शिशुपालः-
त्वामहं हंसधर्माणं ये चान्ये वसुधाधिपाः
निहन्म भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम्
केशवेन कृतं यत्तज् जरासन्धवधे तदा
भीमसेनार्जुनाभ्यां च कस्तत् साध्विति पश्यति
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना
दृष्स्स्वभावः कृष्णेन जरासन्धस्य धीमतः
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता
प्रेषितं पाद्यमग्रे तद् दातुमस्मै दुरात्मने
भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः।
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम्
स चायं जगतः कर्ता यथैनं भीष्म मन्यसे
कस्मान्न ब्राह्मणं सम्यग् आत्मानमवगच्छसि
स मे बहुमतो राजा जरासन्धो नराधिपः
योऽनेन युद्धं नेयेष गोपाल इति संयुगे
इदं चाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया
अपकृष्टास्सतां मार्गान्मन्यन्ते तच्च साध्विति
अथवा नैतदाश्चर्यं येषां त्वमसि भारत
स्त्रीसधर्माऽपविद्धश्च सर्वार्थानां प्रदर्शकः
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते
भूयः कोपात् सुसंरक्ते सम्बभूवतुरक्षिणी
त्रिशिखां भ्रकुटीं चास्य ददृशुस्सर्वपार्थिवाः
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव
दन्तान् सन्दशतस्तस्य कोपाद्ददृशुराननम्
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः
उत्पतन्नात्मवेगेन जग्राहैनं मनस्विन्
भीष्म एव महाबाहुर् महासेनमिवेश्वरः
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत
गुरोर्बहुविधैर्वाक्यैः क्रोधः प्रशमनं ययौ
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः
समुद्भूतो घनापाये वेलामिव महोदधिः
शिशुपालस्तु सङ्क्रुद्धे भीमसेने परन्तपे
नाकम्पत महाबाहुः पौरुषे महति स्थितः
उत्पपातात्मवेगेन पुनः पुनररिन्दमः
न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्
भीमसेनमभिक्रुद्धं मत्वा भीमपराक्रमम्
शिशुपालः-
मुञ्चैनं भीष्म यावच्च पश्यन्तु वसुधाधिपाः
मत्प्रपातेन निर्दग्धं पतङ्गमिव वह्निना
वैशम्पायनः-
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः
भीष्मः-
नैषा चेदिपतेर्बुद्धिर् यया त्वाऽह्वयतेऽच्युतम्
भीमसेन महाबाहो कृष्णस्यैष विनिश्चयः
चेदिराजकुले जातस् त्र्यक्ष एष चतुर्भुजः
रासभारावसदृशं रुराव च ननाद च
तेन शब्देन वित्रस्तौ पितरौ सह बान्धवौ
वैकृतं तच्च तौ दृष्ट्वा त्यागायाकुरुतां मतिम्
ततस्सभार्यं तु नृपं सामात्यं सपुरोहितम्
चिन्तासम्मूढहृदयं वागुवाचाशरीरिणी
एष ते नृपते पुत्रश् श्रीमाञ्जातो महाबलः
तस्मादस्मान्न भेतव्यम् अव्यग्रं पाल्यतां शिशुः
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः
एतस्य मृत्युरुत्पन्नश् शस्त्रेणैनं हनिष्यति
तच्छ्रुत्वोदाहृतं वाक्यं भूतेनान्तर्हितेन सा
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत्
येनेदमीरितं वाक्यं ममेमं तनयं प्रति
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः
महद्बलं महद्भूतम् इत्युक्त्वा पुनरुत्तरम्
श्रोतुमिच्छामि तत्त्वेन कोऽस्य मृत्युर्भविष्यति
ततस्तैः खेचरैर्भूतैर् उत्तरं समुदाहृतम्
येनोत्सङ्गगृहीतस्य भुजावभ्यधिकावुभौ
पतिष्यतस्तु सम्भग्नौ सोऽस्य मृत्युर्भविष्यति
यस्योत्सङ्गगृहीतस्य तदेवाक्षि ललाटजम्
निमज्जिष्यति संस्पृष्टे सोऽस्य मृत्युर्भविष्यति
त्र्यक्षं चतुर्भुजं श्रुत्वा एतच्च समुदाहृतम्
धरण्यां पार्थिवास्सर्वे तत्राजग्मुर्दिदृक्षवः
तान्पूजयित्वा सम्प्राप्तान् यथार्हं प्रतिपूज्य च
एकैकस्य नृपस्याङ्के पुत्रमारोपयत् ततः
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्
शिशुरङ्के समारूढो न तत् प्राप निदर्शनम्
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्ततः
तौ दामघोषं राजानम् अभिवाद्य यथाक्रमम्
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपांश्च तान्
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः
पुत्रं दामोदरोत्सङ्गे देवी सा सन्न्यधात् स्वयम्
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ
पेततुस्तच्च नयनं न्यममज्ज ललाटजम्
तद्दृष्ट्वा व्यथिता देवी वरं कृष्णमयाचत
ददस्व मे वरं कृष्ण भयार्ताया महाभुज
त्वं ह्यार्तानां समाश्वासो भीतानामभयङ्करः
पितृष्वसारं मा भैषीर् इत्युवाच जनार्दनः
कृष्णः-
ददामि कं वरं देवि किं वा कार्यं पितृष्वसः
शक्यं वा यदि वाऽशक्यं करिष्यामि वचस्तव
भीष्मः-
देवी-
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्
क्षमस्व शिशुपालस्य आपराधं महाबल
भीष्मः-
इत्युक्तः पुणडरीकाक्षः प्रत्युवाच महाबलः
कृष्णः-
भीष्मः-
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः
एवमेतत् पुरावृत्तं शिशावस्मिन् वृकोदर
स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम्
तेन त्वामाह्वच्चैद्यो गोविन्दवरदर्पितः
नैषा चेदिपतेर्बुद्धिर् यया त्वा ह्वयतेऽच्युतम्
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः
को हि मां भीमसेनान्यः क्षेप्तुमर्हति पार्थिवः
क्षितावेवं परीतात्मा यथैष कुलपांसनः
एष ह्यस्य महाबाहुस् तेजोंशश्च हरेर्ध्रुवम्
तमेव पुनरादातुं कुरुतेऽत्र मतिं हरिः
तेनैव कुरुशार्दूल शार्दूल इव चेदिराट्
गर्जत्यतीव दुर्बद्धिस् सर्वानस्मानचिन्तयन्