वैशम्पायनः-
एवमुक्तोऽथ कौन्तेयस् ततः कौरवनन्दनः
आबभाषे पुनर्भीष्मं धर्मराजो युधिष्ठिरः
युधिष्ठिरः-
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः
जन्म वृष्णिषु विज्ञातुम् इच्छामि वदतां वर
यथैव भगवाञ्जातः क्षिताविह जनार्दनः
माधवेषु महाबुद्धिस् तन्मे ब्रूहि पितामह
यदर्थं च महातेजा गास्तु गोवृषणेक्षणः
ररक्ष कंसस्य वधाल्लोकानामभिरक्षिता
क्रीडता चैव यद्बाल्ये गोविन्देन विचेष्टितम्
तदा मतिमतां श्रेष्ठ तन्मे ब्रूहि पितामह
वैशम्पायनः-
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः
माधवेषु तदा जन्म कथयामास वीर्यवान्
भीष्मः-
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्
यतो नारायणस्येह जन्म वृष्णिषु कौरव
पुरा लोके महाराज वर्तमाने कृते युगे
आसीत् त्रैलोक्यविख्यातस् सङ्ग्रामस्तारकामयः
विरोचनो मयस्तारो वराहश्श्वेत एव च
लम्बः किशोरस्स्वर्भानर् अरिष्टोऽथ क्षरश्च वै
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः
एते चान्ये च बहवो दैत्यसङ्घास्सहस्रशः
नानाशस्त्रधरा राजन् नानाभूषणवाहनाः
देवतानामभिमुखास् तस्थुर्दैतेयदानवाः
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे
आदित्या वसवो रुद्रास् साध्या विश्वे मरुद्गणाः
इन्द्रो यमश्च चन्द्रश्च वरुणोऽथ धनेश्वरः
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम्
युध्यमानास्समेयुश्च देवा दैतेयदानवैः
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम्
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा
तीक्ष्णैश्शस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः
अघ्नन् देवान् सगन्धर्वान् सयक्षोरगचारणान्
दुद्रुवुस्सम्परिश्रान्ताः क्षीणप्रहरणा रणे
ते वध्यमाना दैतेयैर् देवसङ्घास्तदा रणे
त्रातारं मनसा जग्मुर् देवं नारायणं प्रभुम्
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः
दीपयञ् ज्योतिषा भूमिं शङ्खचक्रगदाधरः
तमागतं सुपर्णस्थं विष्णुं लोकजुरुं तथा
दृष्ट्वा मुदा युतास्सर्वे भयं त्यक्त्वा रणे सुराः
चक्रुर्युद्धं पुनस्सर्वे देवा दैतेयदानवैः
तद्युद्धमभवद्घोरम् अचिन्त्यं रोमहर्षणम्
जघ्नुर्दैत्यान्रणे घोराः सर्वे शक्रपुरोगमाः
ते बाध्यमाना विबुधैर्दुद्रुवुर्दैत्यदानवाः
विद्रुतान् दानवान् दृष्ट्वा तदा भारत संयुगे
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत
शत्रुप्रहरणो घोरश् शतबाहुश्शताननः
शतशीर्षस्स्थितश्श्रीमाञ् छतशृङ्ग इवाचलः
भास्कराकारमुकुटश् शिञ्जिताभरणाङ्गदः
धूम्रकेशो हरिश्मश्रुर् निर्दष्टोष्ठपुटाननः
त्रैलोक्यान्तरविस्तारं धारयन् विपुलं वपुः
तर्जयन् वै रणे देवाञ् छादयन् वै दिशो दश
अभ्यधावत् सुसङ्क्रुद्धो व्यादितास्य इवान्तकः
ततश्शस्त्रप्रतानैश्च देवान् धर्षितवान् रणे
अथाभ्ययुस्सुरान् सर्वान् पुनस्ते दैत्यदानवाः
आपीडयन् रणे क्रुद्धास् ततो देवान् युधिष्ठिर
ते वध्यमाना विबुधास् समरे कालनेमिना
दैत्यैश्चैव महाराज दुद्रुवुस्सहिता दिशः
विद्रुतान् विबुधान् दृष्ट्वा कालनेमिर्महासुरः
इन्द्रं यमग्निर्वरुणान् वायुं च धनदं रविम्
एतांश्चान्यान् बलाज्जित्वा तेषां कार्याण्यवाप सः
तान् सर्वांस्तरसा जित्वा कालनेमिर्महासुरः
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम्
तं दृष्ट्वा क्रोधताम्राक्षस् तर्जयन्नभ्ययात् तदा
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत्
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमताडयन्
स ताड्यमानोऽतिबलैर् दैत्यैस्सर्वायुधोद्यतैः
न चचाल हरिर्युद्धे तोयवर्षैरिवाचलः
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम्
जघान संयुगे राजन् स विष्णुं गरुडं च वै
स दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः
शतं शिरांसि बाहूंश्च सोऽच्छिनत् कालनेमिनः
जघानान्यांश्च तान् सर्वान् समरे दैत्यदानवान्
तस्मिन् राजन् रणे दैत्यास् त्रय एव विनिस्मृताः
विरोचनो मयश्चैव स्वर्भानुश्च महासुराः
सर्वानशेषान् हत्वा तु विष्णुर्वै दैत्यदानवान्
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ
दत्त्वा सुराणां सुप्रीतिं प्राप्य सर्वाणि भारत
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः
ब्रह्मलोकं प्रविश्याथ प्राप्य नारायणः प्रभुः
पौराणां गुह्यसदनं दिव्यं नारायणाश्रयम्
सम्प्रविश्य तदा देवस् स्तूयमानो महर्षिभिः
सहस्रशीर्षो भूत्वाऽथ शयनायोपचक्रमे
आदिदेवः पुराणात्मा निद्रावशमुपागतः
शेते सुखं सदा विष्णुर् मोहयञ्जगदव्ययः
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः
षट्त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया
ततः कृतयुगत्रेताद्वापरान्ते बुबोध सः
ब्रह्मादिभिस्सुरैश्चाथ स्तूयमानो सहर्षिभिः
उत्प्लुत्य शयनाद्विष्णुर् ब्रह्मणा विबुधैस्सह
देवानां च हितार्थाय ययौ देवसभां प्रति
मेरोश्शिखरविन्यस्तां ज्वलन्तीं तां शुभां सभाम्
विविशुस्ते सुरास्सर्वे ब्रह्मणा सह भारत
जग्मुस्तत्र निषेदुस्ते सा निश्शब्दमभूत् तदा
तत्र भूमिरुवाचाथ खेदात् करुणभाषिणी
भूमिः-
राज्ञां बलैर्बलवतां खिन्नाऽस्मि भृशपीडिता
नित्यं भारपरिश्रान्ता दुःखाज्जीवामि वै सुराः
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः
भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः
ग्रामायुतैश्च राष्ट्रैश्च अहं निर्विवरीकृता
केचिद्दैत्येषु चोत्पन्ना केचिद्राक्षसयोनिषु
दैत्येशैर्बाध्यमानास्ताः प्रजा नित्यं दुरात्मभिः
तस्माद्धारयितुं शक्ता न शक्ष्यामि जनानहम्
भीष्मः-
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा
व्यादिश्य तान् सुरान् सर्वान् क्षितौ वस्तुं मनो दधे
यच्चक्रे भगवान् विष्णुर् वसुदेवकुलोद्वहः
तत् तेऽहं नृप वक्ष्यामि शृणु सर्वमशेषतः
वासुदेवस्य महात्म्यं चरितं च महाद्युतेः
हितार्थं सुरमर्त्यानां लोकानां च हिताय च
यदा दिवि विभुस्तात न रेमे भगवानसौ
ततो व्यादिश्य भूतानि भुवि भौमसुखावहः
निग्रहार्थाय दैत्यानां चोदयामास वै तदा
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः
जङ्गमानि विशालाक्षो ह्यात्मानं ह्यात्मनाऽसृजत्
जायन्तामिति गोविन्दस् तिर्यग्योनिगतैरपि
तानि सर्वाणि सर्वज्ञस् ससुराणि सुरेश्वरः
त एवमुक्ताः कृष्णेन सर्व एव दिवौकसः
दै्तयदानवहन्तारस् सम्भूता भुवनेश्वराः
ययातिवंशजस्याथ वसुदेवस्य धीमतः
कुलं पुण्ययशःकर्म भेजे नारायणः प्रभुः
आज्ञापयित्वा रत्यर्थम् अजायत यदोः कुले
आत्मानमात्मना तात कृत्वा बहुविधं हरिः
रत्यर्थमेव गास्तास्तु ररक्ष पुरुषोत्तमः
अजातशत्रो जातस्तु यथैष भुवि भूमिपः
कीर्त्यमानं मया तात निबोध भरतर्षभ
सागरास्समकम्पन्त मुदा चेलुश्च पर्वताः
जज्वलुश्चाग्नयश्शान्ता जायमाने जनार्दने
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः
ज्योतींषि सम्प्रकाशन्ते जायमाने जनार्दने
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः
गीर्भिर्मङ्गलयुक्ताभिर् अस्तुवन् मधुसूदनम्
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन्
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः
अभ्यभाषत तेजस्वी महर्षीन् पूजयंस्तदा
इन्द्रः-
भीष्मः-
कृत्यानि देवकार्याणि कृत्वा लोकहिताय च
स्वलोकं लोककृद्देव पुनर्गच्छस्व तेजसा
इत्युक्त्वा मुनिभिस्सार्घं जगाम त्रिदिवेश्वरः
अभ्यनुज्ञाय तान् सर्वाञ् छादयन् प्रकृतिं पराम्
वसुदेवस्ततो जातं बालमादित्यसन्निभम्
नन्दगोपकुले राजन् भयात् प्रच्छादयद्धरिम्
नन्दगोपकुले कृष्ण उवास बहुलास्समाः
ततः कदाचित् सुप्तं तं शकटस्य त्वधश्शिशुम्
यशोदा सम्परित्यज्य जगाम यमुनां नदीम्
शिशुलीलां ततः कुर्वन् स्वहस्तचरणौ क्षिपन्
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः
तत्राथैकेन पादेन पातयित्वा तथा शिशुः
न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च
पाटितं शकटं दृष्ट्वा भिन्नभाण्डघटीघटम्
जनास्ते शिशुना तेन विस्मयं परमं ययुः
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम्
शयानेन हतः पक्षी शिशुना तिग्मतेजसा
पूतना चापि निहता महाकाया महास्तनी
पश्यतां सर्वदेवानां वासुदेवेन भारत
ततः काले महाराज संसक्तौ रामकेशवौ
विष्णुस्सङ्कर्षणश्चोभौ रिङ्खिणौ समपद्यताम्
अन्योन्यकिरणाग्रस्तौ चन्द्रसूर्याविवाम्बरे
विसर्पयेतां सर्वत्रसर्वभोगभुजौ तदा
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप
क्वचिच्च जानुभिस्स्पृष्टौ क्रीडमानौ क्वचिद्वने
पिबन्तौ दधिकुल्याश्च मथ्यमाने च भारत
ततस्स बालो गोविन्दो नवनीतं तदा क्षयम्
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशेऽथ वे
दाम्नाऽथोलूखले कृष्णो गोपस्त्रीभिश्च बन्धितः
तदाऽथ शिशुना तेन राजंस्तावर्जुनावृभौ
समूलविटपौ भग्नौ तदद्भुतमिवाभवत्
तत्रासुरौ महाकायौ गतप्राणौ बभूवतुः
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ
शुशुभाते वनगतावुदीर्णाविव पन्नगौ
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ
शिक्यतुम्बधरौ वीरौ गोपवेणुप्रवादकौ
क्वचिद्वसन्तावन्योन्यं क्रीडमानौ क्वचिद्वने
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ
तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद्वनम्
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभौ
ततो वृन्दावनं गत्वा वसुदेवसुतावुभौ
गोव्रजं तत्र कौन्तेय चारयन्तौ विजह्रतुः