शिशुपालः-
वैशम्पायनः-
युधिष्ठिरः-
नायमर्हति गोविन्दस् तिष्ठत्स्विह महात्मसु
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्
महीपतिषु कौरव्य अराजा पार्थिवार्हणम्
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्
नायं युक्तस्समाचारः पाण्डवेषु महात्मसु
अधर्मश्च परो राजन् पारुष्यं तु निरर्थकम्
यत् कामाद्देवकीपुत्रं पाण्डवार्चितुमर्हसि
बाला यूयं न जानीध्वं धर्मं सूक्ष्मं हि पाण्डवाः
न हि धर्मं परं जातु नावबुध्येत पार्थिवः
अयमत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः
भीष्मं शान्तनवं त्वेनं मा वमंसीरतोऽन्यथा
त्वादृशे धर्मयुक्ते हि कुर्वाणः प्रियकाम्यया
पश्य चैतान् महीपालांस् त्वत्तो वृद्धतमान् बहून्
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतस्सताम्
मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुमर्हसि
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्
अर्हणामर्हति तथा यथा युष्माभिरर्चितः
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः
भीष्मः
अथवा मन्यसे कृष्णं स्थविरं भरतर्षभ
न चास्यानुनयो देयो नायमर्हति सान्त्वनाम्
वसुदेवे स्थिते वृद्धे कथमर्हति तत् सुतः
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते
अथवा वासुदेवोऽयं प्रियकामोऽनुवृत्तवान्
क्षत्रियः क्षत्रियाञ्जित्वा रणे रणकृतां वरः
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः
आचार्यं मन्यसे कृष्णम् अथवा कुरुपुङ्गव
अस्यां हि समितौ राज्ञाम् एकमप्यजितं युधि
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि
न पश्यामि महीपालं कृष्णेनाक्लिष्टकरमणा
ऋत्विजं मन्यसे कृष्णम् अथवा कुरुपुङ्गव
न हि केवलमस्माकम् अर्चितव्यो जनार्दनः
द्वौपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया
त्रयाणामपि लोकानाम अर्चनीयो महाभुजः
भीष्मे शान्तनवे राजन् स्थिते पुरुषसत्तमे
कृष्णेन विजिता युद्धे बहवः क्षत्रियर्षभाः
स्वच्छन्दमृत्युके तस्मिन् कथं कृष्णोऽर्चितस्त्वया
जगत् सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्
कृपे च भरताचार्ये कथं कृष्णोऽर्चितस्त्वया
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे
तस्मात् सत्स्वपि वृद्धेषु सम्पूज्यः कृष्ण एव सः
कथं कृष्णस्त्वया राजन्नर्चितो यदुनन्दनः
एवं वक्तुं न चार्हस्त्वं मा भूत् ते बुद्धिरीदृशी
ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः
द्रुमे किम्पुरुषाचार्ये कथं कृष्णस्त्वयार्चितः
यस्य राजन् प्रभावज्ञाः पुरा सर्वे च रक्षिताः
अयं पार्थादनवमो धनुर्वेदे पराक्रमे
तेषां कथयतां शौरेर् अहं गुणवतो गुणान्
एकलव्ये स्थिते राजन् कथं कृष्णस्त्वयाऽर्चितः
समागतानामश्रौषं बहून् बहुमतान् सताम्
भगदत्ते महावीर्ये जयत्सेने च मागधे
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः
कालिङ्गे च स्थिते राजन् कथं कृष्णस्त्वयाऽर्चितः
बहूनि कथ्यमानानि नरैर्भूयश्श्रुतानि मे
पूर्वदेशाधिपे वीरे कौसलेन्द्रे बृहद्बले
न केवलं भयात् कामाच् चेदिराज जनार्दनम्
विराटे च स्थिते वीरे कथं कृष्णोऽर्चितस्त्वया
न सम्बन्धं पुरस्कृत्य कृत्यार्थं वाऽपि कञ्चन
अर्चयामोऽर्चितं सद्भिर् भुवि भौमसुखावहम्
भीष्मके च दुराधर्षे पाण्ड्ये च कृतधन्वनि
यशश्शौर्यं बलं चास्य विज्ञायार्चां प्रयुञ्ज्महे॥
नृपे च रुक्मिणि श्रेष्ठे दन्तवक्त्रे च पार्थिवे
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयाऽर्चितः
सुराष्ट्राधिपतौ वीरे मालवे च स्थिते नृपे
न हि कश्चिदिहास्माभिस् सुखं लोड्य परीक्ष्य वै
कृतक्षणे च वैदेहे कथं कृष्णस्त्वयाऽरचितः
गुणैरन्यानतिक्रम्य हरिरर्च्यतमो मतः
अयं च सर्वराज्ञां यो बलश्लाघी महारथः
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः
जामदग्न्यस्य दयितश् शिष्यो विप्रस्य भारत
वैश्यानां धान्यधनवाञ् शूद्राणामेव जन्मतः
युज्येते तौ च कृष्णे वै हेतू द्वावपि सम्मतौ
येनात्मबलमाश्रित्य जरासन्धो युधा जितः
नृणां हि लोके कश्चास्ति विशिष्टः केशवादृते
तं कर्णं समतिक्रम्य कथं कृष्णस्त्वयाऽर्चितः
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम्
दानं दाक्ष्यं श्रुतं वीर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा
स्थिते साल्वे च राजेन्द्रे कथं कृष्णोऽर्चितस्त्वया
सन्नतिश्श्रीर्धृतिः पुष्टिस् तुष्टिश्च नियताऽच्युते
अस्मिन् पार्थसखे राजन् गन्धर्वाणां महीपतौ
तमिमं लोकसम्पन्नम् आचार्यं पितरं गुरुम्
स्थिते चित्रेरथे वीरे कथं कृष्णस्त्वयाऽर्चितः
अर्च्यमर्चितमर्चामस् सर्वे सम्मन्तुमर्हथ
बाह्लीकं स्तविरं वीरं कौरवाणां महारथम्
ऋत्विग्गुरुस्तथाऽऽचार्यस् स्नातको नृपतिः प्रियः
सौमदत्तिं महावीर्यं सोमदत्तं महारथम्
सर्वमेतद्धृषीकेशस् तस्मादभ्यर्चितोऽच्युतः
शकुनिं सोबलं चैव सिन्धुराजं महाबलम्
कृष्ण एव हि लोकानाम् उत्पत्तिरपि चाप्ययः
एतावावमतान् कृत्वा कथं कृष्णोऽर्चितस्त्वया
कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्
न हि चर्त्विङ् न चाचार्यो न राजा मधुसूदनः
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः
न स्नातको न जामाता कथं कृष्णोऽर्चितस्त्वया
परश्च सर्वभूतेभ्यस् तस्माद्वृद्धतमोऽच्युतः
बुद्धिर्मनो महान् वायुस् तेजोऽम्भः खं मही च या
अर्चितश्च कुरुश्रेष्ठ किमन्यत् प्रियकाम्यया
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्
अथवाऽभ्यर्चनीयोऽयं युष्माभिर्वृष्णिपुङ्गवः
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये
किं राजभिरिहानीतैर् अवमानाय भारत
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्
वयं तु न भयादस्य कौन्तेयस्य महात्मनः
एष रुद्रश्च सर्वात्मा ब्रह्मा चैष सनातनः
प्रयच्छाम करान् सर्वे न लोभान्न च सान्त्वनात्
अक्षरः क्षररूपेण मानुषत्वमुपागतः
अस्य धर्मप्रधानस्य पार्थिवत्वं चिकीर्षतः
अयं तु पुरुषो बालश् शिशुपालो न बुध्यते
करानस्मै प्रयच्छाम सोऽयमस्मान् न मन्यते
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते
किमन्यदवमनानाद्धि यदीत्थं राजसंसदि
यो हि धर्मं विचिनुयाद उत्कृष्टं मतिमान् नरः
अप्राप्तलक्षणं कृष्णम् अर्घ्येणार्चितवानसि
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु
को हि धर्मच्युते पूजाम् एवं युक्तां प्रयोजयेत्
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्
योऽयं वृष्णिकुले जातो राजानं हतवान् पुरा
अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति
जरासन्धं महात्मानमa अन्यायेन दुरात्मवान्
सुकृतां वा यथान्यायं तथाऽयं कर्तुमर्हति
वैशम्पायनः
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्
एवमुक्ते तु गाङ्गेये शिशुपालश्चुकोप ह
कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात्
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत् तदा
सहदेवः-
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः
नीतिपूर्वमिदं सर्वं चेदिराज मया कृतम्
राज्ञां तु मध्ये पूजां ते कृतवन्तो गरीयसीम्
न मे विमतिरस्तीह कारणं चात्र मे शृणु
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि
अथवा कृपणैरेताम् उपनीतां जनार्दन
स पार्थिवानां सर्वेषां गुरुः कृष्णो बलेन वै
पूजामनर्हः कस्मात् त्वम् अभ्यनुज्ञातवानसि
तस्मादभ्यर्चितोऽर्ध्यार्हस् सर्वे सम्मन्तुमर्हथ
अयुक्तामात्मनः पूजां त्वं कस्माद्बहुमन्यसे
यो वा न सहते राज्ञां कश्चित् सबलवाहनः
हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने
क्षिप्रं युद्धाय निर्यातु शक्तश्चेदत्र मे युधि
तस्य मूर्ध्नि सुसन्न्यस्तं राज्ञस्सव्यं पदं मया
न त्वं पार्थिवेन्द्राणाम् अवमानः प्रयुज्यते
एवमुक्तो मया हेतुर् उत्तरं प्रब्रवीतु मे
त्वामेव कुरवो व्यक्तं प्रहसन्ते जनार्दन
वैशम्पायनः-
क्लीबे दारक्रिया यादृग् अन्धे वा रूपदर्शनम्
ततो न व्याजहारैषां कश्चिद् बुद्धिमतां सताम्
अराज्ञो राजवत् पूजा तथा ते मधुसूदन
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे
पुष्पवृष्टिर्महत्यासीत् सहदेवस्य मूर्धनि
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः
एवमुक्ते सुनीथस्य सहदेवेन केशवे
वासुदेवोऽप्ययं दृष्टस् सर्वमेतद्यथातथम्
स्वभावरक्ते नयने भूयो रक्ते बभूवतुः
वैशम्पायनः-
इत्युक्त्वा शिशुपालस्तान् उत्थाय परमासनात्
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान्
निर्ययौ सदसस्तस्मात् सहितो राजभिस्तदा
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान् गुणान्
स सुनीथं समामन्त्र्य तांश्च सर्वान् महीक्षितः
उवाच वदतां श्रेष्ठ इदं मतिमतां वरः
सहदेवेन राजानो यदुक्तं केशवं प्रति
तत् तथेति विजानीध्वं भूयश्चात्र विबोधत