वैशम्पायनः-
नकुलस्य च वक्ष्यामि कर्माणि विजयं तथा
वासुदेवजितामाशां यथाऽसावजयत् पुनः
निर्याय खाण्डवप्रस्थात् प्रतीचीं दिशमच्युतः
उद्दिश्य मतिमान् प्रायान् महत्या सेनया सह
सिंहनादेन महता योधानां गर्जितेन च
रथनेमिनिनादेन कम्पयन् वसुधामिमाम्
ततो बहु धनं रम्यं गवाश्वबहुधान्यवत्
कार्तिकेयस्य दयितं रोहिणीकमुपाद्रवत्
तत्र युद्धं महद्दत्तं शूरैर्मत्तमयूरकैः
मरुभूमिं स कार्त्स्न्येन तथा च बहुधान्यकम्
शैरीषकं च हैमं च वशे चक्रे महाद्युतिः
लिलन्धान् वटधानांश्च दूतैरेव जिगाय तान्
शिबींस्त्रिगर्तानम्बष्ठान् मालवान् पञ्च कर्पटान्
तथा मध्यनिकायांश्च औपावृतगणानथ
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः
गणानुत्सवसङ्केतान् अजयत् पाण्डवर्षभः
सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्
वर्तयन्ति च ये मत्स्यैर् ये च पर्वतवासिनः
कृत्स्नं पञ्चनदं चैव मित्रभोगं तथैव च
तथा सिंहनदं चैव तथैव परपत्तनान्
दूतैरेव वशे चक्रे नकुलः कुलनन्दनः
उत्तरज्योषिकं चैव तथा वेण्णाकटं पुरम्
द्वारपालं च तरसा वशे चक्रे महाद्युतिः
रामठान् हारहूणांश्च प्रतीच्याश्चैव ये नृपाः
तान् सर्वान् स वशे चक्रे नकुलः पाण्डवर्षभः
अरणं चैव रोमं च यवनानां पुराणि च
लम्बकान् देशकांश्चैव बन्धकांश्च नरोत्तमः
दूतैरेव वशे चक्रे करं चैनानदापयत्
तत्रस्थः प्रेषयामास वासुदेवाय चाभिभूः
स चास्य यादवैस्सार्धं प्रतिजग्राह शासनम्
ततश्शाकलमभ्येत्य मद्राणां पुटभेदनम्
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे वशी
तस्मिन् स सत्कृतो राज्ञा सत्कारार्हो विशाम्पते
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः
ततस्सागरकुक्षिस्थान् म्लेच्छान् परमदारुणान्
पप्लवान् बर्बरांश्चैव तान् सर्वाननयद्वशम्
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान्
न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवत्
करभाणां सहस्राणि कोशं तस्य महात्मनः
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम्
इन्द्रप्रस्थगतं वीरम् अभ्यगच्छद् युधिष्ठिरम्
हृष्टो माद्रीसुतश्श्रीमान् धनं तस्मै न्यवेदयत्
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम्
अजयत् वासुदेवेन निर्जितां भरतर्षभ