वैशम्पायनः-
ततस्स कुरुराजस्य तदा सर्वसमृद्धिमान्
यज्ञः प्रीतिकरो राजन् सम्बभौ विपुलोत्सवः
शान्तविघ्नसमारम्भः प्रभूतधनधान्यवान्
अन्नवांश्चापि निर्वृत्तः केशवेनाभिरक्षितः
तस्य यज्ञं महाबाहुर् आसमाप्तेर्जनार्दनः
ररक्ष भगवाञ्छौरिश् शङ्खचक्रगदाधरः
समापयत तदा राजा राजसूयं यथाविधि
कोटीसहस्रं प्रददौ ब्राह्मणानां महात्मनाम्
न करिष्यति तं लोके कश्चिदन्यो महीपतिः
याजकास्सर्वकामैश्च सततं ततृपुर्धनैः
ततश्चावभृथस्नातस् स राजा पाण्डुनन्दनः
व्यासं धौम्यं च प्रयतो नारदं च महामतिम्
सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च
याज्ञवल्क्यं कठं चैव कपालं कलापं च महौजसम्
सर्वांश्च विप्रप्रवरान् पूजयामास सत्कृतान्
युधिष्ठिरः-
युष्मत्प्रसादात् प्राप्तोऽयं राजसूयो महाक्रतुः
जनार्दनप्रभावाच्च सम्पूर्णो मे मनोरथः
वैशम्पायनः-
अथ यज्ञं समाप्यान्ते पूजयामास माधवम्
बलदेवं च देवेशं भीष्माद्यांश्च कुरूत्तमान्
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम्
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत्
राजानः-
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान् प्रभो
आजमीढाजमीढानां यशस्संवर्धितं त्वया
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान् कृतः
आपृच्छामो नरव्याघ्र सर्वकामैश्च पूजिताः
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि
वैशम्पायनः-
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः
यथार्हं पूज्य नृपतीन् भ्रातॄन् सर्वानुवाच ह
युधिष्ठिरः-
राजानस्सर्व एवैते प्रीत्याऽस्मान् समुपागताः
प्रस्थितास्स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः
तेऽनुप्रयात भद्रं वो विषयान्तं नृपोत्तमान्
वैशम्पायनः-
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः
यथार्हं नृपमुख्यांस्तान् एकैकं समनुव्रजन्
धनञ्जयो जयत्सेनं सहामात्यं सबान्धवम्
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम्
सञ्जयं च महात्मानं भीमसेनः प्रतापवान्
द्रोणं द्रोणायनिं चैव सामात्यं ससुहृद्गणम्
कृपं च बाह्लिकं चैव सहदेवा महामतिः
शल्यं तु ससुतं वीरं सात्यकिं परवीरहा
भगदत्तं च राजानं कौसलं च बृहद्बलम्
विराटं चान्वयात् तूर्णं धृष्टद्युम्नः प्रतापवान्
भीष्मकं सहपुत्रेण मातुलं च महामतिम्
दाक्षिणात्यांश्च सर्वांश्च हैडिम्बस्समनुव्रजत्
द्रौपदेयास्ससौभद्रा पार्वतीयान् महीपतीन्
अन्वगच्छंस्तथैवान्यान् पार्थिवान् कुरवोऽपरे
एवं नृपाः पूजितास्ते जग्मुर्विप्राश्च सर्वशः
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ
युधिष्ठिरस्सहामात्यः प्रविवेश पुरोत्तमम्
कृतार्थं पाण्डवं दृष्ट्वा सिंहासनगतं नृपम्
रोचमानं महेन्द्राभं वासुदेवोऽब्रवीद्बली
श्रीभगवान्-
वैशम्पायनः-
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम्
युधिष्ठिरः-
तव प्रसादाद्गोविन्द प्राप्वानस्मि वै क्रतुम्
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम्
उपादाय बलिं मुख्यं मामेव समुपस्थितम्
ते वयं त्वामृते वीर न रंस्यामः कथञ्चन
अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी
वैशम्पायनः-
एवमुक्तस्तु गोविन्दो युधिष्ठिरसहायवान्
अभिगम्याब्रवीद्वीरः पृथां पृथुयशा विभुः
श्रीभगवान्-
साम्राज्यं समनुप्राप्ताः पुत्रस्तेऽद्य पितृष्वसः
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे
वैशम्पायनः-
एवमुक्त्वा ततश्शौरिर् भगिनीं वै पितुुस्तदा
सुभद्रां द्रौपदीं चैव सभाजयत केशवः
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान्
स्नातश्च कृतजप्यश्च ब्राह्मणान् स्वस्ति वाच्य च
ततो मेघवरप्रख्यं स्यन्दनं च सुकल्पितम्
योजयित्वा महाराज दारुकः समुपस्थितः
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्
युधिष्ठिरकिरीटिभ्यां दत्तहस्तो ययौ रथम्
प्रदक्षिणमुपावृत्य समारुह्य महामनाः
दारुकस्य करं गृह्य तत्रोच्चतलमाविशत्
सुखास्तरणसंवीतं सोपधानं गवाक्षितम्
प्रययौ पुण्डरीकाक्षस् ततो द्वारवतीं पुरीम्
सात्यकिः कृतवर्मा च रथमारुह्य सत्वरौ
वीजयामासतुस्तत्र चामराभ्यां हरिं तथा
बलदेवश्च देवेशो यादवाश्च सहस्रशः
प्रययू राजवत् सर्वे धर्मपुत्रेण पूजिताः
ततस्स सम्मतं राजा हित्वा सौवर्णमानसम्
ततः पद्भ्यामनुप्रायाद् धर्मराजो युधिष्ठिरः
भ्रातृभिस्सहितश्श्रीमान् वासुदेवं महाबलम्
कार्यमानुषरूपं वै विष्णुं सर्वगुरुं प्रभुम्
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं विभुः
अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्
श्रीभगवान्-
अप्रमत्तस्स्थितो नित्यं प्रजाः पाहि विशाम्पते
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः
वैशम्पायनः-
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ
अन्योन्यं समनुज्ञाय प्रत्ययात् कुरुनन्दनः
पुनर्द्वारवतीं कृष्णस्सात्वतप्रवरे नृप
युधिष्ठरो महाराज प्रविवेश पुरं ततः
दुर्योधनो महाराज शकुनिश्च परन्तपः
सूतपुत्रश्च राधेयस् सह दुःशासनादिभिः
सर्वकामगुणोपेतैर् अर्च्यमानास्तु भारत
सभायां रमणीयायाम् अवसंस्तत्र पाण्डवैः