन् व्यवसायमिमं प्रभो
द्यूतहतोर्हि ते भेदस् सुतानां भवति ध्रुवम्
धृतराष्ट्रः-
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः
मयि सन्निहिते चैव भीष्मे च भरतर्षभे
अनयो नैव विहितो नयस्सम्प्रभविष्यति
अशुभं वा शुभं वाऽपि हितं वाऽप्यथवाऽहितम्
प्रवर्ततां सुहृद्द्यूतं दिष्टमेतदसंशयम्
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे
खाण्डवप्रस्थमद्यैव युधिष्ठिरमिहानय
न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते
दैवमेव परं मन्ये येनैतदुपपद्यते
वैशम्पायनः-
इत्युक्तो विदुरो धीमान् नैतदस्तीति चिन्तयन्
आपगेये महाप्राज्ञे सर्वमेतन्निवेदयत्