भीष्मः-
शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः
द्वारकां भगवान् कृष्णः प्रत्यपद्यत केशवः
प्रत्यपद्यत यानानि रत्नानि च बहूनि च
यथार्हं पुण्डरीकाक्षो नैर्ऋतान् प्रतिपालयन्
तत्र विघ्नं चरन्ति स्म दैतेयास्सह दानवैः
ताञ्जघान महाबाहुर् वरमत्तान् महासुरान्
स विघ्नमकरोत् तत्र नरको नाम नैर्ऋतः
त्रासनस्सुरसङ्घानां विदितो वः प्रभावतः
स भूभ्यां मूर्तिलिङ्गस्थस् सर्वदेवासुरान्तकः
मानुषाणामृषीणां च प्रतीपमकरोत् तदा
त्वष्टुर्दुहितरं भौमः कशेरुमगमत् तदा
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम्
प्रमथ्य च जहारैतां हृत्वा च नरकोऽब्रवीत्
नष्टशोकभयाबाधः प्रा्ज्योतिषपतिस्तदा
नरकः-
यानि देवमनुष्येषु रत्नानि विविधानि च
बिभर्ति च मही कृत्स्ना सागरेषु च यद्वसु
अद्यप्रभृति तद्देवि सहितास्सर्वनैर्ऋताः
तवैववोपहरिष्यन्ति दैत्याश्च सह दानवैः
भीष्मः-
एवमुक्तमरत्नानि बहूनि विविधानि च
स जहार तदा भौमस् स्त्रीरत्नानि च भारत
गन्धर्वाणां च याः कन्या जहार नरको बलात्
याश्च देवमनुष्याणां सप्त चप्सरसां गणाः
चतुर्दशसहस्राणां चैकविंशच्छतानि च
एकवेणीधरास्सर्वास् सतां मार्गमनुव्रताः
तासामन्तःपुरं भौमोऽकारयन्मणिपर्वते
औदकायामदीनात्मा पुरस्य विषयं प्रति
ताश्च प्राग्ज्योतिषो राजा मुरस्य दश चात्मजाः
नैरृताश्च यथा मुख्याः पालयन्त उपासते
स एष तपसां पारे वरदत्तो महीसुतः
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर
न चासुरगणैस्सर्वैस् सहितैः कर्म तत् पुरा
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्
विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः
त्रासनास्सुरसङ्घानां विरूपै राक्षसैस्सह
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तथा
मुरः पुत्रसहस्रैश्च वरदत्तो महासुरः
तद्वधार्थं महाबाहुर एष चक्रगदासिभृत्
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः
तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः
निवासो द्वारकायां तु विदितो वः प्रधानतः
अतीव हि पुरी रम्या द्वारका वासवक्षयात्
अति वै राजते पृथ्व्यां प्रत्यक्षं ते युधिष्ठिर
तस्मिन् देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया
या दाशार्हेति विख्याता योजनायतविस्तृता
तत्र वृष्ण्यन्धकास्सर्वे रामकृष्णपुरोगमाः
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः
ततस्सूर्यसहस्राभस् तेजोराशिर्महाद्भुतः
मुहूर्तमन्तरिक्षेऽभूत् ततो भूमौ प्रतिष्ठितः
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः
वृतो देवगणैस्सर्वैर् वासवः प्रत्यदृश्यत
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैस्सह
उत्पत्य सहसा तस्मै नमस्कारमकुर्वत
सोऽवतीर्य गजात् तूर्णं परिष्वज्य जनार्दनम्
सस्वजे बलदेवं च राजानं च तमाहुकम्
वासुदेवोद्धवौ चैव विकद्रुं च महामतिम्
प्रद्युम्नसाम्बनिशठान् अनिरुद्धं ससात्यकिम्
गदं सारणमक्रूरं कृतवर्माणमेव च
चारुदेष्णं सुदेष्णं च अन्यानपि यथोचितम्
पिरिष्वज्य च दृष्ट्वा च भगवान् भूतभावनः
वृष्ण्यन्धकमहामात्रान् परिष्वज्याथ वासवः
प्रगृह्य पूजां तैर्दत्ताम् उवाचावनताननः
इन्द्रः-
अदित्या चोदितः कृष्ण तव मात्राऽहमागतः
कुण्डलेऽपहृते तात भौमेन नरकेण च
निदेशशब्दवाचस्त्वं लोकेऽस्मिन् मधुसूदन
तस्माज्जहि महाभाग भूमिपुत्रं नरेश्वर
भीष्मः-
तमुवाच महाबाहुः प्रीयमाणो जनार्दनः
निर्जित्य नरकं भौमम् आहरिष्यामि कुण्डले
एवमुक्त्वा तु गोविन्दो राममेवाभ्यभाषत
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले
एतांश्चोक्त्वा तथा तत्र वासुदेवो महायशाः
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत्
ययौ तदा हृषीकेशो देवानां हितकाम्यया
तं प्रयान्तममित्रघ्नं देवास्सहपुरन्दराः
पृष्ठतोऽनुययुः प्रीतास् स्तुवन्तो विष्णुमच्युतम्
सोऽग्र्यान् रक्षोगणान् हत्वा नरकस्य महासुरान्
क्षुरान्तान् मौरवान् पाशान् षट्सहस्रं ददर्श सः
सञ्छिद्य पाशांस्त्वस्त्रेण मुरं हत्वा सहान्वयम्
शैलसङ्घानतिक्रम्य निसुम्भमवपोथयत्
यस्सहस्रसमस्त्वेकस् सर्वान् देवानयोधयत्
तं जघान महावीर्यं हयग्रीवं महाबलम्
अपारतेजा दुर्धर्षस् सर्वयादवनन्दनः
मध्ये लोहितगङ्गायां भगवान् देवकीसुतः
औदकायां विरूपाक्षं जघान भरतर्षभ
पञ्च पञ्चजनान् घोरान् नरकस्य महासुरान्
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया
पुरमासादयामास तत्र युद्धमवर्तत
महद्दैवासुरं युद्धं यद्वृत्तं भतर्षभ
युद्धं न स्यात् समं तेन लोकविस्मयकारकम्
चक्रलाङ्गलसञ्छन्नाश् समासाद्य जनार्दनम्
अष्टौ शतसहस्राणि दानवानां परन्तप
निहत्य पुरुषव्याघ्रः पातालविवरं ययौ
त्रासनं सुरसङ्घानां नरकं पुरुषोत्तमः
योधयत्यतितेजस्वी मधुवन्मधुसूदनः
तद्युद्धमभवद्घोरं तेन भौमेन भारत
कुण्डलार्थे सुरेशस्य नरकेण महात्मना
मुहूर्तं लालयित्वाऽथ नरकं मधूसूदनः
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली
चक्रप्रमथितं तस्य पपात सहसा भुवि
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा
भूमिस्तु पतितं दृष्ट्वा ते वै प्रादाच्च कुण्डले
प्रदाय च महाबाहुम् इदं वचनमब्रवीत्
भुमिः-
सृष्टस्त्वयैव मधुहंस् त्वयैव निहतः प्रभो
यथेच्छसि तथा क्रीडन् प्रजास्तस्यानुपालय
श्रीभगवान्-
देवानां च मुनीनां च पितॄणां च महात्मनाम्
उद्वेजनीयो भूतानां ब्रह्मद्विट् पुरुषाधमः
लोकद्विष्टस्सुतस्ते तु देवारिर्लोककण्टकः
सर्वलोकनमस्कार्याम् अदितिं बाधते बली
कुण्डले दर्पसम्पूर्णस् ततोऽसौ निहतोऽसुरः
नैव मन्युस्त्वया कार्यो यत् कृतं मयि भामिनि
मत्प्रभावाच्च ते पुत्रो लब्धवान् गतिमुत्तमाम्
तस्माद्गच्छ महाभागे भारावतरणं कृतम्
भीष्मः-
निहत्य नरकं भौमं सत्यभामासहायवान्
सहितो लोकपालैश्च ददर्श नरकालयम्
अथास्य गृहमासाद्य नारकस्य महात्मनः
ददर्श धनमक्षय्यं रत्नानि विविधानि च
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च
विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि
जाम्बूनदमयान्येव शातकुम्भमयानि च
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्
तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु
न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः
दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि
हते भौमे निसुम्भे च वासवस्सगणोऽब्रवीत्
इन्द्रः-
दाशार्हपतिमासीनम् आहृत्य मणिकुण्डले
इमानि मणिरत्नानि विविधानि वसूनि च
हेमसूत्रा महाकक्ष्यास् तोमरैर्वीर्यशालिनः
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः
विमलाभिः पताकाभिर् वासांसि विविधानि च
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः
गोभिश्चाविकृतैर्यानैः कामं तव जनार्दन
अविकानि च सूक्ष्माणि शयानान्यासनानि च
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः
चन्दनागरुमिश्राणि यानानि विविधानि च
तच्च ते प्रापयिष्यामि वृष्ण्यावासमरिन्दम
वसु यत्त्रिषु लोकेषु धर्मेणावर्जितं त्वया
एतत्ते प्रापयिष्यामि वृष्ण्यावासमरिन्दम
भीष्मः-
देवगन्धर्वरत्नानि दैतेयासुरजानि च
यानि सन्तीह रत्नानि नरकस्य निवेशने
एतत् तु गरुडे सर्वं क्षिप्रमारोप्य वासवः
दार्शार्हपतिना सार्धम् उपायान्मणिपर्वतम्
तत्र पुण्या ववुर्वाताः प्रभाश्चित्रास्समुज्ज्वलाः
प्रेक्षतां सुरसङ्घानां विस्मयस्समपद्यत
त्रिदशा ऋषयश्चैव चन्द्रादित्यौ यथा दिवि
प्रभया तस्य शैलस्य निर्विशेषभिवाभवत्
अनुज्ञातस्तु रामेण वासवेन च केशवः
प्रीयमाणो महाबाहुर् विवेश मणिपर्वतम्
तत्र वैडूर्यवर्णानि ददर्श मधुसूदनः
सतोरणपताकानि द्वाराणि शरणानि च
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः
हेमचित्रवितानैश्च प्रासादैरुपशोभितः
हर्म्याणि च विशालानि मणिसोपानवन्ति च
तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम्
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम्
परिवव्रुर्महाबाहुम् एकवेणीधरास्स्त्रियः
सर्वाः काषायवासिन्यस् सर्वाश्च नियतेन्द्रियाः
व्रतसन्तापजश्शोको नात्र काश्चिदपीडयत्
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः
कन्यकाः-
नारदेन समाख्यातम् अस्माकं पुरुषोत्तम
आगमिष्यति गोविन्दस् सुरकार्यार्थसिद्धये
सोऽसुरं नरकं हत्वा निसुम्भं मुरमेव च
भौमं च सपरीवारं हयग्रीवं च दानवम्
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम्
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति
एवमुक्त्वाऽगमद्धीमान् देवर्षिर्नारदस्तथा
त्वां चिन्तयानास्सततं तपो घोरमुपास्महे
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम्
इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम
तपश्चराम सततं रक्ष्यमाणा हि दानवैः
गान्धर्वेण विवाहेन विवाहं कुरु नः प्रियम्
ततोऽस्मत्प्रियकामार्थं भगवान् मारुतोऽब्रवीत्
यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति
भीष्मः-
तासां परमनारीणामृषभाक्षं पुरस्कृतम्
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम्
तस्य चन्द्रोपमं वक्त्रम् उदीक्ष्य मुदितेन्द्रियाः
सम्प्रहृष्टा महाबाहुम् इदं वचनमब्रुवन्
कन्यकाः-
सत्यं बत पुरा वायुर् इदमस्मानिहाब्रवीत्
सर्वभूतकृतज्ञश्च महर्षिरपि नारदः
विष्णुर्नारायणो देवश् शङ्खचक्रगदासिभृत्
स भौमं नरकं हत्वा भर्ता वो भविता ह्यतः
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः
वचनं दर्शनादेव सत्यं भवितुमर्हति
यत् प्रियं बत पश्याम वक्त्रं चन्द्रोपमं तु ते
दर्शनेन कृतार्थास्स्मो वयमद्य महात्मनः
भीष्मः-
श्रीभगवान्-
उवाच हि यदुश्रेष्ठस् सर्वास्ता जातमन्मथाः
यथा ब्रूत विशालाक्ष्यस् तत् सर्वं वो भविष्यति
भीष्मः-
तानि सर्वाणि रत्नानि गमयित्वाऽथ किङ्करैः
स्त्रियश्च गमयित्वाऽथ देवर्षिनृपकन्यकाः
वैनतेयभुजे कृष्णो मणिपर्वतमुत्तमम्
क्षिप्रमारोपयाञ्चक्रे भगवान् देवकीसुतः
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम्
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम्
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्
सप्रपातमहासानुं विचित्रशिखिसङ्कुलम्
स महेन्द्रानुजश्शौरिश् चकार गुरुडोपरि
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम्
उपेन्द्रं बलदेवं च वासवं च महाबलम्
तं च रत्नौघमतुलं पर्वतं च महाबलः
वरुणस्यामृतं दिव्यं छत्रं चन्द्रोपमं शुभम्
स्वपक्षबलविक्षेपैर् महाद्रिशिखरोपमः
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्
आरुजन् पर्वताग्राणि पादपांश्च समुत्क्षिपन्
सञ्जहार महाभ्राणि वैश्वानरपथं गतः
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा
प्रभाजालमतिक्रम्य चन्द्रसूर्यपथं ययौ
मेरोश्शिखरमासाद्य मध्यमं मधुसूदनः
देवस्थानानि सर्वाणि ददर्श भरतर्षभ
विश्वेषां मरुतां चैव साध्यानां च युधष्ठिर
भ्राजमानान्यतिक्रम्य अश्विनोश्च परन्तप
प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः
शक्रसद्म समासाद्य चावरुह्य जनार्दनः
सोऽभिवाद्यादितेः पादावर्चितस्सर्वदैवतैः
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः
रत्नानि च परार्घ्याणि रामेण सह केशवः
प्रतिगृह्य च तत्सर्वम् अदितिर्वासवानुजम्
पूजयामास दाशार्हं रामं च विगतज्वरा
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा
सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत्
सा तस्यास्सत्यभामायाः कृष्णप्रियचिकीर्षया
वरं प्रादाद्देवमाता सत्यायै विगतज्वरा
अदितिः-
जरां न यास्यसि वधु यावद्वै कृष्णमानुषम्
सर्वगन्धगुणोपेता भविष्यसि वरानने
भीष्मः-
विहृत्य सत्यभामा वै सह शच्या सुमध्यमा
शच्याऽपि समनुज्ञाता ययौ कृष्णनिवेशनम्
सम्पूज्यमानस्त्रिदशैर् महर्षिगणसेवितः
द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः
सोऽतिपत्य महाबाहुर् दीर्घमध्वानमच्युतः
वर्घमानपुरद्वारम् आससाद पुरोत्तमम्