वैशम्पायनः-
महद्विष्पारयन् राजा ततश्चेदिपतिर्धनुः
अभियास्यन् हृषीकेशम् उवाच मधुसूदनम्
शिशुपालः-
एकस्त्वमसि मे शत्रुस् तत् त्वां हत्वाऽद्य माधव
ततस्सागरपर्यन्तां पालयिष्यामि मेदिनीम्
द्वैरथं काङ्क्षितं यन्मे तदिदं पर्युपस्थितम्
चिरस्य वत मे दिष्ट्या वासुदेव सह त्वया
अद्य त्वां निहनिष्येऽहं भीष्मं च सह पाण्डवैः
वैशम्पायनः-
एवमुक्त्वा स तं बाणैर् निशितैरात्ततेजनैः
विव्याध युधि तीक्ष्णाग्रैश् चेदिराड्यदुपुङ्गवम्
कङ्कपत्रच्छदा बाणाश् चेदिराजधनुश्च्युताः
विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम्
नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा
ददृशुस्तेऽन्तरं केचिद् गतिं वायोरिवाम्बरे
चेदिराजमहामेघश् शरजालाम्बुमांस्तदा
अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम्
ततश्शार्ङ्गममित्रघ्नं कृत्वा सशरमच्युतः
आबभाषे महाबाहुः सुनीथं परवीरहा
श्रीभगवान्-
अयं त्वां मामकस्तीक्ष्णश्चेदिराज महाशरः
भेत्तुमर्हति वेगेन महाशनिरिवाचलम्
वैशम्पायनः-
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः
मुमोच निशितानन्यान्कृष्णं प्रति शरान् बहून्
अथ बाणार्दितः कृष्णश् शार्ङ्गमायम्य दीप्तिमान्
मुमोच निशितान् बाणाञ् छतशोथ सहस्रशः
ताञ्छरांस्तु स चिच्छेद शरवर्षैश्च चेदिराट्
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः
ततोऽस्त्रं सहसा कृष्णः प्रमुमोच जगत्पतिः
अस्त्रेणैव महाबाहुर् नाशयामास चेदिराट्
ततश्शतसहस्रेण शराणां नतपर्वणाम्
सर्वतस्समवाकीर्य शौरिं दामोदरं तदा
ननाद बलवान् क्रुद्धश् शिशुपालः प्रतापवान्
इदं चोवाच सङ्क्रुद्धः केशवं परवीरहा
शिशुपालः-
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे
हत्वा त्वां ससुतामात्यान् पाण्डवांश्च तरस्विनः
आनृण्यमद्य यास्यामि जरासन्धस्य धीमतः
कंसस्य केशिनश्चैव नरकस्य तथैव च
वैशम्पायनः-
इत्युक्त्वा क्रोधताम्राक्षश् शिशुपालो जनार्दनम्
अदृश्यश्शरवर्षेण सर्वतस्समवाकिरत्
ततोऽस्त्रेणैव भगवान् अकृन्तत शरान् बहून्
निकृत्य च शरान् सर्वान् अन्तर्धातुं प्रचक्रमे
अन्तर्धानगतौ वीरौ शुशुभाते महाबलौ
साधु साध्विति भूतानि पूजयामासुरम्बरे
न दृष्टपूर्वमस्माभिर् युद्धमीदृशकं पुरा
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिश्शरैः
कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि
ततस्सुनीथस्सप्तत्या नाराचैरर्दयद्बली
ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः
विव्याध निशितैर्बाणैर् वासुदेवं स्तनान्तरे
पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः
ततोऽतिदारुणं युद्धं सहसा चक्रतुश्शरैः
तौ नखैरिव शार्दूलौ दन्तैरिव गजोत्तमौ
दंष्ट्राभिरिव पञ्चास्यौ तणडुकैरिव कुक्कुटौ
दारयेतां शरैस्तीक्ष्णैर् अन्योन्यं युधि तावुभौ
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम्
शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम्
आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान्
वारुणेनास्त्रयोगेन नाशयामास केशवः
कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह
कौबेरेणैव सहसाऽनाशयत् तं जगत्प्रभुः
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत्
गान्धर्वेण च गान्धर्वं मानवं मानवेन च
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः
ऐन्द्रमैन्द्रेण भगवान् वैष्णवेन च वैष्णवम्
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ
ततो मायां विकुर्वाणो दमघोषसुतो बली
गदामुसलवर्षं तच् छक्तितोमरसायकान्
परश्वथमुसण्डीश्च पातयामास चेदिराट्
अमोघास्त्रेण भगवान् व्यनाशयत केशवः
शिलावर्षं महाघोरं पातयामास केशवे
वज्रास्त्रेणाभिसङ्क्रुद्धश् चूर्णं तदकरोत् प्रभुः
जलवर्षं ततो घोरं व्यसृजच्चेदिपुङ्गवः
वायव्यास्त्रेण भगवान् व्याक्षिपच्छतशो हि तत्
निहत्य सर्वमायां वै सुनीथस्य जनार्दनः
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट्
दमघोषसुतो धृष्टम् उवाच यदुनन्दनम्
अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने
मुमोच पुरुषव्याघ्रो घोरमास्थाय तद्वपुः
शरसङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः
रुधिरं परिसुस्राव सोऽतीव पुरुषोत्तमः
न यन्ता न रथो वाऽपि न चाश्वाः पर्वतोपमाः
दृश्यन्ते शरसञ्छन्ना अविग्नमभवज्जगत्
केशवं तदवस्थं तु दृष्ट्वा भूतानि चुक्रुशुः
दारुकः-
दारुकस्तु तदा प्राह केशवं परवीरहा
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो यादृशो मया
स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन
वैशम्पायनः-
इति सञ्चिन्त्य गोविन्द क्षिप्रमेव वधं कुरु
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत्
एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा
रिपुस्सुराणां दैत्येन्द्रो वरदानेन गर्वितः
अथाऽऽसीद्रावणो नाम राक्षसेन्द्रोऽतिवीर्यवान्
तेनैव बलवीर्येण बलं नागणयन्मम
अहं मृत्युश्च भविता काले काले दुरात्मनः
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते
वैशम्पायनः-
इत्येवमुक्त्वा भगवान् ननर्द गरुडध्वजः
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः
सम्मोहयित्वा भगवांश् चक्रं दिव्यं समाददे
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे
स पपात महाबाहुर् वज्राहत इवाचलः
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः
उत्पतन्तं तदा राजन् धनान्तादिव भास्करम्
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्
स्तुत्यं त्रैलोक्यवन्द्यं तम् अस्तोतारमजं विभुम्
ववन्दे तत्तदा तेजो विवेश च नराधिप
तदद्भुतं च ददृशुस् सर्व एव महीक्षितः
यद्विवेश महाबाहुं तत् तेजः पुरुषोत्तमम्
अनभ्रा प्रववर्ष द्यौः पपात ज्वलिताऽशनिः
कृष्णेन निहते चैद्ये चचाल च वसुन्धरा
ततस्सर्वे महीपाला नाब्रुवंस्तत्र किञ्चन
तदा सङ्क्रुद्धमनसः प्रेक्षमाणा जनार्दनम्
रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षणाः
अपरे दशनैरोष्ठं ददंशुः क्रोधमूर्छिताः
केचिदेव सुसङ्क्रुद्धा मध्यस्थास्त्वपरेऽब्रुवन्
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः
ये देवगन्धर्वगणा राजानो भुवि विश्रुताः
ते प्रणामं हृषीकेशे प्रकुर्वन्ति महात्मनि
ये त्वासुरगणान् पक्षान् सम्भूताः क्षत्रिया इह
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः
प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः
केचित् स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः
परस्परं च नृत्यन्ति गीतेन विविधेन च
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि
प्रहृष्टाः केशवं जग्मुस् संस्तुवन्तो महर्षयः
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः
पाण्डवस्त्वब्रवीद्भ्रातॄन् सत्कारेण महीपतिम्
दमघोषात्मजं शूरं संस्कारयत मा चिरम्
कुरुराजवचश्श्रुत्वा भ्रातरस्ते त्वरान्विताः
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा
चेदीनामाधिपत्ये च पुत्रमस्य महीपतेः
अभ्यषिञ्चत् तदा पार्थस् सहितैर्वसुधाधिपैः