वैशम्पायनः-
ततो न ममृषे चैद्यस् तद्भीष्मवचनं तदा
उवाचेदं सुसङ्क्रुद्धस् स भीष्मं पुनरुत्तरम्
शिशुपालः-
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः
यस्य संस्तववक्ता त्वं बन्दिवत् सततोत्थितः
संस्तवाय मनो भीष्म परेषां रमते यदि
तदा संस्तुहि राज्ञस्त्वम् इमं हित्वा जनार्दनम्
वरदं स्तुहि बाह्लीकम् इमं पार्थिवसत्तमम्
जायमानेन येनेयम् अभवद्दारिता मही
त्वमङ्गविषयाध्यक्षं सहस्राक्षसमं बले
स्तुहि कर्णमिमं भीष्म महाचापविचक्षणम्
यस्यैते कुण्डले दिव्ये सहजे देवनिर्मिते
सहजं कवचं चाङ्गे बालार्कसदृशप्रभम्
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ
स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ
तयोरन्यतरं भीष्म न च संस्तोतुमिच्छसि
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्
इमां वसुमतीं कुर्यान्निश्शेषामिति मे मतिः
नाश्वत्थाम्नस्समं भीष्म न च तौ स्तोतुमिच्छसि
पृथिव्यां सागरान्तायां यो वै प्रीतिकरोऽभवत्
दुर्योधनं त्वं राजेन्द्रम् अतिक्रम्य महाभुजम्
जयद्रथं च राजानं कृतास्त्रं दृढधन्विनम्
द्रुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम्
अतिक्रम्य महावीर्यं माधवं किं प्रशंससि
वृद्धं च भरताचार्यं कृपं शारद्वतं तथा
अतिक्रम्य महात्मानं किं प्रशंससि गोपजम्
भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम्
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्
भगदत्तं यूपकेतुं जयत्सेनं च मागधम्
शल्यप्रभृतिकान् हि त्वं न स्तौषि वसुधाधिपान्
स्तवाय यदि ते बुद्धिर् मन्यते भीष्म सर्वदा
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्
आत्मनिन्दाऽऽत्मपूजा च परनिन्दा परस्तवः
अनाचरितमार्याणाम् इति ते भीष्म न श्रुतम्
यतस्तत इमं शश्वद् गोपं संस्तोतुमिच्छसि
केशवं तच्च ते भीष्म न कश्चित् साधु मन्यते
कथं भोजस्य पुरुषे वत्सपाले दुरात्मनि
समावेशयसे सर्वं जगत् केशवकाम्यया
अथ चैषा न ते भक्तिः प्रकृतिं याति भारत
तेनैवं वन्दिवत् स्तौषि श्रुतमन्येन नश्श्रुतम्
न गाथा गाथिनं शास्ति बहु चेदपि गायति
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा
कुलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे
भीष्म तस्यास्सदा वाचस् श्रूयन्तेऽर्थविगर्हिताः
मा साहसमितीदं सा सततं वाशते किल
साहसं चात्मना भीष्म कुर्वती नावबुध्यते
सा हि मांसार्गलं भीष्म मुखात् सिंहस्य भारत
दन्तान्तरविलग्नं यत् तदादत्तेऽल्पचेतना
इच्छतस्सा हि सिंहस्य भीष्म जीवत्यसंशयम्
तद्वत् त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम्
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः
वैशम्पायनः-
ततश्चेदिपतेश्श्रुत्वा भीष्मस्स कटुकं वचः
उवाच वचनं धीमाञ् चेदिराजस्य शृण्वतः
भीष्मः-
इच्छतां किल नामाहं जीवाम्येषां महीभृताम्
योऽहं न गणयाम्येतांस् तृणवत् सर्वपार्थिवान्
वैशम्पायनः-
एवमुक्ते तु भीष्मेण ततस्सञ्चुक्रुशुर्नृपाः
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे
केचिदूचुर्महेष्वासास् श्रुत्वा भीष्मस्य यद्वचः
राजानः-
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्
हन्यतां दुर्मतिर्भीष्मः पशुवत् साध्वयं नृपैः
समेत्य सर्वैः पापात्मा दह्यतां वा कटाग्निना
वैशम्पायनः-
इति तेषां वचश्श्रुत्वा ततः कुरुपितामहः
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान्
भीष्मः-
उक्तस्योक्तस्य चैवान्तं नाहं समुपलक्षये
यत्तु वक्ष्यामि तत् सर्वं शृणुध्वं वसुधाधिपाः
पशुवद्घातनं वा मे दहनं वा कटाग्निना
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सव्यक्तं पदम्
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरीश्वरः
यस्य च त्वरते बुद्धिर् मरणाय तु वो नृपाः
कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम्
यादवस्यैव देवस्य देहं विशतु पातितः
वैशम्पायनः-
वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः
युयुत्सुर्देवदेवं तं वासुदेवमुवाच ह
शिशुपालः-
आह्वये त्वां रणायैहि मया सह जनार्दन
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः
स च भीष्मो हि मे वध्यः पाण्डवाः कृष्ण सर्वशः
नृपतीन् समतिक्रम्य यैरराजा त्वमर्चितः
यो हि गोपमराजानं समतिक्रम्य पार्थिवान्
अनर्च्यमर्च्ययत्येवं स वध्य इति मे मतिः
वैशम्पायनः-
इत्युक्त्वा राजशार्दूल `शार्दूल इव नादयन्
पश्यतां सर्वभूतानां शिशुपालः प्रतापवान्
स रणायैव सङ्क्रुद्धस् सन्नद्धस्सर्वराजभिः
सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया
ततश्चक्रगदापाणिः केशवः केशिहा हरिः
सुस्वरं रथमास्थाय दारुकेण सुसत्कृतम्
भीष्मेण दत्तहस्तोऽसौ युद्धाय समुस्थितः
तेन पापस्वभावेन कोपितान् सर्वपार्थिवान्
आससाद तदा कृष्णस् सज्जितैकरथे स्थितः
ततः पुष्करपत्राक्षं गरुडध्वजमच्युतम्
दिवाकरमिवोद्यन्तं ददृशुस्सर्वपार्थिवाः
दृष्ट्वा कृष्णमथायान्तं प्रतपन्तमिवौजसा
स्थितं पुष्परथे दिव्ये पुष्पकेतुमिवापरम्
यथार्हं केशवे वृत्तिम् अवशाः प्रतिपेदिरे
तानुवाच महाबाहुर् महासुरनिबर्हणः
वृष्णिवीरस्तदा राजन् सान्त्वयन् परवीरहा
श्रीभगवान्-
अपेत सबलास्सर्व आश्वस्ता मम शासनात्
मा दुष्टो दूषयेत् पाप एष वै सर्वपार्थिवान्
एष नश्शत्रुरत्यन्तम् एष वृष्णिविमर्दनः
सात्वतां सात्वतीपुत्रो वैरं चरति शाश्वतम्
प्राग्ज्योतिषवधे यातान् अस्माञ्ज्ञात्वा नृशंसकृत्
अदहद्द्वारकामेष स्वस्त्रीयस्सन्नराधिपाः
क्रीडतो भोजराजन्यान् एष रैवतके गिरौ
गत्वा हत्वा च बध्वा च स्वपुरं तानथानयत्
अश्वमेधे हयं मेध्यम् उत्सृष्टं रक्षिभिर्वृतम्
अपाहरत् पापबुद्धिः पुरा यज्ञजिघांसया
सौभराट्प्रतिपत्तौ च बभ्रोरेष तपस्विनः
भार्यामभ्यहरत् पापात् अकामां धर्मतो गताम्
एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम्
जहार भार्यां वैशालीं मातुलस्य नृशंसकृत्
वृष्णिदारान् विलाप्यैष हत्वा च कुकुरान्धकान्
पापाबुद्धिरुपातिष्ठत् स प्रविश्य ससम्भ्रमम्
विशालराज्ञो दुहितां मम पित्रा वृतां सतीम्
अनेन कृत्वा सन्धानं करूशेन जिहीर्षया
जरासन्धं समाश्रित्य कृतवान् विप्रियाणि मे
तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः
एवमेतदपर्यन्तम् एष वृष्णिषु किल्बिषी
अस्माकमयमारम्भांश् चकार परमानृजुः
शतं क्षन्तव्यमस्माभिर् वधार्हाणां किलागसाम्
बद्धोऽस्मि समयैर्घोरैर् मातुरस्यैव सङ्गरे
तत् तथा शतमस्माकं क्षान्तं क्षयकरं मया
द्वौ तु मे वधकालेऽस्मिन् न क्षन्तव्यौ कथञ्चन
यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम्
इति मे वर्तते भावस् तमतीयां कथं न्वहम्
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्
दिष्ट्या त्विदं सर्वराज्ञां सन्निधावद्य वर्तते
पश्यन्तु हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्
कृतानि तु परोक्षं मे यानि तानि निबोधत
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्
अवलेपाद्वधार्हस्य समग्रे राजमण्डले
रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः
न चैनां प्राप्तवान् मूढश् शूद्रो वेदश्रुतिं यथा
वैशम्पायनः-
एवमादि ततस्सर्वे वस्तरेण नराधिपाः
गर्हणं शिशुपालस्य वासुदेवेन शुश्रुवुः
वासुदेववचश्श्रुत्वा प्राद्रवन् सर्वपार्थिवाः
विहाय परमोद्विग्नाश् चेदिराजं चमूमुखे
स तांस्तु विद्रुतान् सर्वान् साश्वपत्तिरथद्विपान्
तदा तद्वृष्णिवीरेण त्रासितानुरुविक्रमान्
कृष्णतेजोहतान् सर्वान् समीक्ष्य वसुधाधिपान्
शिशुपालो रथेनैकः प्रत्युपायात् स केशवम्
रुषा ताम्रेक्षणो राजञ् छलभः पावकं यथा