वैशम्पायनः-
एवमुक्त्वा ततो भीष्मो विरराम महायशाः
व्याजहारोत्तरं तत्र सहदेवोऽर्थतत्त्ववित्
सहदेवः-
केशवं केशिहन्तारम् अप्रमेयमरिन्दमम्
सर्वलोकेश्वरं कृष्णं विज्ञाय पुरुषोत्तमम्
तमिमं सर्वसम्पन्नम् आचार्यं पितरं गुरुम्
अर्च्यमर्चितमस्माभिस् सर्वे सम्मन्तुमर्हथ
यो वा न सहते राज्ञां कश्चित् सबलवाहनः
क्षिप्रं युद्धाय निर्यातु शक्तश्चेदत्र मे युधि
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः
तस्य मूर्ध्नि सुसन्न्यस्तं राज्ञस्सव्यं पदं मया
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः
वैशम्पायनः-
स एव हि मया वध्यो भविष्यति न संशयः
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे
ततोऽपतत् पुष्पवृष्टिस् सहदेवस्य मूर्धनि
अदृश्यदेहा वाचश्च साधु साध्विति चाब्रुवन्
अाविध्यदजिनं हृष्टो भविष्यद्भूतजल्पकः
सर्वसंशयनिर्मोक्ता नारदस्सर्वधर्मवित्
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः
नारदः-
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः
जीवन्मृतास्तु ते ज्ञेया न सम्भाष्याः कदाचन
वैशम्पायनः-
तत्राहूतागतास्सर्वे सुनीथप्रमुखा नृपाः
प्रत्यदृश्यन्त सङ्क्रुद्धा विवर्णाः क्रोधमूर्छिताः
युधिष्ठिराभिषेकं च कृष्णे पूजां च तादृशीम्
व्यब्रुवंस्तत्र राजानो निर्विवेदात्मनिश्चयात्
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ
आमिषादपकृष्टानां सिंहानामिव गर्जताम्
तं बलौघमपर्यन्तं राजसागरमव्ययम्
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा
पूजयित्वा च पूजार्हं ब्रह्मक्षत्रं विशेषतः
सहदेवो विशेषज्ञस् समापयत कर्म तत्
तस्मिन्नभ्यर्चिते कृष्णे सुनीथश्शत्रुकर्शनः
अतिताम्रेक्षणः कोपाद् उवाच मनुजाधिपान्
शिशुपालः-
स्थितस्सेनापतिर्वोऽहं मर्षयध्वं किमीदृशम्
युधि तिष्ठाम सन्नह्य समेतान् वृष्णिपाण्डवान्
वैशम्पायनः-
तथा सर्वान् समुच्चार्य नृपतींश्चेदिपुङ्गवः
यज्ञोपघातं पार्थानाम् आमन्त्रयत राजभिः
वैशम्पायनः-
ततस्सागरसङ्काशं दृष्ट्वा नृपतिसागरम्
रोषात् प्रचलितं सर्वम् इदमाह युधिष्ठिरः
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम्
प्रजापतिं बृहत्तेजाश् शतक्रतुरिवारिहा
युधिष्ठिरः-
असौ रोषात् प्रचलितो महान् नृपतिसागरः
अत्र यत् प्रतिपत्तव्यं तन्मे ब्रूहि पितामह
यज्ञस्य च न विघ्नस्स्यात् प्रजानां च शिवं च नः
यथा हि पूर्ववत् सर्वं ब्रूहि मह्यं पितामह
वैशम्पायनः-
इत्युक्तवति धर्मिष्ठे धर्मराजे युधिष्ठिरे
उवाचेदं वचः काले भीष्मः कुरुपितामहः
भीष्मः-
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति
शिवः पन्थास्तु भीमोऽत्र मया पूर्वतरं वृतः
प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः
भषेयुस्सहितास्सर्वे तथैव वसुधाधिपाः
वृष्णिसिंहस्य सुप्तस्य तथेमेऽभिमुखास्स्थिताः
भषन्ते चाषसङ्काशा असिंहास्सिंहसन्निधौ
न हि सम्बुध्यते यावत् सुप्तस्सिंह इवाच्युतः
तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छतः
तेन सिंहीकरोत्येष असिंहश्चेदिपुङ्गवः
पार्थिवान् पार्थिवाध्यक्ष शिशुपालोऽल्पचेतनः
सर्वान् सर्वात्मना तात नेतुकामो यमक्षयम्
नूनमेतत् समादातुं पुनरिच्छत्यधोक्षजः
यदत्न शिशुपालस्थं तेजस्तिष्ठति भारत
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम्
आदातुं पुण्डरीकाक्ष एष इच्छति यं सदा
तस्य विप्लवते बुद्धिर् एवं चेदिपतेर्यथा
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः
प्रभवश्चैव भूतानां निधनं च युधिष्ठिर
वैशम्पायनः-
इति तस्य वचः श्रुत्वा तथा चेदिपतिर्नृपः
भीष्मं रूक्षातरां वाचं श्रावयामास भारत