भीष्मः-
प्रादुर्भावसहस्राणि समतीतान्यनेकशः
यथाशक्ति तु वक्ष्यामि शृणु तान् कुरुनन्दन
पुरा कमलनाभस्य स्वपतस्सागराम्भसि
पुष्करे यत्र सम्भूता देवा ऋषिगणैस्सह
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः
पुराणः कथ्यते यत्र वेदश्रुतिसमाहितः
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः
यत्र विष्णुस्सुरश्रेष्ठो वाराहं रूपमास्थितः
उज्जहार महीं तोयात् सशैलवनकाननाम्
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः
अहोरात्रेक्षणो दिव्यो वेदाङ्गश्श्रुतिभूषणः
आज्यनासस्स्रुवतुण्डस् सामघोषस्वनो महान्
धर्मसत्यमयश्श्रीमान् कर्मविक्रमसत्कृतः
प्रायश्चित्तनखो धीरः पशुजानुर्महावृषः
औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः
बाह्यान्तरात्मा मन्त्रास्थिविकृतस्सौम्यदर्शनः
वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान्
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिराचितः
दक्षिणाहृदयो योगी महाशास्त्रमयो महान्
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः
छागपत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः
एवं यज्ञवराहो वै भूत्वा विष्णुस्सनातनः
महीं सागरपर्यन्तां सशैलवनकाननाम्
एकार्णवजले भ्रष्टाम् एकार्णवगतः प्रभुः
मज्जितां सलिले तस्मिन् स्वदेवीं पृथिवीं तदा
उज्जहार विषाणेन मार्कण्डेयस्य पश्यतः
शृङ्गेणेमां समुद्धृत्य लोकानां हितकाम्यया
सहस्रशीर्षो देवो हि निर्ममे जगतीं प्रभुः
एवं यज्ञवराहेण भूतभव्यभवात्मना
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा
निहता दानवास्सर्वे देवदेवेन विष्णुना
वाराहः कथितो ह्येष नारसिंहमथो शृणु
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः
दैत्येन्द्रो बलवान् राजन् सुरारिर्बलगर्वितः
हिरण्यकशिपुर्नाम आसीत् त्रैलोक्यकण्टकः
दैत्यानामादिपुरुषो वीर्यवान् धृतिमान् बली
प्रविश्य स वनं राजंश् चकार तप उत्तमम्
दशवर्षसहस्राणि शतानि दश पञ्च च
जपोपवासस्तस्यासीत् स्थाणुमौनव्रतो दृढः
ततो दमशमाभ्यां च ब्रह्मचर्येण चानघ
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च
ततस्स्वयम्भूर्भगवान् स्वयमागम्य भूपते
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः
दिशाभिर्विदिशाभिश्च नदीभिस्सागरैस्तथा
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः
देवर्षिभिस्तपोयुक्तैस् सिद्धैस्सप्तर्षिभिस्तदा
राजर्षिभिः पुण्यतमैर् गन्धर्वैरप्सरोगणैः
चराचरगुरुश्श्रीमान् वृतस्सर्वसुरैस्तथा
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत्
ब्रह्मा-
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि
वरैश्चतुर्भिः प्रवृत इमान्तत्राभ्यनन्दत
हिरण्यकशिपुः-
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
श्रीमान् मनस्वी बलवान् सत्यवागनसूयकः
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम
सहस्रबाहुर्भूयासम् एष मे प्रथमो वरः
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह
शपेयुस्तपसा युक्ता वर एष वृतो मया
न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च
न शुष्केण न चार्द्रेण स्यान्न वाऽन्येन मे वधः
नाकाशे वा न भूमौ वा रात्रौ वा दिवसेऽपि वा
नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह
पशुभिर्वा मृगैर्न स्यात् पक्षिभिर्वा सरीसृपैः
ददासि चेद्वरानेतान् देवदेव वृणोम्यहम्
ब्रह्मा-
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः
सर्वकामान् वरांस्तात प्राप्स्यसे त्वं न संशयः
भीष्मः-
एवमुक्त्वा स भगवान् आकाशेन जगाम ह
रराज ब्रह्मलोके स ब्रह्मर्षिगणसेवितः
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा
वरप्रदानं श्रुत्वा ते ब्रह्माणमुपतस्थिरे
देवाः-
वरेणानेन भगवन् बाधिष्यति स नोऽसुरः
तत् प्रसीदस्व भगवन् वधोऽस्य प्रविचिन्त्यताम्
भवान् हि सर्वभूतानां स्वयम्भूरादिकृद्विभुः
स्रष्टा च हव्यकव्यानाम् अव्यक्तप्रकृतिर्ध्रुवम्
भीष्मः-
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
प्रोवाच भगवान् वाक्यं सर्वदेवगणांस्तदा
ब्रह्मा-
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्
तपसोऽन्तेऽस्य भगवान् वधं कृष्णः करिष्यति
भीष्मः-
एतच्छ्रुत्वा सुरास्सर्वे ब्रह्मणा तस्य वै वधम्
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैस्समावृतः
सप्त द्वीपान् वशे चक्रे लोकान् लोकान्तरान् बलात्
दिव्यलोकान् समस्तान् वै भोगान् दिव्यानवाप सः
देवांस्त्रिभुवनस्थांस्तान् पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः
यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि
अथ लोकान् समस्तांश्च विजित्य स महासुरः
भवेयमहमेवेन्द्रस् सोमोऽग्निर्मारुतो रविः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात् स च
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः
इज्यश्चासीन्मखवरैस् स तैर्देवर्षिसत्तमैः
नरकस्थान् समानीय स्वर्गस्थांश्च चकार सः
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली
आश्रमेषु महाभागान् मुनीन् वै शंसितव्रतान्
सत्यधर्मपरान् दान्तान् पुरा धर्षितवांश्च सः
याज्ञीयान् कृतवान् दैत्यान् अयज्ञीयाश्च देवताः
यत्र यत्र सुरा जग्मुस् तत्र तत्र व्रजत्युत
स्थानानि देवतानां तु हृत्वा राज्यमपालयत्
पञ्चकोट्यश्च वर्षाणि नियुतान्येकषष्टि च
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः
एतद्वर्षं स दैत्येन्द्रो भोगैश्वर्यमवाप सः
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा
ब्रह्मलोकं सुरा जग्मुस् सर्वे शक्रपुरोगमाः
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन्
देवाः
भगवन् भूतभव्येश नस्त्रायस्व इहागतान्
भयं दितिसुताद्घोरं भवत्यद्य दिवानिशम्
भगवन् सर्वभूतानां स्वयम्भूरादिकृद्विभुः
स्रष्टा त्वं हव्यकव्यानाम् अव्यक्तः प्रकृतिर्ध्रुवः
ब्रह्मा-
श्रूयतामापदेवं हि दुर्विज्ञेया मयाऽपि च
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः
अव्यक्तस्सर्वभूतानाम् अचिन्त्यो विभुरव्ययः
ममापि स तु युष्माकं व्यसने परमा गतिः
नारायणः परोऽव्यक्ताद् अहमव्यक्तसम्भवः
मत्तो जज्ञुः प्रजा लोकास् सर्वे देवासुराश्च ते
देवा यथाहं युष्माकं तथा नारायणो मम
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः
तमिमं विबुधा दैत्यं स विष्णुस्संहरिष्यति
तस्य नास्ति ह्यशक्यं च तस्माद्व्रजत मा चिरम्
भीष्मः-
पितामहवचश्श्रुत्वा सर्वे ते भरतर्षभ
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति
आदित्या मरुतस्साध्या विश्वे च वसवस्तथा
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः
गत्वा क्षीसमुद्रं तं शाश्वतीं परमां गतिम्
अनन्तशयनं देवम् अनन्तं दीप्ततेजसम्
शरण्यं त्रिदशा विष्णुम् उपतस्थुस्सनातनम्
देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं महाबलम्
भूतं भव्यं भविष्यच्च प्रभुं लोकनमस्कृतम्
नारायणं विभुं देवं शरण्यं शरणं गताः
देवाः-
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात्
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम
उत्फुल्लपद्मपत्राक्ष शत्रुपक्षभयङ्कर
क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि
भीष्म उवाच
देवानां वचनं श्रुत्वा तदा विष्णुश्शुचिश्रवाः
अदृश्यस्सर्वभूतानां वक्तुमेवोपचक्रमे
श्रीभगवान्-
भयं त्यजध्वममरा अभयं वो ददाम्यहम्
तदेवं त्रिदिवं देवाः प्रतिपद्यत मा चिरम्
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्
ब्रह्मा-
भगवन् भूतभव्येश खिन्ना ह्येते भृशं सुराः
तस्मात् त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य मा चिरम्
श्रीभगवान्-
क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनम्
तस्मात् त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम्
भीष्मः-
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान्
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा
नारसिंहेन वपुषा पाणिं निष्पिष्य पाणिना
भीमरूपो महातेजा व्यादितास्य इवान्तकः
हिरण्यकशिपुं राजञ् जगाम हरिरीश्वरः
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम्
ववर्षुश्शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम्
तैर्विसृष्टानि शस्त्राणि भक्षयामास वै हरिः
जघान च रणे दैत्यान् सहस्राणि बहून्यपि
तान् निहत्य च दैत्येन्द्रान् सर्वान् क्रुद्धान् महाबलान्
अभ्यधावत् सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम्
जीमूतघनसङ्काशो जीमूतघननिस्वनः
जीमूत इव दीप्तौजा जीमूत इव वेगवान्
देवारिर्दितिजो दुष्टो नृसिंहं समुपाद्रवत्
दैत्यं सोऽतिबलं दृष्ट्वा क्रुद्धशार्दूलविक्रमम्
दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुखैरुत
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः
सन्ध्याकाले महातेजा प्रघाणे च त्वरान्वितः
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैर्हि तम्
महाबलं महावीर्यं वरदानेन दर्पितम्
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः
प्रमुमोद हरिर्देवस् स्थाप्य धर्मं तदा भुवि
एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः
पुरा त्रेतायुगे राजन् बलिर्वैरोजनोऽभवत्
यस्समास्सर्वधर्मज्ञश् चतुर्दश वने वसन्
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली
लक्ष्मणानुचरो रामस् सर्वभूतहिते रतः
तदा बलिर्महाराज दैत्यसङ्घैस्समावृतः
विजित्य तरसा शक्रम् इन्द्रस्थानमवाप सः
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा
तुष्टुवुस्सहितास्सर्वे देवं नारायणं प्रभुम्
स तेषां दर्शनं चक्रे विबुधानां हरिस्ततः
प्रसादजं तस्य विभोर् अदित्यां जन्म उच्यते
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्
तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान्
अश्वमेधं क्रतुश्रेष्ठम् आहर्तुमुपचक्रमे
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मवेषधृक्
मुण्डो यत्रोपवीती च कृष्णाजिनधरश्शिखी
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः
प्रविश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम्
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीन् ममैव ह
दीयतां त्रिपदीमात्रम् इत्ययाचन्महासुरम्
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा
तेन लब्ध्वा हरिर्भूमिं जृम्भयामास वै भृशम्
स शिशुस्सदिवं खं च पृथिवीं वच विशाम्पते
त्रिभिर्विक्रमणैरेतत् सर्वमाक्रमताभिभूः
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः
नानावक्रा महाकाया नानावेषधरा नृप
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः
स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा
क्रममाणं हरिं तत्र उपावर्तन्त भारत
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैस्तु तान्
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्
सम्प्राप्य दिवमाकाशम् आदित्यसदने स्थितः
अत्यरोचत भूतात्मा भास्करं स्वेन तेजसा
प्रकाशयन् दिशस्सर्वाः प्रदिशश्च महाबलः
शुशुभे स महाबाहुस् सर्वलोकान् प्रकाशयन्
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे
नभः प्रक्रममाणस्य नाभ्यां किल तदा स्थितौ
परमाक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः
अथासाद्य कपालं स अण्डस्य तु युधिष्ठिरः
तच्छिद्रात् स्यन्दिनी तस्य पादाद्भ्रष्टा तु निम्नगा
ससार सागरं सा तु पावनी सागरङ्गमा
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान्
आसुरीं श्रियमाहृत्य त्रील्लोकान्स जनार्दनः
सपुत्रदारानसुरान् पाताले तानपातयत्
नमुचिश्शम्बरश्चैव प्रह्लादश्च महामनाः
पादपाताभिनिर्धूताः पाताले विनिपातिताः
महाभूतानि भूतात्मा स विशेषेण वै हरिः
कालं च सकलं राजन् गात्रभूतान्यदर्शयत्
तस्य गात्रे जगत् सर्वम् आनीतमिव दृश्यते
न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना
तद्धि रूपं महेशस्य देवदानवमानवाः
दृष्ट्वा तं मुमुहुस्सर्वे विष्णुतेजोऽभिपीडिताः
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना
विरोचनकुलं सर्वं पाताले विनिपातितम्
एवंविधानि कर्माणि कृत्वा गरुडवाहनः
न विस्मयमुपागच्छत् पारमेष्ठ्येन तेजसा
स सर्वममरैश्वर्यं सम्प्रदाय शचीपतेः
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः
एष ते वामनो नाम प्रादुर्भावो महात्मनः
वेदविद्भिर्द्विजैरेतत् कथ्यते वैष्णवं यशः
मानुषेषु ततो विष्णोः प्रादुर्भावं तथा शृणु
विष्णोः पुनर्महाराज प्रादुर्भावो महात्मनः
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते
प्रजासु क्षीयमाणासु धर्मे चाकुलतां पते
सयज्ञास्सक्रिया वेदाः प्रत्यानीताश्च तेन वै
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना
स एव वै यदा प्रादाद् हैहयाधिपतेर्वरम्
तं हैहयानामधिपस् त्वर्जुनोऽभिप्रसादयन्
वने पर्यचरत् सम्यक् छुश्रूषुरनसूयकः
निर्ममो निरहङ्कारो दीर्घकालमतोषयत्
आराध्य दत्तात्रेयं हि अगृह्णात्स वरानिमान्
आप्तादाप्ततरान् विप्राद् विद्वान् विद्वन्निषेवितात्
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम्
प्रशास्तुमिच्छे धर्मेण द्वितीयस्त्वेष मे वरः
पितॄन् देवानृषीन् विप्रान् यजेयं विपुलैर्मखैः
अमित्रान् निशितैर्बाणैर् घातयेयं रणाजिरे
दत्तात्रेयेह भगवंस् तृतीयो वर एष मे
यस्य नासीन्न भविता न चास्ति सदृशः पुमान्
इह वा दिवि वा लोके स मे हन्ता भवेदिति
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत
पृथिवीमखिलां जित्वा द्वीपांश्चापि समुद्रिणः
नभसीव ज्वलन् सूर्यः पुण्यैः कर्मभिर्जुनः
इन्द्रद्वीपं कशेरुं च ताम्रद्वीपं गभस्तिमत्
गान्धर्वं वरुणं द्वीपं सौम्याक्षमिति च प्रभुः
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम्
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत्
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान्
यस्तु तस्य तृतीयांशो राज्ञाऽसीज्जनसङ्ग्रहे
आप्तः परमकल्याणस् तेन यज्ञानकल्पयत्
ये दस्यवो ग्रामचरा अरण्ये च वसन्ति ये
चतुर्थेन च सोंऽशेन तान् सर्वान् प्रत्यषेधयत्
सर्वेभ्यश्चान्तवासिभ्यः कार्तवीर्योऽहरद्बलिम्
आहृतं स्वबलैर्यत्तद् अर्जुनश्चावमन्यते
काको वा मूषिको वाऽपि तं तमेव न्यबर्हयत्
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः
स एवासीदजापालस् स गोपालो विशाम्पते
स स्मारण्ये मनुष्याणां राजा क्षेत्राणि रक्षति
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते
शतं वर्षसहस्राणाम् अनुशिष्यार्जुनो महीम्
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः
एवं बहूनि कर्माणि चक्रे लोकहिताय सः
दत्तात्रेय इति ख्यातः प्रादुर्भावस्तु वैष्णवः
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः
तथा भृगुकुले जन्म यदर्थं च महात्मनः
जामदग्न्य इति ख्यातः प्रादुर्भावस्तु वैष्णवः
जमदग्निसुतो राजन् रामो नाम स वीर्यवान्
हेहयान्तकरो राजन् स रामो बलिनां वरः
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तथा
रामेण जामदग्न्येन हतो विषममाचरन्
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम्
रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान्
सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे
क्षत्रियाणां चतुष्पष्टिम् अयुतानि महायशाः
सरस्वत्यां समेतानि एष वै धनुषाऽजयत्
ब्रह्मद्विषां वधे तस्मिन् सहस्राणि चतुर्दश
पुनर्जग्राह शूराणाम् अन्तं चक्रे नरर्षभः
ततो दशसहस्रस्य हन्ता पूर्वमरिन्दमः
सहस्रं मुसलेनाहन् सहस्रमुदकृन्तत
चतुर्दशसहस्राणि कणदूममपाययत्
शिष्टान् ब्रह्मद्विषश्छित्वा ततोऽस्नायत भार्गवः
राम रामेत्यभिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः
न्यघ्नद्दशसहस्राणि रामः परशुनाऽभिभूः
न ह्यमृष्यत तां वाचम् आर्तैर्भृशमुदीरिताम्
भृगो रामाभिधावेति यदाऽक्रन्दन् न्द्विजातयः
काश्मीरान् दरदान् कुन्तीन् क्षुद्रकान् मालवाञ्छकान्
चेदिकाशिकरूशांश्च ऋषिकान् क्रथकैशिकान्
अङ्गान् वङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान्
रात्रायणान् वीतिहोत्रान् किरातान् मार्तिकावतान्
एतानन्यांश्च राजेन्द्रान् देशे देशे सहस्रशः
निकृत्य निशितैर्बाणैस् सम्प्रदाय विवस्वते
कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा
त्रिस्सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता
कृत्वा निःक्षत्रियां चैव भार्गवस्स महायशाः
इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च
पूरयामास सरितः क्षतजस्य सरांसि च
चकार तर्पणं वीरः पितॄणां तासु तेषु च
सर्वानष्टादश द्वीपान् वशमानीय भार्गवः
सोऽश्वमेधसहस्राणि नरमेधशतानि च
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ
तस्याग्रेणानु पर्येति भूमिं कृत्वा विपांसुलाम्
ततः कालकृतां सत्यां भार्गवाय महात्मने
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम्
रामस्य जामदग्न्यस्य प्रतिजग्राह काश्यपः
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः
अन्यद्वर्षशतं रामस् सौभे साल्वमयोधयत्
ततस्स भृगुशार्दूलस् तं सौभं योधयन् प्रभुः
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत्
राम राम महाबाहो भृगूणां कीर्तिवर्धन
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि
चक्रहस्तो गदापाणिर् भीतानामभयङ्करः
युधि प्रद्युम्नसाम्बाभ्यां कृष्णस्सौभं वधिष्यति
तच्छ्रुत्वा पुरुषव्याघ्रस् तत एव वनं ययौ
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः
रथं वर्मायुधं चैव शरान् परशुमेव च
धनूंष्यप्सु प्रतिष्ठाप्य राजंस्तेपे परं तपः
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह
आदिकाले प्रवृत्तं तु व्यभजन् कालमीश्वरः
नाहनच्छ्रद्धया सौभं न ह्यशक्तो महायशाः
जामदग्न्य इति ख्यातो यस्त्वसौ भगवानृषिः
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः
शृणु राजंस्तथा विष्णोः प्रादुर्भावं महात्मनः
चतुर्विंशे युगे चापि मार्कण्डेयपुरस्सरः
तिथौ नावमिके जज्ञे तथा दशरथादपि
कृत्वाऽऽत्मानं महाबाहुश् चतुर्धा विष्णुरव्ययः
लोके राम इति ख्यातस् तेजसा भास्करोपमः
प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम्
यज्ञविघ्नं तदा कृत्वा विश्वामित्रस्य भारत
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम्
तस्मै दत्तानि शस्त्राणि विश्वमित्रेण धीमता
वधार्थं देवशत्रूणां दुर्वाराणि सुरैरपि
वर्तमाने तदा यज्ञे जनकस्य महात्मनः
भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम्
ततो विवाहं सीतायाः कृत्वा स रघुवल्लभः
नगरीं पुनरासाद्य मुमुदे तत्र सीतया
कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः
कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत
चतुर्दश वने तप्त्वा तपो वर्षाणि भारत
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः
पूर्वोचितत्वात् सा लक्ष्मीर् भर्तारमनुगच्छति
जनस्थाने वसन् कार्यं त्रिदशानां चकार सः
मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम्
जघान रामो धर्मात्मा प्रजानां हितकाम्यया
विराधं च कबन्धं च राक्षसौ क्रूरकर्मिणौ
जघान च तदा रामो गन्धर्वौ शाषविक्षतौ
स रावणस्य भगिनीनासाच्छेदं च कारयत्
भार्यावियोगं तं प्राप्य मृगयन् व्यचरद्वनम्
स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह
निहत्य वालिनं युद्धे वानरेद्रं महाबलम्
अभ्यपिञ्चत् तदा रामस् सुग्रीवं वानरेश्वरम्
ततस्स वीर्यवान् राजंस् त्वरयन् वै समुत्सुकः
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितम्
सेतुं बद्ध्वा समुद्रस्य वानरैस्सहितस्तदा
सीतायाः पदमन्विच्छन् रामो लङ्कां विवेश ह
देवोरगगणानां हि यक्षराक्षसपक्षिणाम्
तत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम्
युक्तं राक्षसकोटीभिर् भिन्नाञ्जनचयोपमम्
दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम्
जघान सचिवैस्सार्धं सान्वयं रावणं रणे
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम्
रावणं सगणं हत्वा रामो भूतपतिः पुरा
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम्
अभिषिच्य च तत्रैव अमरत्वं ददौ तदा
आरुह्य पुष्पकं रामस् सीतामादाय पाण्डव
सबलस्स्वपुरं गत्वा धर्मराज्यमपालयत्
दानवो लवणो नाम मधोः पुत्रो महाबलः
शत्रुघ्नेन हतो राजंस् ततो रामस्य शासनात्
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः
राजं चकार विधिवद् रामो धर्मभृतां वरः
दशाश्वमेधानाजह्रे ज्योतिरुक्थ्यान् निरर्गलान्
नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा
न वित्तजं भयं चासीद् रामे राज्यं प्रशासति
प्राणिनां च भयं नासीज् जलानलविधानजम्
पर्यदेवान् न विविधा नानाथाः काश्चनाभवन्
सर्वमासीत् तदातृप्तं रामे राज्यं प्रशासति
न सङ्करकरा वर्णा नाकृष्टकरकृज्जनः
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते
विशः पर्यचरन् क्षत्रं क्षत्रं नापीडयद्विशः
नरा नात्यचरन् भार्या भार्या नात्यचरन् पतीन्
नासीदल्पकृषिर्लोके रामे राज्यं प्रशासति
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः
अरोगाः प्रणिनोऽप्यासन् रामे राज्यं प्रशासति
ऋषीणां देवतानां च मनुष्याणां तथैव च
पृथिव्यां सहवासोऽभूद् रामे राज्यं प्रशासति
सर्वे ह्यसंस्तृप्तरूपास् तदा तस्मिन् विशाम्पते
धर्मेण पृथिवीं सर्वाम् अनुशासति भूमिपे
तपस्येवाभवन् सर्वे सर्वे धर्ममनुव्रताः
पृथिव्यां धार्मिके तस्मिन् रामे राज्यं प्रशासति
नाधर्मिष्ठो नरः कश्चिद् बभूव प्राणिनां क्वचित्
प्राणापानौ समावास्तां रामे राज्यं प्रशासति
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः
आजानुबाहुस्सुमुखस् सिंहस्कन्धो महाबलः
दशवर्षसहस्राणि दशवर्षशतानि च
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम्
रामो रामो राम इति प्राजानामभवन् कथाः
रामभूतं जगदिदं रामे राज्यं प्रशासति
ऋग्यजुस्सामहीनाश्च न तदाऽसन् द्विजातयः
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः
पूर्वापकारिणं सङ्ख्ये पौलस्त्यं मनुजर्षभः
देवगन्धर्वनागानाम् अरिं स निजघान ह
सत्ववान् गुणसम्पन्नो दीप्यमानस्स्वतेजसा
एवमेव महाबाहुर् इक्ष्वाकुकुलवर्धनः
रावणं सगणं हत्वा दिवमाक्रमताभिभूः
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः
अष्टाविंशे युगे राजञ् जज्ञे श्रीवत्सलक्षणः
पेशलश्च वदान्यश्च लोके बहुमतो नृषु
स्मृतिमान् देशकालज्ञश् शङ्खचक्रगदासिधृक्॥
वासुदेव इति ख्यातो लोकानां हितकृत् सदा
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया
स नृणामभयं दाता मधुहेति स विश्रुतः
शकटार्जुनरामाणां कीलस्थानान्यसूदयत्
कंसादीन् निजघानाजौ दैत्यान् मानुषविग्रहान्
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः
कलेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते
पाषण्डिनां गणानां हि वधार्थं भरतर्षभ
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया
एते चान्ये च बहवो विष्णोर्देवगणैर्युताः
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः