वैशम्पायनः-
एवं निर्जित्य पृथिवीं भ्रातरः कुरुनन्दन
वर्तमानस्स्वधर्मेण शशासुः पृथिवीमिमाम्
चतुर्भिर्भीमसेनाद्यैर् भ्रातृभिस्सहितो नृपः
अनुगृह्य प्रजास्सर्वास् सर्ववर्णानगोपयत्
अविरोधेन सर्वेषां हितं चक्रे युधिष्ठिरः
क्रीयतां दीयतां सर्वं मुक्त्वा कोपं बलं विना
साधुधर्मेति पार्थस्य नान्यच्छ्रूयत भाषितम्
एवंवृत्ते जगत् तस्मिन् पितरीवान्वरज्यत
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः
बलीनां सम्यगादानाद् धर्मतश्चानुशासनात्
निकामवर्षी पर्जन्यस् स्फीतो जनपदोऽभवत्
सर्वारम्भास्सम्प्रवृत्ता नीरजो निरुपद्रवाः
स्वादुसस्या च पृथिवी बहुपुष्पफला द्रुमाः
ब्राह्मणा यज्ञसन्तानाः कृषिगोरक्षणं वणिक्
विशेषात्सर्वमेवैतत् सञ्जज्ञे राजकर्मणा
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्
राजवल्लभतश्चैव श्रूयते न मृषा क्रिया
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्
सर्वमेतत् तदा नासीद् धर्मनित्ये युधिष्ठिरे
मनस्तुष्टिं कथं गच्छेद् इत्येवं मनसा नराः
सर्वात्मना प्रियाण्येव कर्तुं समुपचक्रमुः
धर्मैर्धनागमैस्तस्य ववृधे निचयो महान्
कर्तुं यद्धि न शक्येत क्षयं वर्षशतैरपि
कोशस्य च परीमाणं गोष्ठस्य च महीपतिः
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे
सुहृदश्चैव तं सर्वे पृथक्च सहचाब्रुवन्
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः
ऋषिः पुराणो वेदात्मा दृश्यश्चात्मनि जानताम्
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह
भूतभव्यभवन्नाथः केशवः केशिसूदनः
प्रधानस्सर्वलोकानां भोजवृष्ण्यन्धकाग्रणीः
सर्वेषामिष्टदो लोके आपत्स्वभयदोऽरिहा
बलाधिकारे निक्षिप्य सम्यन्यानकदुन्दुभिम्
उच्चावचमुपादाय धर्मराजाय माधवः
धनौघं पुरुषव्याघ्रो बलेन महता वृतः
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्
नादयन् रथघोषेण प्रविवेश पुरोत्तमम्
असूर्यमिव सूर्येण निवातमिव वायुना
कृष्णेन समुपेतेन जहृषे भारतं पुरम्
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः
धौम्यद्वैपायनमुखैर् ऋत्विग्भिः पुरुषर्षभः
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्
युधिष्ठिरः-
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्
सोऽहमिच्छामि तत् सर्वं विधिवद्देवकीसुत
उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि
स दीक्षापय गोविन्द त्वमात्मानं महाभुज
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्
वैशम्पायनः-
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्
भगवान्-
त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम्
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्
यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते
नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः
युधिष्ठिरः-
सफलः कृष्ण सङ्कल्पस् सिद्धिश्च नियता मम
यस्य मे त्वं हृषीकेश यथेप्सितमवस्थितः
वैशम्पायनः-
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिस्सह
ईजितुं राजसूयाय साधनान्युपचक्रमे
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः
युधिष्ठिरः-
अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः
तथोपकरणं सर्वं मङ्गलानि च सर्वशः
अथ यज्ञार्थसम्भारान् दौम्योक्तान् क्षिप्रमेव हि
समानयन्तु पुरुषा यथायोगं यथाक्रमम्
इन्द्रसेनो विशोकश्च रुक्मश्चार्जुनसारथिः
समीको ध्वजसेनश्च पञ्च सारथिपुङ्गवाः
अन्नाद्याहरणे युक्तास् सन्तु मत्प्रियकाम्यया
सर्वे भक्ष्याश्च पेयाश्च रसगन्धसमन्विताः
मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम
वैशम्पायनः-
तद्वाक्यसमकालं तु सर्वं कृतमवेदयत्
सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि
ततो द्वैपायनो राजन् ऋत्विजस्समुपानयत्
वेदानिव महाभागान् साक्षान्मूर्तिमतो द्विजान्
स्वयं ब्रह्मत्वमकरोत् तस्य सत्यवतीसुतः
मूर्तिमान् सामवेदोऽथ वेदवेदाङ्गपारगः
धनञ्जयानामृषभस् सुसामा सामगोऽभवत्
याज्ञवल्क्यो बभूवास्य ब्रह्मिष्ठोऽध्वर्युसत्तमः
पैलो होता वसोः पुत्रो रैभ्यो ब्राह्मणसत्तमः
एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ
बभूवुर्ऋत्विजस्सर्वे वेदवेदाङ्गपारगाः
स्वयं च भगवान् व्यासश् शिष्यैस्सर्वैः पुरस्कृतः
कृष्णद्वैपायनो राजन् सादस्यमकरोत् प्रभुः
ते प्रीयमाणाः पुण्याहम् वाचयित्वा महाव्रताः
शास्त्रोक्तं पूजयामासुस् तद्देवयजनं महत्
तत्र चक्रुरनुज्ञाताश् शरणान्यथ शिल्पिनः
रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम्