वैशम्पायनः-
अनुसंसाध्य नृपतीन् पाण्डवाः पाण्डवाग्रजम्
अभिजग्मुर्महेष्वासं धर्मराजं युधिष्ठिरम्
सोऽनुमेने महाबाहुर् भातॄंश्च सुहृदस्तथा
शिष्यैः परिवृतो व्यासः पुरस्तात् समपद्यत
सोऽभ्युत्थायासनात् तूर्णं भ्रातृभिः परिवारितः
पाद्येनासनदानेन पितामहमपूजयत्
अथोपविश्य भगवान् काञ्चने परमासने
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम्
अथोपविष्टं राजानं भ्रातृभिः परिवारितम्
उवाच भगवान् व्यासस् तत्र वाक्यविशारदः
व्यासः-
कौन्तेय वर्धसे दिष्ट्या साम्राज्यं प्राप्य दुर्लभम्
पालिताः कुरवस्सर्वे त्वया कुरुकुलोद्वह
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते
वैशम्पायनः-
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत्
युधिष्ठिरः-
संशयो द्विपदां श्रेष्ठ ममोत्पन्नस्सुदुर्वचः
तस्येह नान्यो वक्ताऽस्ति त्वामृते द्विजपुङ्गव
उत्पातांस्त्रिविधान् प्राह नारदो भगवानृषिः
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह
सुमहच्च फलं तेषां भवितेति न संशयः’
अपि चैद्यस्य पतनाच् छान्तमौत्पातिकं भवेत्
वैशम्पायनः-
व्यासः-
राज्ञस्तद्ववचनं श्रुत्वा पराशरसुतः प्रभुः
चतुर्दश समा राजन्नुत्पातानां महत् फलम्
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत्
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते
त्वामेव कारणं कृत्वा कालेन भरतर्षभ
समेतं पार्थिवं क्षत्रं क्षयं यास्यति पार्थिव
दुर्योधनापराधेन भीमार्जुनबलेन च
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन् काल उपस्थिते
तत् तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर
यं च द्रक्ष्यसि राजेन्द्र क्षपान्ते गोवृषध्वजम्
नीलकण्ठं भवं स्थाणुं त्रिपुरान्तकरं हरम्
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम्
शिवं शर्वं भवं शूलिं पिनाकिं कृत्तिवाससम्
कैलासकूटप्रतिमे वृषभे निष्ठितं शिवम्
निरीक्षमाणं सततं पितृराजाश्रितां दिशम्
एवं त्वमीदृशं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते
मा च तेऽभूद्व्यथा राजन् कालो हि दुरतिक्रमः
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति
अप्रमत्तोत्थितो दान्तः पृथिवीं परिपालय
वैशम्पायनः-
एवमुक्त्वा तु भगवान् कैलासं पर्वतं ययौ
कृष्णद्वैपायनो व्यासस् सह शिष्यैस्सहानुगैः