शिशुपालः-
बिभीषिकाभिर्बह्वीभिर् भीषयन् भीष्म पार्थिवान्
न ह्यपत्रपसे कस्माद् वृद्धस्सन् कुलपांसनः
युक्तमेतत् तृतीयायां प्रकृतौ तिष्ठता त्वया
वक्तुं वचनसम्पन्नस् त्वं हि सर्वकुरूत्तमः
नावि नौरिव बद्धा स्याद् यथाऽन्धो वाऽन्धमन्वियात्
तथाभूता हि कौरव्या भीष्म एषां त्वमग्रणीः
अपि वृद्धस्य मूर्खस्य केशवं स्तोतुमिच्छतः
कथं भीष्म न ते जिह्वा शतधा विप्रशीर्यते
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः
त्वया प्रशंसताऽस्माकं भूयस्सञ्चलितं मनः
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः
तमिमं ज्ञानवृद्धस्सन् गोपं त्वं स्तोतुमिच्छसि
यद्यनेन हतो बाल्ये शकुनिश्चित्रमत्र किम्
तौ वाऽश्ववृषभौ वीरौ यौ न युद्धविशारदौ
चेतनारहितं काष्ठं यद्यनेन निपातितम्
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम्
अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ
नागश्च पातितोऽनेन तत्र को विस्मयः कृतः
वल्मीकमात्रस्सप्ताहं धारितो यद्यनेन सः
तदा गोवर्धनो भीष्म न तु मे विस्मितं मनः
भुक्तमेतेन बह्वन्नं क्रीडितं नागमूर्धनि
इति ते श्रवणाद्भीष्म परं विस्मयमागताः
मतिमन्तो न शंसन्ति सज्जना धर्मिणस्सदा
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसा
स चानेन हतः कंसः किं पापमधिकं ततः
न ते श्रुतमिदं भीष्म ज्ञानं कथयतां सताम्
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम
स्त्रीषु गोषु न चास्त्राणि पातयेद्ब्राह्मणेषु च
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणं गतः
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणस्सदा
भीष्म सङ्कथितं सर्वं वितथं तव चेश्वरे
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम
अजानत इवाख्यासि संस्तुवन् कौरवाधम
गोघ्नः स्त्रीघ्नश्च ते भीष्म कथं संस्तवमर्हति
असौ मतिमतां श्रेष्ठो य एष जगतः पतिः
आत्मानमात्मनाऽधातुं यदि शक्तो जनार्दनः
अकामयन्तं तं भीष्म कथं साध्विति पश्यसि
न गाथा गाथिनं शास्ति पठतिति न कारणम्
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा
नूनं प्रकृतिरप्येषा जघन्या नात्र संशयः
नदीसुतत्वात् ते चित्तं चञ्चलं न स्थिरं स्मृतम्
वृत्तिः पापीयसी चैषां पाण्डवानामपीष्यते
येषामर्च्यतमः कृष्णस् त्वं च येषां प्रदर्शकः
धर्मवानित्यधर्मज्ञस् सतां मार्गादवप्लुतः
को हि धर्मिणमात्मानं जानञ् ज्ञानविदां वरः
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना
गृहीतपाणिधर्मेण राज्ञा साल्वेन धीमता
अम्बा नामाथ भद्रं ते कथं साऽपहृता त्वया
यां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्नृपः
भ्राता विचित्रवीर्यस्ते सतां धर्ममनुस्मरन्
दारयोग्यस्य चान्येन मिषतः प्राज्ञमानिनः
उत्पादितान्यपत्यानि सज्जनाचरिते पथि
नात्र धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा
यद्धारयसि मोहात् त्वं क्लीबत्वाच्च न संशयः
न त्वहं तव धर्मज्ञ पश्यामि विनयं क्वचित्
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम्
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्
सर्वं तदनपत्यस्य मोघं भवति निश्चयः
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्
हंसवत् त्वमपीदानीं ज्ञातिभ्यो ह्याप्नुया वधम्
एवं हि कथयन्त्यन्ये नरा धर्मविदः पुरा
भीष्म यत् तदहं सम्यग् वक्ष्यामि भवते शृणु
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत् पुरा
धर्मवागन्यथावृत्तः पक्षिणस्त्वनुशास्ति च
धर्मं चरत माऽधर्मम् इति तस्य वचः किल
पक्षिणश्शुश्रुवुर्भीष्म सततं धर्मवादिनः
हंसस्य तद्वचश्श्रुत्वा मुदितास्सर्वपक्षिणः
ऊचुश्चैनं खगा हंसं परिवार्य च सर्वशः
पक्षिणः-
कथयस्व भवान् सर्वं पक्षिणां तत् समासतः
को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्ममुत्तमम्
हंसः-
प्रजास्वहिंसा धर्मो वै हिंसाऽधर्मः खगव्रजाः
एतदेवानुबोद्धव्यं धर्माधर्मस्समासतः
शिशुपालः-
वृद्धहंसवचश्श्रुत्वा पक्षिणस्ते सुसंहिताः
ऊचुश्च धर्मलुब्धास्ते स्मयमाना इवाण्डजाः
पक्षिणः-
पक्षिणः-
हंसः-
धर्मं यः कुरुते नित्यं लोके सद्वृत्तिमास्थितः
स गच्छेत् सर्वलोकान् वै तथा वै नियतं खगाः
धर्मं यः कुरुते नित्यं लोके धीरतरोऽण्डजः
स यत्र गच्छेद्धर्मात्मा तन्नो ब्रूहीह तत्त्वतः
ज्ञात्वा हि धर्माधर्म च नित्यं लोके द्विजोत्तम
दुर्लभं स्वर्गलोकं तु तं कस्मात् त्वं न गच्छसि
हंसः-
बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः
धर्मं यः कुरुते लोके सततं शुभबुद्धिना
न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः
स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः
शिशुपालः-
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम्
पक्षिणश्शुश्रुवुर्भीष्म सततं धर्ममेव ते
अाजह्रुस्तस्य ते भक्ष्यं समुद्रजलचारिणः
अण्डजा ह्यथ विश्वस्य धर्मस्थोऽयमिति स्थिताः
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः
समुद्राम्भसि मोदन्ते चरन्तो भीष्म पक्षिणः
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्
स हंसस्सम्प्रमत्तानाम् अप्रमत्तस्स्वकर्मणि
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः
अशङ्कत महाप्राज्ञस् तं कदाचिद्ददर्श ह
ततो गतेषु हंसेषु सर्वेषु चरितुं तदा
स्थित आत्मानमावृत्य तं कदाचिद्दर्श ह
ततस्सकथयामास दृष्ट्वा हंसस्य किल्बिषम्
तेषां परमदुःखार्तस् स पक्षी सर्वपक्षिणाम्
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह
एते त्वां हंसधर्माणम् अपीमे वसुधाधिपाः
निहन्युस्तीक्ष्णशस्त्रेण पक्षिणस्तमिवाण्डजम्
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः
भीष्म यां तां च ते सम्यक् कथयिष्यामि भारत
अन्तरात्मा विनिहतो रौषि पत्ररथैर्मिथः
अण्डभक्षाद्यशुचि ते कर्म वाचमतीहते