वैशम्पायनः-
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः
उवाच मतिमान् भीष्मं ततः कौरवनन्दनः
युधिष्ठिरः-
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह
कर्मणामानुपूर्व्यं च प्रादुर्भावांश्च मे विभोः
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह
वैशम्पायनः-
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभम्
युधिष्ठिरममित्रघ्नं तस्मिन् राजसमागमे
समक्षं वासुदेवस्य देवस्येव शतक्रतोः
कर्माण्यसुकराण्यन्यैर् आचचक्षे जनाधिप
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते
साम्नैवामन्त्र्य राजेन्द्र चेदिराजमरिन्दमम्
भीमकर्मा ततो भीष्मो भूयस्स इदमब्रवीत्
कुरूणां चापि राजानं युधिष्ठिरमुवाच ह
भीष्मः-
वर्तमानामतीतां च शृणु राजन् युधिष्ठिर
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम्
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः
पुरा नारायणो देवस् स्वयम्भूः प्रपितामहः
सहस्रशीर्षः पुरुषो ध्रुवोऽव्यक्तस्सनातनः
सहस्राक्षस्सहस्रास्यस् सहस्रचरणो विभुः
सहस्रबाहुस्साहस्रो देवो नामसहस्रवान्
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः
अनेकवर्णो देवादिर् अव्यक्ताद्वै परे स्थितः
असृजत् सलिलं पूर्वं स च नारायणः प्रभुः
ततस्तु भगवांस्तोये ब्रह्माणमसृजत् स्वयम्
ब्रह्मा चतुर्मुखो लोकान् सर्वांस्तानसृजत् स्वयम्
आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः
पुराऽथ प्रलये प्राप्ते नष्टे स्थावरजङ्गमे
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान्
एकस्तिष्ठति सर्वात्मा स तु नारायणः प्रभुः
नारायणस्य चाङ्गानि सर्वदैवानि भारत
शिरस्तस्य दिवं राजन् नाभिः खं चरणौ मही
अश्विनौ कर्णयोर्देवौ चक्षुषी शशिभास्करौ
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः
अन्यानि सर्वदैवानि सर्वाङ्गानि महात्मनः
सर्वं व्याप्य हरिस्तस्थौ सूत्रं मणिगणानिव
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोन्वितम्
नारायणो महायोगी सर्वज्ञः परमात्मवान्
ब्रह्मभूतस्तदाऽऽत्मानं ब्रह्माणमसृजत् स्वयम्
सोऽध्यक्षस्सर्वभूतानां प्रभूतः प्रभवोऽच्युतः
सनत्कुमारं रुद्रं च मनुं चैव तपोधनान्
सर्वमेवासृजद्ब्रह्मा तथा लोकान् प्रजास्तथा
ते च तद्व्यसृजंस्तत्र प्राप्ते काले युधिष्ठिर
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम्
कल्पानां बहुकोट्यश्च समतीता हि भारत
आभूतसम्प्लवाश्चैव बहु कोट्योऽतिचक्रमुः
मन्वन्तरयुगेऽजस्रं सङ्कल्पा भूतसम्प्लवाः
चक्रवत् परिवर्तन्ते सर्वं विष्णुमयं जगत्
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः
ब्रह्मा च सर्वदेवानां लोकस्य च पितामहः
ततो नारायणो देवस् सर्वस्य प्रपितामहः
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः
नारायणो जगच्चक्रे प्रभवाप्ययसंहितः
एष नारायणो भूत्वा हरिरासीद्युधिष्ठिर
ब्रह्माणं शशिसूर्यौ च धर्मं चैवासृजत् स्वयम्
बहुशस्सर्वभूतात्मा प्रादुर्भवति कार्यतः
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान् देवगणैर्युतान्
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान्
पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः
ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च
देवान् सप्त ऋषींश्चैव शङ्करं च महायशाः
सनत्कुमारं भगवान् मनुं चैव प्रजापतिम्
पुरा चक्रेऽथ देवादीन् प्रदीप्ताग्निसमप्रभः
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे
नष्टदेवासुनरे प्रणष्टोरगराक्षसे
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैठभौ
हतौ भगवता तेन तयोर्दत्त्वा वृतं वरम्
भूमिं बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ
कर्णस्रोतोद्भवौ तौ तु विष्णोस्तस्य महात्मनः
महार्णवे प्रस्वपतश् शैलराजसमौ स्थितौ
तौ विवेश स्वयं वायुर् ब्रह्मणा साधु चोदितः
तौ दिवं छादयित्वा तु ववृधाते महाऽसुरौ
वायुप्राणौ तु तौ दृष्ट्वा ब्रह्मा पर्यामृशच्छनैः
एकं मृदुतरं विद्धि कठिनं विद्धि चापरम्
नामनी तु तयोश्चक्रे स विभुस्सलिलोद्भवः
मृदुस्त्वयं मधुर्नाम कठिनः कैठभस्स्वयम्
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ
तौ पुराऽथ दिवं सर्वां प्राप्तौ राजन् महासुरौ
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैठभौ
सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत
स पद्मे पद्मनाभस्य नाभिदेशात् समुत्थिते
आसीदादौ स्वयं जन्म तत् पङ्कजमपङ्कजम्
पूजयामास वसतिं ब्रह्मा लोकपितामहः
तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ
बहून्वर्षायुतानप्सु शयानौ न चकम्पतुः
अथ दीर्घस्य कालस्य तावुभौ मधुकैठभौ
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः
तौ दृष्ट्वा लोकनाथस्तु कोपात् संरक्तलोचनः
उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः
तद्युद्धमभवद्घोरं तयोस्तस्य च वै तदा
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते
तदभूत् तुमुलं युद्धं वर्षसङ्घान् सहस्रशः
न च तावसुरौ युद्धे तदा श्रममवापतुः
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम्
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ
तयोस्स वचनं श्रुत्वा तदा नारायणः प्रभुः
तौ प्रगृह्य मृधे दैत्यौ दोर्भ्यां तौ समपीडयत्
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैठभौ
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ
मेदौ मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा
नारायणश्च भगवान् असृजद्विविधाः प्रजाः
दैत्ययोर्मेदसा छन्ना सर्वा राजन् वसुन्धरा
तदाप्रभृति कौन्तेय मेदिनीति स्मृता मही
प्रभावात् पद्मनाभस्य शाश्वती च कृता नृणाम्