भीष्मः-
ततः कदाचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना
चचार तद्वनं रम्यं सुस्वरूपो वराननः
काकपक्षधरश्श्रीमाञ् छ्यामः पद्मनिभेक्षणः
श्रीवत्सेनोरसा युक्तश् शशाङ्क इव लक्ष्मणा
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा
श्वेतगन्धेन लिप्ताङ्गो नीलकुञ्चितमूर्धजः
राजता बर्हिपत्रेण मन्दमारुतकम्पिना
क्वचिद्गायन् क्वचित् क्रीडन् क्वचिन्नृत्यन् क्वचिद्धसन्
गोपवेषस्स मधुरं गायन् वेणुं च वादयन्
प्रह्लादनार्थं तु गवां क्वचिद्वनगतो युवा
गोकुले मेघकाले तु चचार द्युतिमान् प्रभुः
बहुरम्येषु देशेषु वनस्य वनराजिषु
तासु कृष्णो मुदा युक्तः क्रीडया भरतर्षभ
स कदाचिद्वने तस्मिन् गोभिस्सह परिव्रजन्
भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान्
तस्य छायायानिवासाय मतिं चक्रे तदा प्रभुः
स तत्र वयसा तुल्यैर् वत्सपालैस्सहाऽनघ
रेमे स दिवसान् कृष्णः पुरा स्वर्गगतो यथा
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः
गोपालाः कृष्णमेवान्ये गायन्ति स्म वनप्रियाः
तेषां सङ्गायतामेव वादयामास केशवः
पर्णवाद्यान्तरे वेणुं तुम्बं वीणां च तत्र वै
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः
तेन बालेन कौन्तेय कृतं लोकहितं तदा
पश्यतां सर्वभूतानां वासुदेवेन भारत
ह्रदे नीपवने तत्र क्रीडितं नागमूर्धनि
शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः
विजहार ततः कृष्णो बलदेवसहायवान्
धेनुको दारुणो राजन् दैत्यो रासभविग्रहः
तदा तालवने राजन् बलदेवेन वै हतः
ततः कदाचित् कौन्तेय रामकृष्णौ वनं गतौ
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै
क्ष्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान्
नामभिर्व्याहरन्तौ च वत्सान् गाश्च परन्तपौ
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम्
ततः कृष्णो महातेजास् तदा गत्वा तु गोव्रजम्
गिरियज्ञं तमेवैष प्रकृतं गोपदारकैः
बुभुजे पायसं शौरिर् ईश्वरस्सर्वभूतकृत्
तं दृष्ट्वा गोपकास्सर्वे कृष्णमेव समर्चयन्
पूज्यमानस्तदा गोपैर् दिव्यं वपुरधारयत्
धृतो गोवर्धनो नाम सप्ताहं पर्वतस्तदा
शिशुना वासुदेवेन गवार्थमरिमर्दन
क्रीडमानस्तदा कृष्णः कृतवान् कर्म दुष्करम्
तदद्भुतमिवात्रासीत् सर्वलोकस्य भारत
देवदेवः क्षितिं गत्वा कृष्णं दृष्ट्वा मुदाऽन्वितः
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत् पुरन्दरः
इत्युक्त्वाऽऽश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम्
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम्
जघान तरसा कृष्णः पशूनां हितकाम्यया
केशिनं नाम दैतेयं राजन् वै हयविग्रहम्
तथा वनगतं पार्थ गजायुतबलं हयम्
प्रहितं भोजपुत्रेण जघान पुरुषोत्तमः
अान्ध्रं मल्लं च चाणूरं निजघान महासुरम्
सुदामानममित्रघ्नं सर्वसैन्यपुरस्कृतम्
बालरूपेण गोविन्दो निजघान च भारत
बलदेवेन चायत्तस् समाजे मुष्टिको हतः
त्रासितश्च तदा कंसस् स हि कृष्णेन भारत
ऐरावतं युयुत्सन्तं मातङ्गानामिवर्षभम्
कृष्णः कुवलयापीडं हतवांस्तस्य पश्यतः
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत
एवमादीनि कर्माणि कृतवान् वै जनार्दनः
उवास कतिचित् तत्र दिनानि सहलायुधः
ततस्तौ जग्मतुस्तात गुरुं सान्दीपिनिं पुनः
गुरुशुश्रूषया युक्तौ धर्मज्ञौ धर्मचारिणौ
व्रतमुग्रं महात्मानौ विचरन्तावतिष्ठताम्
अहोरात्रचतुष्षष्ट्या षडङ्गं वेदमापतुः
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ
गान्धर्ववेदं वैद्यं च सकलं समवापतुः
हस्तिशिक्षामश्वशिक्षां द्वादशाहेन चापतुः
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ
ताविष्वस्रवराचार्यम् अभिगम्य प्रणम्य च
तेन तौ सत्कृतौ राजन् विचरन्ताववन्तिषु
पञ्चाशद्भिरहोरात्रैर् दशाङ्गं सुप्रतिष्ठितम्
सरहस्यं धनुर्वेदं सकलं ताववापतुः
दृष्ट्वा कृतास्त्रौ विप्रेन्द्रो गुर्वर्थे तावचोदयत्
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुः
सान्दीपिनिः-
मम पुत्रस्समुद्रेऽस्मिंस् तिमिना चापवाहितः
पुत्रमानय भद्रं ते भक्षितं तिमिना मम
भीष्मः-
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम्
अशक्यं त्रिषु लोकेषु कर्तुमन्येन केनचित्
यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ
सोऽसुरस्समरे ताभ्यां समुद्रे विनिपातितः
ततस्सान्दीपिनेः पुत्रः प्रसादादमितौजसः
दीर्घकालं गतः प्रेतः पुनरासीच्छरीरवान्
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्
सर्वेषामेव भूतानां विस्मयस्समजायत
ऐश्वर्याणि च सर्वाणि गवाश्वं च धनानि च
सर्वं तदुपजह्राते गुरवे रामकेशवौ
ततस्तं पुत्रमादाय ददौ च गुरवे प्रभुः
तं दृष्ट्वा पुत्रमायान्तं सान्दीपिनिपुरे जनाः
अशक्यमेतत् सर्वेषाम् अचिन्त्यमिति मेनिरे
कश्च नारायणादन्यश् चिन्तयेदिदमद्भुतम्
गदापरिघयुद्धेषु सर्वास्त्रेषु च केशवः
परमां मुख्यतां प्राप्तस् सर्वलोकेषु विश्रुतः
कश्च नारायणादन्यस् सर्वरत्नविभूषितम्
रथमादित्यसङ्काशमातिष्ठेत शचीपतेः
कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियस्सखा
मातलिस्सङ्गृहीता स्याद् अन्यत्र पुरुषोत्तमात्
भोजराजतनीजोऽपि कंसस्तात युधिष्ठिर
अस्त्रज्ञाने बले वीर्ये कार्तवीर्यसमोऽभवत्
तस्य भोजपतेः पुत्राद् भोजराजन्यवर्धनात्
उद्विजन्ते स्म राजानस् सुपर्णादिव पन्नगाः
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः
शतं शतसहस्राणि पादातीनां तु भारत
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम्
अभवन् भोजराजस्य जाम्बूनदमयध्वजाः
स्फुरत्काञ्चनकक्ष्यास्तु गजास्तस्य युधिष्ठिर
तावन्त्येव सहस्राणि गजानामनिवर्तिनाम्
ते च पर्वतसङ्काशाश् चित्रध्वजपताकिनः
बभूवुर्भोजराजस्य नित्यं प्रमुदिता गजाः
स्वलङ्कृतानां शीघ्राणां करेणूनां युधिष्ठिर
अभवद्भोजराजस्य द्विस्तावद्धि महद्बलम्
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै
अपरस्तु महाव्यूहः किशोराणां युधिष्ठिर
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान्
स च षोडशसाहस्रः कंसभ्रातृपुरःसरः
सुनामा सदृशस्तेन स कंसं पर्यपालयत्
य आसन् सर्ववर्णास्तु हयास्तस्य युधिष्ठिर
सगणो मिश्रको नाम षष्टिसाहस्र उच्यते
कंसरोषमहावेगां ध्वजानूपमहाद्रुमाम्
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम्
शस्त्रजालमहाफेनां सादिवेगमहाजलाम्
गदापरिघपाठीनां नानाकवचशैवलाम्
रथनागमहावर्तां नानारुधिरकर्दमाम्
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम्
महामृधनदीं घोरां योधावर्तननिस्वनाम्
को वा नारायणादन्यः कंसहन्ता युधिष्ठिर
एष शक्ररथे तिष्ठंस् तान्यनीकानि भारत
व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्
मानयामास मानार्हां देवकीं ससुहृद्गणाम्
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः
उग्रसेनं च राजानम् अभिषिच्य जनार्दनः
अर्चितो यदुमुख्यैश्च भगवान् वासवानुजः
ततः पार्थिवमायान्तं सहितं सर्वराजभिः
सरस्वत्यां जरासन्धम् अजयत् पुरुषोत्तमः