वैशम्पायनः-
वसन् दुर्योधनस्तत्र सभायां पुरुषर्षभ
शनैर्ददर्श तां सर्वां सभां शकुनिना सह
तस्यां दिव्यानभिप्रायान् ददर्श कुरुनन्दनः
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये
स कदाचित् सभामध्ये धार्तराष्ट्रो महीपतिः
ततस्स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्
सभां पुष्करिणीं मत्वा सहसा प्रापतज्जले
जले निपतितं मत्वा किङ्करा जहसुर्भृशम्
तस्य चान्यानि वासांसि पर्ददू राजशासनात्
तत्रैवं द्रौपदी राजन् भीमसेनश्च पाण्डवः
अर्जुनश्च यमौ चैव दृष्ट्वा चापहसंस्तदा
ततोऽन्यस्मिन् सभोद्देशे पुनर्दुर्योधनो नृपः
स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया
स्ववस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः
तत्राप्येतं जनो दृष्ट्वा जहसुः पाण्डवास्तदा
वलभीं विकृताकारां ललटेन समाहनत्
संवृतं चेति मन्वानो द्वारदेशादपागमत्
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम्
आरुरोह ततस्सर्वे जहसुः किङ्करा भृशम्
ततो नामर्पयत् तेषां सोऽपहासममर्षितः
रक्षन्नाकारमत्यर्थं समन्तात् समवैक्षत
एवं प्रलम्भान् विविधान् प्राप्य तत्र विशाम्पते
पाण्डवैरभ्यनुज्ञातो जगाम नगरं प्रति
न तुष्टो धर्मराजस्य यज्ञमासाद्य तं तदा
जगाम स्वगृहं त्वन्यान् ऋते दुर्योधनो नृपः
दृष्ट्वा यज्ञविभूतिं तां पाण्डवानां यशस्विनाम्
पश्यतो दुःखदीनस्य पापा बुद्धिरजायत
पार्थान् सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्
लोकं च तद्गतं दृष्ट्वा विवर्णस्समजायत
महिमानं परं चापि दृष्ट्वा तेषां यशस्विनाम्
दूर्योधनः पापबुद्धिः पर्यतप्यत मन्युना
स तु गच्छन्ननेकाग्नस् सभामेकोऽन्वचिन्तयत्
श्रियं च तामनुपमां धर्मराजस्य धीमतः
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा
नाभ्यभाषत् सुबलजं भाषमाणं पुनः पुनः
शकुनिः-
तं च दुर्मनसं दृष्ट्वा शकुनिः प्रत्यभाषत
दुर्योधन कृतोमूलं निःश्वसन्निव तिष्ठसि
दुर्योधनः-
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशे स्थिताम्
देवर्षियक्षगन्धर्वास् तत्रागच्छन्ति नित्यशः
कृष्णस्तु दुर्मनास्तेषां विवर्धयति सम्पदः
आतुरास्तत्र नीयन्ते व्यवहारवचोऽधिकाः
गजानां तत्र गच्छन्ति विक्रेतारो महाप्रभाः
खरोष्ट्राश्वाजड्गानां विक्रेतारस्तथा नृपाः
लोकेऽस्मिन् कौरवश्शब्दस् तत्रैव परिवर्तते
हरिप्रस्थपुरद्वारं सदा तु निबिडीकृतम्
रथहस्त्यश्वयानानां रोहणेन सुदारुणम्
निघ्नतोऽरीन् प्रतापेन श्वेताश्वस्य महात्मनः
तं च यज्ञं तथारूपं दृष्ट्वा पार्थस्य मातुल
यथा शक्रस्य देवानां ईश्वरस्य तथाविधम्
अमर्षेण सुसम्पूर्णो दह्यमानो दिवानिशम्
शुष्यते हृदयं मेऽद्य ग्रीष्मे तोयमिवाल्पकम्
पश्य सात्वतमुख्येन शिशुपालं निपातितम्
न च तत्र पुमानासीत् कश्चित् तस्य वशानुगः
दह्यमाना महेश्वासा अध्वरे पाण्डवाग्निना
क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति
वासुदेवेन तत् कर्म यथाऽयुक्तं महत् कृतम्
सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम्
तथा हि रत्नान्यादाय विविधानि नराधिपाः
उपातिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः
तां तथा ज्वलितां दृष्ट्वा श्रियं मातुल पाण्डवे
अमर्षवशमापन्नो दह्येयमतथोचितः
सोऽहमग्निं प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्
अपो वाऽपि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्
को हि नाम पुमाँल्लोके मर्षयेत तथागतान्
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मान एव च
सोऽहं नास्मि न नाप्यस्मि न स्त्री च पुनः पुमान्
योऽहं तां मर्षयाम्यद्य श्रियं तस्मिन्नशक्तितः
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्
यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत्
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्
सहायांश्च न पश्यामि तेन मृत्युमचिन्तयम्
दैवमेव परं मन्ये पौरुषं च निरर्थकम्
दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामहृतां नयात्
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम्
तेन दैवं परं मन्ये पौरुषं च निरर्थकम्
धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम्
अमर्षवशमापन्नं धृतराष्ट्रे निवेदय
शकुनिः-
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्
भागधेयानि हि स्वानि पाण्डवास्समुपाश्नुते
तथाऽप्युपायैर्बुभिस् समारब्धास्त्वयाऽसकृत्
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैस्सह
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान्
अजितस्सोऽपि सवैर्हि सदेवासुरमानुषैः
तत्तेजसा प्रवृद्धोऽसौ तत्र का परिदेवना
लब्धश्च नभिभूतोऽर्थः प्रियांशश्च महीपते
प्रवृवृद्धस्तेजसा तेषां तत्र का परिदेवना
धनञ्जयेन गाण्डीवम् अक्षय्यौ च महेषुधी
लब्धान्यस्त्राणि चोग्राणि तर्पयित्वा हुताशनम्
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
कृता वशे महीपालास् तत्र का परिदेवना
अग्निदाहान्मयं नाम मोक्षयित्वा च दानवम्
सभां तां कारयामास सव्यसाची परन्तपः
तेनैव दत्ता दैत्येन किङ्करा नाम राक्षसाः
वहन्ति तां सभां भीमास् तत्र का परिदेवना
यच्चासहायतां राजन्नुक्तवानसि भारत
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः
द्रोणस्तव महेष्वासस् सह पुत्रेण वीर्यवान्
सूतपुत्रश्च राधेयो दृढं मित्रं महारथः
स एकस्समरे सर्वान् पाण्डवान् सहसोमकान्
विजेष्यति महाबाहो किं सहायैः करिष्यसि
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः
जयद्रथश्च बलावान् कृतास्त्रो दृढधन्वकः
अहं च सह सोदर्यैस् सौमदत्तिश्च कौरव
एतैस्त्वं सहितस्सर्वैर् जय सर्वां वसुन्धराम्
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः
एकाह्नाहं विजेष्यामि यदि त्वमनुमन्यसे
एतेषु विजितेष्वद्य भविष्यति मही तव
सर्वे च पृथिवीपालास् सभा सा च महाधना
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः
नकुलस्सहदेवश्च द्रुपदश्च सहात्मजैः
नैते युधि बलाज्जेतुं शक्यास्सुरगणैरपि
महारथा महेष्वासाः कृतास्त्रा युधि दुर्मदाः
अहं तु तत्र जानामि विजेतुं येन शक्यते
युधिष्ठिरं तु राजेन्द्रं तन्निबोध जनेश्वर॥
दुर्योधनः-
अप्रमादेन शत्रूणां अन्येषां च महीक्षिताम्
यथा शक्ष्यति तं जेतुं तन्ममाचक्ष्व मातुल
शकुनिः-
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्
समाहूतश्च पार्थोऽत्र न शक्ष्यति निवर्तितुम्
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय
अनक्षकुशलाद्राज्यम् आदास्यामि न संशयः
तां श्रियं महतीं चापि त्वदर्थं पुरुषर्षभ
इदं हि सर्वं राज्ञे त्वं दुर्योधन निबोधय
अनुज्ञातस्तु ते पित्रा विजेष्यामि न संशयः
दुर्योधनः-
त्वमेव धृतराष्ट्रस्य करुमुख्याय मातुल
निवेदय यथाकामं नाहं शंसितुमुत्सहे