भीष्मः-
द्वारकायां ततः कृष्णस् स्वदारेषु दिवानिशम्
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः
पौत्रस्य कारणाच्चक्रे विबुधानां हितं तदा
सावसवैस्सुरैस्सर्वैर् दुष्करं भरतर्षभ
बाणो नामाभवद्राजा बलेर्ज्येष्ठसुतो बली
वीर्यवान् भरतश्रेष्ठ स च बाहुसहस्रवान्
ततश्चक्रे तपस्तीव्रं सत्येन मनसा नृप
रुद्रमाराधयामास स च बाणस्समा बहु
तस्मै बहुवरा दत्ताश् शङ्करेण महात्मना
तस्माल्लब्ध्वा वरान् बाणो दुर्लभान् ससुरैरपि
स शोणितपुरे राज्यं चकाराप्रतिमो बली
त्रासिताश्च सुरास्सर्वे तेन बाणेन पाण्डव
विजित्य विबुधान् सर्वान् सेन्द्रान् बाणस्समा बहु
अशासत महद्राज्यं कुबेर इव भारत
क्रुद्ध्यर्थं कुरुते यत्नं तस्य चैवोशना कविः
ततो राजन्नुषा नाम बाणस्य दुहिता यथा
रूपेणाप्रतिमा लोके मेनकायास्सुता यथा
अथोपायेन कौन्तेय अनिरुद्धो महाद्युतिः
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा
गृहीत्वा कारयामास वस्तुं कारागृहे बलात्
सुकुमारस्सुखार्होऽथ तदा दुःखमवाप सः
बाणेन खेदितो राजन्ननिरुद्धो मुमोह च
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत्
नारदः-
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन
त्वत्पौत्रो बाध्यमानोऽथ बाणेनामिततेजसा
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा
भीष्मः-
एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ
नारदस्य वचश्श्रुत्वा ततो राजञ्जनार्दनः
आहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम्
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः
ततस्सुपर्णमारुह्य त्रयस्ते पुरुषर्षभाः
अथासाद्य महाराज तत्पुरीं ददृशुश्च ते
जग्मुः क्रुद्धा महावीर्या बाणस्य नगरं प्रति
ताम्रप्राकार संवीतां रूप्यद्वारैश्च शोभिताम्
हेमप्रासादसम्बाधां मुक्तामणिविचित्रिताम्
उद्यानवनसम्पन्नां नृत्तगीतैश्च शोभिताम्
तोरणैः पक्षिभिः कीर्णां पुष्करिण्या च शोभिताम्
तां पुरीं स्वर्गसङ्काशां हृष्टपुष्टजनाकुलाम्
दृष्ट्वा मुदा युतां हैमां विस्मयं परमं ययुः
तस्य बाणपुरस्यासन् द्वारस्था देवतास्सदा
महेश्वरो गुहश्चैव भद्रकाली च पावकः
एता वै देवता राजन् ररक्षुस्तां पुरीं सदा
अथ कृष्णो बलाज्जित्वा द्वारपालान् युधिष्ठिर
सुसङ्क्रुद्धो महातेजाश् शङ्खचक्रगदाधरः
आससादोत्तरद्वारं शङ्करेणाभिपालितम्
तत्र तस्थौ महातेजाश् शूलपाणिर्महेश्वरः
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम्
महेश्वरो महाबाहुः कृष्णाभिमुखमाययौ
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ
तद्युद्धमभवद्घोरम् अचिन्त्यं रोमहर्षणम्
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ
दिव्यास्त्राणि च तौ देवौ क्रुद्धौ मुमुचतुस्तदा
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना
विजित्य तं महादेवं ततो युद्धे जनार्दनः
अन्यांश्च जित्वा द्वारस्थान् प्रविवेश पुरोत्तमम्
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः
चक्रे युद्धं महाक्रुद्धस् तेन बाणेन पाण्डवः
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ
सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे
पुनरुद्यम्य शस्त्राणां सहस्रं सर्वबाहुभिः
मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे
ततः कृष्णस्तु सञ्छिद्य तानि सर्वाणि भारत
कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः
चक्रमुद्यम्य राजन् वै दिव्यं शस्त्रोत्तमं ततः
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः
ततो बाणो महाराज कृष्णेन भृशपीडितः
भिन्नबाहुः पपाताशु विशाख इव पादपः
स पातयित्वा बालेयं बाणं कृष्णस्त्वरान्वितः
प्राद्युम्निं मोक्षयामास क्षिप्रं कारागृहे तदा
मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया
बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः
गोधनान्यथ सर्वस्वं स बाणस्यालये बलात्
जहार च हृषीकेशो यदूनां कुलवर्धनः
ततस्स सर्वरत्नानि चाहृत्य मधुसूदनः
क्षिप्रमारोपयाञ्चक्रे तत् सर्वं गरुडोपरि
त्वरयाऽथ स कौन्तेय बलदेवं महाबलम्
प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम्
उषां च सुन्दरीं राजन् भृत्यदारगणैस्सह
सर्वानेतान् समारोप्य रत्नानि विविधानि च
मुदा युक्तो महातेजाः पीताम्बरधरो बली
दिव्याभरणचित्राङ्गश् शङ्कचक्रगदासिभृत्
आरुरोह गरुत्मन्तम् उदयं भास्करो यथा
अथारुह्य सुपर्णं स प्रययौ द्वारकां प्रति
प्रविश्य स्वपुरं कृष्णो यादवैस्सहितस्ततः
प्रमुमोद तदा राजन् स्वर्गस्थो वासवो यथा
सूदिता मौरवाः पाशा निसुम्भनरकौ हतौ
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति
शौरिणा पृथिवीपालास् त्रासिता भरतर्षभ
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम्
रुक्मिणं त्रासयामास केशवो भरतर्षभ
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा
उवाह महिषीं भोज्याम् एष चक्रगदाधरः
जारूथ्य आहृतक्रोधश् शिशुपालश्च निर्जितः
वक्रश्च सह शैब्येन शतधन्वा च क्षत्रियः
इन्द्रद्युम्नो हतः क्रोधाद् यवनश्च कशेरुकः
हतस्सौभपतिस्साल्वस् सहैव क्रथधन्वना
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः
विभिद्य पुण्डरीकाक्षो द्युमत्सेनमयोधयत्
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ
जग्राह भरतश्रेष्ठ वरुणस्याभितश्चरौ
इरावत्यामुभौ चेतौ अग्निसूर्यसमौ बले
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना
अक्षप्रपत्तने चैव नेमिहंसपथेषु च
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ
दग्धा वाराणसी तात केशवेन महात्मना
सानुबन्धस्सराष्ट्रश्च काशीनामृषभो हतः
प्राग्ज्योतिषं पुरश्रेष्ठम् असुरैर्बहुभिर्वृतम्
प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः
अजेयो दुष्प्रधर्षश्च लोकपालो महाद्युतिः
इन्द्रद्वीपो महेन्द्रेण गुप्तो मघवता स्वयम्
पारिजातो हृतः पार्थ केशवेन बलीयसा
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः
जघान सहितान्सर्वानङ्गराजं च माधवः
एष चैकशतं हत्वा रथेन क्षत्रपुङ्गवान्
गान्धारीमवहत् कृष्णो महिषीं यादवर्षभः
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः
जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः
द्रोणं द्रौणिं कृपं कर्णंं भीमसेनं सुयोधनम्
चक्रानुयाने सहिताञ् जिगाय भरतर्षभ
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः
वेणुदारिहृतां भार्याम् उन्ममाथ युधिष्ठिर
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
वेणुदारिवशे युक्तां जिगाय मधुसूदनः
अवाप्य तपसा वीर्यं बलमोजश्च भारत
त्रासितास्सगणास्सर्वे बाणेन विबुधाधिपाः
वज्राशनिगदापाशैस् त्रासयद्भिरनेकशः
तस्य नासीद्रणे मृत्युर् देवैरपि सवासवैः
सोऽभिभूतश्च कृष्णेन निहतश्च महात्मना
छित्वा बाहुसहस्रं तद् गोविन्देन महात्मना
एष पीठं महाबाहुः कंसं च मधुसूदनः
पैठकं चातिलोमानं निजघान जनार्दनः
जम्भमैरावतं चैव विरूपं च महायशाः
जघान भरतश्रेष्ठ शम्बरं चारिमर्दनम्
एष भोगवतीं गत्वा वासुकिं भरतर्षभ
निर्जित्य पुण्डरीकाक्षो रौहिणेयममोचयत्
एवं बहूनि कर्माणि शिशुरेव जनार्दनः
कृतवान् पुण्डरीकाक्षस् सङ्कर्षणसहायवान्
एवमेषोऽसुराणां च सुराणां चापि सर्वशः
भयाभयकरः कृष्णस् सर्वलोकेश्वरः प्रभुः
एवमेष महाबाहुश् शास्ता सर्वदुरात्मनाम्
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते
एष भोगवतीं रम्यां ऋषीकान्तां महायशाः
द्वारकामात्मसात् कृत्वा सागरं गमयिष्यति
बहुपुण्यवतीं रम्यां चैत्ययूपवतीं शुभाम्
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम्
तां सूर्यसदनप्रख्यां मनोज्ञां शार्ङ्गधन्वना
विश्लिष्टां वासुदेवेन सागरः प्लावयिष्यति
सुरासुरमनुष्येषु नाभून्न भविता क्वचित्
यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात्
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः
तज्जुष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः
एवमेव दशार्हाणां विधाय विधिना विधिम्
विष्णुर्नारायणस्सोमस् सूर्यश्च सविता स्वयम्
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी
मोदते भगवान् भूतैर् बालः क्रीडनकैरिव
नैष गर्भत्वमापेदे न योन्यामावसत् प्रभुः
आत्मनस्तेजसा कृष्णस् सर्वेषां कुरुते गतिम्
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते
चराचराणि भूतानि तथा नारायणे सदा
न प्रमातुं महाबाहुश् शक्यो भारत केशवः
परं ह्यपरतस्तस्माद् विश्वरूपान्न विद्यते