वैशम्पायनः-
तथैव सहदेवोऽपि धर्मराजेन पूजितः
महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम्
स शूरसेनान् कार्त्स्न्येन पूर्वमेवाजयत् प्रभुः
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली
अधिराजाधिपं चैव दन्तवक्त्रं महाहवे
जिगाय करदं चैव स्वराज्ये न्यवेशयत्
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्
तथैवापरमत्स्यांश्च व्यजयच्च पटच्चरान्
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा
तरसा व्यजयद्धीमाञ् श्रेणिमन्तं च पार्थिवम्
नवराष्ट्रान् विनिर्जित्य कुन्तिभोजमुपाद्रवत्
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम्
ततश्चर्मण्वतीतीरे जम्भकस्यात्मजं नृपम्
ददर्श वासुदेवेन क्रोधितं पूर्ववैरिणा
चक्रे स तेन सङ्ग्रामं सह भोजेन भारत
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ
मोकान् परममोकांश्च व्यजयत् स पुनः पुनः
करं तेभ्य उपादाय रत्नानि विविधानि च
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै
ततस्तेनैव सहितो नर्मदामभितो ययौ
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ
जिगाय समरे वीरौ पाण्डवेयः प्रतापवान्
ततो रत्नान्युपादाय पुरं भोजकटं ययौ
तत्र युद्धमभूत् तात दिवसद्वयमच्युत
विनिर्जित्य दुराधर्षं भीष्मकं माद्रिनन्दनः
कोसलाधिपतिं चैव तथा वेण्णातटाधिपम्
क्रान्तकांश्च रणे जित्वा तथा प्राकोटकान् नृपान्
बालकेयान् वशे कृत्वा तथा हेरम्बकानपि
स्वरूपं च विनिर्जित्य धर्मग्रामान् सकौसलान्
तैत्तिरानर्धपांश्चैव शम्बरांश्च सहस्रशः
तांस्तानाटविकान् सर्वान् अजयत् पाण्डुनन्दनः
कारण्डमेयं च नृपं तथा चक्रपुरेऽजयत्
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुनः
ततस्तु पत्तनं प्राप्य सहदेवः प्रतापवान्
युयुधे च द्रुमेन्द्रेण दिवसं नकुलानुजः
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्
गुहामासादयद्राजन् किष्किन्धां लोकविश्रुताम्
पुरा वानरराजेन सुग्रीवेणाभिपालिताम्
ततः कोसलराजस्य रामस्यैवानुगेन च
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्
तत्र वानरराजाभ्यां सुषेणेनाङ्गदेन च
युयुधे दिवसान् सप्त न च तौ विमुखीकृतौ
ततस्तुतोष सुग्रीवः कोसलाधिपतेस्सखा
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः
गच्छ पाण्डवशार्दूलः कृष्णस्यानुमते स्थितः
धर्मराजः प्रियो यस्माद् विष्णोरमिततेजसः
सर्वमेतच्छ्रुतं राजन् पारम्पर्येण पाण्डव
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः
अविघ्नमस्तु यज्ञाय धर्मराजस्य धीमतः
इत्युक्त्वा वानरौ तौ तु ददतुर्धनमक्षयम्
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ
तत्र नीलेन राज्ञा स युद्धं चक्रे नरर्षभः
पाण्डवः परवीरघ्नस् सहदेवः प्रतापवान्
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम्
सैन्यक्षयकरं चैव प्राणानां संशयावहम्
तत्र नीलस्य साहाय्यं भगवान् हव्यवाहनः
चक्रे भरतशार्दूल बहुरूपत्वमास्थितः
ततो रथा हया नागाः पुरुषाः कवचानि च
प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा
ततस्सुसम्भ्रान्तमना बभूव कुरुनन्दनः
एवमग्निर्वरं प्रादात् स्त्रीणामप्रतिवारणम्
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय
जनमेजयः-
किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज
वैशम्पायनः-
तत्र माहिष्मतीवासी भगवान् हव्यवाहनः
श्रूयते निगृहीतो वै पुरस्तात् पारदारिकः
नीलस्य राज्ञः पूर्वेषाम् उपनीतश्च सोऽभवत्
तदा ब्राह्मणरूपेण रममाणो यदृच्छया
तं तु राजा यथाशास्त्रम् अशासद्धार्मिकस्तदा
प्रजज्वाल ततः कोपाद् भगवान् हव्यवाहनः
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम्
चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः
वरेण च्छन्दयामास तं नृपं स्विष्टकृत् तदा
अभयं वै स जग्राह परसैन्यान्महीपतिः
तदा प्रभृति ये केचिद् अज्ञानात् तां पुरीं नृपाः
जिगीषन्ति बलाद्राजंस् ते दह्यन्ते स्म वह्निना
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह
बभूवुरनतिग्राह्या योषितश्छन्दतः किल
स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत
वर्जयन्ति च राजानस् तद्राज्यं पुरुषोत्तम
भयादग्नेर्महाराज तदाप्रभृति सर्वदा
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्
अप्रतप्तमना राजन् नाकम्पत यथा गिरिः
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकं तदा
सहदेवः-
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन् नमोस्तु ते
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक
पावनात् पावकश्चासि वहनाद्धव्यवाहनः
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि
चित्रभानुस्सुरेशश्च अनलस्त्वं विभावसो
अग्निर्दुस्पर्शनश्चासि हुताशो ज्वलनश्शिखी
वैश्वानरस्त्वं पिङ्गेशो भूरितेजाः प्लवङ्गमः
कुमारगर्भो भगवान् रुक्मगर्भो हिरण्यकृत्
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन
वैशम्पायनः-
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्
विधिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत्
प्रमुखे सर्वसैन्यस्य भयोद्विग्नस्य भारत
न चैनमत्यगादग्निर् वेलामिव महोदधिः
तमभ्येत्य शनैरग्निर् उवाच कुरुनन्दनम्
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः
अग्निः-
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया
देवदेवस्य कृष्णस्य विष्णोरमिततेजसः
भुजमाश्रित्य यज्ञं तं चिकीर्षुं पाण्डुनन्दनम्
जानामि सहदेवाद्य कृतार्थो याहि साम्प्रतम्
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च
मया तु रक्षितव्येयं पूरी भरतसत्तम
यावद्राज्ञोऽस्य नीलस्य कुले वंशधरा इति
ईप्सितं ते करिष्यामि मनसः कुरुनन्दन
वैशम्पायनः-
तत उत्थाय धर्मात्मा प्राञ्जलिश्शिरसा नतः
पूजयामास माद्रेयः पावकं परमेश्वरम्
पावके विनिवृत्ते तु नीलो राजाऽभ्ययात् तदा
पावकस्याज्ञया चैनम् अर्चयामास पार्थिवः
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्
प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम्
माद्रीसुतस्ततः प्रायाद् विजयी दक्षिणां दिशम्
त्रैपुरं स वशे कृत्वा राजानममितौजसम्
निजग्राह महाबाहुस् तरसा पोतनेश्वरम्
आहुतिं कैशिकाचार्यं यत्नेन महता वृतः
वशे चक्रे महाबाहुस् सुराष्ट्राधिपतिं तदा
सुराष्ट्रविषयस्थस्सन् प्रेषयामास रुक्मिणे
राज्ञे भोजकटस्थाय महामात्राय धीमते
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय च
च चास्य ससुतो राजा प्रतिजग्राह शासनम्
प्रीतिपूर्वं महाबाहुर् वासुदेवमवेक्ष्य च
ततस्स रत्नान्यादाय पुनः प्रायाद्युधां पतिः
ततश्शूर्पारकं चैव गौणं चोपहृतं स्वयम्
वशे चक्रे महातेजा दण्डकं च महाबलः
सागरद्वीपवासांश्च नृपतीन् म्लेच्छयोनिजान्
निषादान् पुरुषादांश्च कर्णप्रावरणानपि
ये च कालमुखा नाम नरराक्षसयोनयः
कृत्स्नं गोल्लगिरिं चैव मुरचीपत्तनं तथा
द्वीपं ताम्राशयं चैव पर्वतं राजकं तथा
तिमिङ्गिलं च स नृपं वशे चक्रे महामतिः
एकपादांश्च पुरुषांस् तथा चैवोष्ट्रकण्टकान्
नगरीं सञ्जयन्तीं च पिच्छण्डं करवाटजम्
दूतैरेव वशे चक्रे करश्चैव कारयत्
भृगुकच्छगतो धीमान् दण्डेनामित्रकर्शनः
बर्बरान् वाशारानन्यान् द्वीपवासान् वशे वशी
कूलकान् दरदांश्चान्यान् सिन्दूरान् वनवासिनः
अश्मकान् मूलकांश्चैव विदर्भांश्च महाबलान्
दूतैरेव वशे चक्रे करे च विनिवेश्य सः
पाण्ड्यांश्च द्रमिलांश्चैव चोलांश्च सह केरलैः
सिंहलद्वीपगानन्यान् दूतैश्चक्रे वशे बलात्
ततः कुसृतिनीतिज्ञान् दक्षिणापथवासिनः
अजयत् संयुगे तत्र धर्ममार्गेण पाण्डवः
सर्वस्वं करमादाय तैरेव सहितो नृपः
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः
अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्
अपरं रोचमानं च यतमानं पुरोत्तमे
दूतैरेव वशे चक्रे करार्थे तानकारयत्
काननद्वीपगांश्चैव तरसा जित्य चाहवे
ताम्रपर्णी ततो गत्वा कन्यातीर्थमथापि च
दक्षिणां च दिशं सर्वां विजित्य कुरुनन्दनः
सहदेवस्ततो राजन् मन्त्रिभिस्सह तत्र वै
सम्प्रधार्य मह्बाहुस् सचिवैर्बुद्धिमत्तरैः
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत
अतिदीर्घो महाबाहुस् सर्वाभरणभूषितः
अभिवाद्य ततो राजन् सहदेवं घटोत्कचः
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत्
तं मेरुशिखराकारम् आगतं पाण्डुनन्दनः
प्रेषयामास हैडिम्बं पौलस्त्याय महात्मने
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्
तच्च कालकृतं ज्ञात्वा नावमन्यत बुद्धिमान्
ततस्सम्प्रेषयामास रत्नानि विविधानि च
चन्दनानि च दिव्यानि तथा कालगरूणि च
वासांसि च महार्हाणि मणींश्च सुमहाधनान्
जनमेजयः-
इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम
लङ्कायां च गतिं ब्रह्मन् पौलस्त्यस्य च दर्शनम्
वैशम्पायनः-
कावेरीदर्शनं चैव आनुपूर्व्याद्वदस्व मे
शृणु राजन् पुरा वृत्तं सहेदवस्य साहसम्
काननद्वीपगांश्चैव तरसा जित्य चाहवे
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ
ददर्श पुण्यतोयां वै कावेरीं सरितां वराम्
नानापक्षिगणैर्जुष्टां तापसैरुपशोभिताम्
साललोध्रार्जुनैर्बिल्वैर् जम्बूशाल्मलकिंशुकैः
कीचकैः कुशकाश्चैव पक्ष्मकैरुपशोभिताम्
अच्छैर्जलैश्शोणनिभां पावनाद्गङ्गया समाम्
कदम्बैस्सप्तवर्णैश्च काश्मर्यामलकैर्वृताम्
न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम्
बदरीभिश्च सम्पन्नाम् अश्वकर्णैश्च शोभिताम्
करञ्जतिन्त्रिणीकैश्च तालवृन्तैरलङ्कृताम्
शिरीषैः कुटजैर्निम्बैर् मधूकैः क्षीरकैर्वृताम्
पुन्नागैर्वकुलैः कुन्दैश् चम्पकैस्सर्वतो वृताम्
प्रियङ्ग्वशोकतिलकैर् अतिमुक्तैश्च शोभिताम्
असनैः कर्णिकारैश्च नागवृक्षैरलङ्कृताम्
केतकीभिः कुरवकैर् जातियूधिककन्दलैः
अङ्कोलैः करवीरैश्च पुन्नगैः पाटलैर्वृताम्
क्रमुकैरनालिकेरैश्च पनसाम्रैश्च शोभिताम्
चूतैः पुण्ड्रकपत्रैश्च कदल्याढकसंवृताम्
नीपैश्च वेतसैः कीर्णां नालकुन्दकुशैर्वृताम्
एवं बहुविधैर्वृक्षैर् दिव्यैरन्यैश्च शोभिताम्
हंसकारणडवैः कीर्णां कुररैस्सारसैश्शुकैः
चक्रवाकगणैर्जुष्टां प्लवैश्च जलवायसैः
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः
एवं खगैश्च बहुभिस् सङ्घुष्टां जलवासिभिः
आश्रमैर्बहुभिर्युक्तां चैत्यवृक्षैश्च शोभिताम्
सेवितां ब्राह्मणैश्शुभ्रैर् वेदवेदाङ्गपारगैः
क्वचित् तीररुहैर्वृक्षै र्मालाभिरिव शोभिताम्
पुष्पगुल्मलतोपेताम् अङ्गनामिव भूषणैः
क्वचित् पत्रचितैः पद्मैः क्वचित् सौगन्धिकोत्पलैः
नानापुष्परजोध्वस्तां प्रमदामिव भूषिताम्
रमणीयां तथा हृद्यां विहृतामपङसरोगणैः
प्राणिनां जीवनीं श्रेष्ठां पुलिनद्वीपशोभिताम्
कह्लारकुमुदैः फुल्लैः कमलैरुपशोभिताम्
अपरां स्वादुतोयां वै पुलिनद्वीपशौभिताम्
कावेरीं तादृशीं दृष्ट्वा प्रीतिमान् पाण्डवोऽब्रवीत्
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा इह
सहदेवस्तु तां तीर्त्वा नदीमनुचरैस्सह
दक्षिणं तीरमासाद्य गमनायोपचक्रमे
आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः
द्रमिलाः पुरुषा राजन्स् त्रियश्च प्रियदर्शनाः
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः
सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम्
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव
आश्चर्यभूतं ददृशुर् द्रमिडास्ते समाहिताः
रत्नैश्च विविधैरिष्टैर् भोगैरन्यैश्च सम्मतैः
गतमङ्गलयुक्ताभिस् स्तुवन्तो नकुलानुजम्
सहदेवस्तु तान् दृष्ट्वा द्रमिलानागतांस्तदा
विसृज्य तान् महाराज प्रस्थितो दक्षिणां दिशम्
दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम्
ततो रत्नान्युपादाय पाण्ड्यस्य विषयं ययौ
दर्शने सहदेवस्य न च तृप्ता नराः परे
गच्छन्तमनुगच्छन्तः प्रीत्या कौतूहलान्विताः
ततो माद्रीसुतो राजन् मृगसङ्घान् व्यलोकयत्
गजान् वनचरानन्यान् व्याघ्रान् कुष्णमृगान् बहून्
शुकान् मयूरान् दृष्ट्वा तु गृध्रानारण्यकुक्कुटान्
ततो देशं समासाद्य श्वशुरस्य महीपतेः
प्रेषयामास माद्रेयो दूतान् पाण्ड्याय वै तदा
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः
भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा
चित्राङ्गदेति विख्याता द्रमिला योषितां वरा
आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः
प्रेषयामास सम्प्रीत्या पूजा रत्नानि वै बहु
पाण्ड्योऽपि बहुरत्नानि दूतैस्सह मुमोच ह
मणिमुक्ताप्रवालांश्च शङ्खशुक्तियुतान् बहून्
तां दृष्ट्वा प्रीतिमान् पूजां पाण्डवोऽथ मुदा नृप
भ्रातुः पुत्रे बहून् रत्नान् अददात् बभ्रुवाहने
पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम्
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा
ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम्
स तं प्रदक्षिणं कृत्वा मलयं भरतर्षभ
लङ्घयित्वा तु माद्रेयस् ताम्रपर्णीं नदीं शुभाम्
प्रसन्नसलिलां दिव्यां सुशीतां चन्दनोद्वहाम्
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः
सहदेवस्ततो राजन् मन्त्रिभिस्सह भारत
सम्प्रधार्य महाबाहुस् सचिवैर्बुद्धिमत्तरैः
अनुमान्य स तां राजन् सहदेवस्त्वरान्वितः
चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम्
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत
अतिदीर्घो महाकायस् सर्वाभरणभूषितः
नीलजीमूतसङ्काशस् तप्तकाञ्चनकुण्डलः
विचित्रहारकेयूरः किङ्किणीमणिभूषितः
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः
ताम्रकेशो हरिश्मश्रुर् भीमाक्षः कनकाङ्गदः
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली
जवेन स ययौ तत्र चालयन्निव मेदिनीम्
ततो दृष्ट्वा जना राजन् आयान्तं पर्वतोपमम्
भयाद्धि दुद्रुवुस्सर्वे सिंहात् क्षुद्रमृगा यथा
आससाद च माद्रेयं पुलस्त्यं रावणो यथा
अभिवाद्य ततो राजन् सहदेवं घटोत्कचः
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत्
तं मेरुशिखराकारम् आगतं पाण्डुनन्दनः
सम्परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय चासकृत्
पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह
सहदेवः-
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात्
तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम्
रत्नानि राजसूयार्थं विविधानि बहूनि च
उपादाय च सर्वाणि प्रत्यागच्छ महाबल
नो चेदेवं वदेः पुत्र समर्थमिदमुत्तरम्
विष्णोर्भुजबलं वीक्ष्य राजसूयमथारभत्
कौन्तेयो भ्रातृभिस्सार्धं सर्वं जानीहि साम्प्रतम्
स्वस्ति तेऽस्तु गमिष्यामि सर्वं वैश्रवणानुज
इत्युक्त्वा शीघ्रमागच्छ मा भूत् कालस्य पर्ययः
वैशम्पायनः-
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः
तथेत्युक्त्वा महाराज प्रतस्थे दक्षिणां दिशम्
ययौ प्रदक्षिणं कृत्वा सहदेवं घटोत्कचः
लङ्कामभिमुखो राजन् समुद्रमवलोकयत्
कूर्मग्राहझषाकीर्णं नक्रैर्मीनैस्तथाऽऽकुलम्
शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम्
स दृष्ट्वा रामसेतुं च चिन्तयन् रामविक्रमम्
प्रणम्य तमतिक्रम्य याम्यां वेलामलोकयत्
गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम्
प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम्
प्रासादैर्बहुसाहस्रैश् श्वेतरक्तैश्च सङ्कुलाम्
तापनीयगवाक्षेण मुक्ताजालान्तरेण च
हैमराजतजालेन दान्तजालैश्च शोभिताम्
हर्म्यगोपुरसम्बाधां रुक्मतोरणसङ्कुलाम्
दिव्यदुन्दुभिनिर्ह्रादाम् उद्यानवनशोभिताम्
पुष्पगन्धैश्च सङ्कीर्णां रमणीयमहापथाम्
नानारत्नैश्च सम्पूर्णाम् इन्द्रस्येवामरावतीम्
विवेश स पुरीं लङ्कां राक्षसैश्च निषेविताम्
ददर्श राक्षसव्राताञ् शूलप्रासाधरान् बहून्
नानावेषधरान् दक्षान् नारीश्च प्रियदर्शनाः
दिव्यमाल्याम्बरधरा दिव्याभरणभूषिताः
मदरक्तान्तनयनाः पीनश्रोणिपयोधराः
भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः
आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम्
स द्वारपालमासाद्य वाक्यमेतदुवाच ह
घटोत्कचः-
कुरूणामृषभो राजा पाण्डुर्नाम महाबलः
कनीयांस्तस्य दायादस् सहदेव इति श्रुतः
कृष्णमित्रस्य तु गुरो राजसूयार्थमुद्यतः
तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च
द्रष्टुमिच्छामि पौलस्त्यं त्वं क्षिप्रं मां निवेदय
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा द्वारपालो महीपतेः
तथेत्युक्त्वा विवेशाथ भवनं स निवेदकः
साञ्जलिस्स समाचष्ट सर्वां दूतगिरं तदा
द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः
उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम्
एवमुक्तस्तु राजेन्द्र धर्मज्ञेन महात्मना
अथ निष्क्रम्य सम्भ्रान्तो द्वार्स्थो हैडिम्बमब्रवीत्
एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम्
द्वारपालवचश्श्रुत्वा प्रविवेश घटोत्कचः
स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम्
ततः कैलाससङ्काशं तप्तकाञ्चनतोरणम्
प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितम्
हर्म्यप्रासादसम्बाधं नानारत्नसमन्वितम्
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि
वज्रवैडूर्यजुष्टैश्च स्तम्भैर्दृष्टिमनोहरैः
नानाध्वजपताकाभिस् सुवर्णाभिश्च चित्रितम्
चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम्
तान् दृष्ट्वा तत्र सर्वान् स भैमसेनिर्मनोरमान्
प्रविशन्नेव हैडिम्बश् शुश्राव मुरवस्वनम्
तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम्
दिव्यदुन्दुभिनिर्ह्रादं वादित्र शतसगङ्कुलम्
स श्रुत्वा मधुरं शब्दं प्रीतिमान् अभवत् तदा
ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम्
स ददर्श महात्मानं द्वार्स्थेन भरतर्षभ
तं विभीषणमासीनं काञ्चने परमासने
दिव्ये भास्करसङ्काशे मुक्तामणिविभूषिते
दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम्
दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम्
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम्
उपोपविष्टं सचिवैर् देवैरिव शतक्रतुम्
यक्षैर्महारथैर्दिव्यैर् नारीभिः प्रियदर्शनैः
गीर्भिर्मङ्गलयुक्ताभिः पूज्यमानं यथादिवि
चामरे व्यजने चाग्र्ये हेमदण्डे महाधने
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि
अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम्
धर्मे चैव स्थितं नित्यम् अद्भुतं राक्षसेश्वरम्
राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा
दृष्ट्वा घटोत्कचो राजन् ववन्दे तं कृताञ्जलिः
प्रह्वस्तस्थौ महावीर्यश् शक्रं चित्ररथो यथा
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः
पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत्
विभीषणः-
कस्य वंशे नु सञ्जातः करमिच्छन् महीपतिः
तस्यानुजान् समस्तांश्च पुरं देशं च तस्य वै
त्वां च कार्यं च तत् सर्वं श्रोतुमिच्छामि तत्त्वतः
विस्तरेण मम ब्रूहि सर्वानेतान् पृथक् पृथक्
वैशम्पायनः-
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना
कृताञ्जलिरुवाचाथ सान्त्वयन् राक्षसाधिपम्
घटोत्कचः-
सोमस्य वंशे राजाऽऽसीत् पाण्डुर्नाम महाबलः
पाण्डोः पुत्राश्च पञ्चासञ् छक्रतुल्यपराक्रमाः
तेषां ज्येष्ठस्तु नाम्नाऽभूत् धर्मपुत्र इति श्रुतः
अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत्
गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः
भ्रातृभिस्सह राजेन्द्र शक्रप्रस्थे प्रमोदते
गङ्गायमुनयोर्मध्ये तावुभौ नगरोत्तमौ
नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशासति
तस्यानुजो महाबाहुर् भीमसेनो महाबलः
महातेजा महावीर्यस् सिंहतुल्यस्स पाण्डवः
दशनागसहस्राणां बले तुल्यस्स पाण्डवः
तस्यानुजोऽर्जुनो नाम महावीर्यपराक्रमः
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः
कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले
जामदग्न्यसमो ह्यस्त्रे सङ्ख्ये रामसमोऽर्जुनः
रूपे शक्रसमः पार्थस् तेजसा भास्करोपमः
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः
मानुषैश्च समस्तैश्ङच अजेयः फल्गुनो रणे
तेन तत् खाण्डवं दावं तर्पितं जातवेदसे
तरसा तर्पयित्वा तं शक्रं देवगणैस्सह
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्
तेन लब्धा महाराज दुर्लभा दैवतैरपि
वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता
अर्जुनस्यानुजो राजन् नकुलश्चेति विश्रुतः
दर्शनीयतमो लोके मूर्तिमानिव मन्मथः
तस्यानुजो महातेजास् सहदेव इति श्रुतः
तेनाहं प्रेषितो राजन् सहदेवेन मारिष
अहं घटोत्कचो नाम भीमसेनसुतो बली
मम माता महाभागा हिडिम्बा नाम राक्षसी
पार्थानामुपकारार्थं चरामि पृथिवीमिमाम्
आसीत् पृथिव्यास्सर्वस्या महीपालो युधिष्ठिरः
राजसूयं क्रतुश्रेष्ठम् आहर्तुमुपचक्रमे
सन्दिदेश च स भ्रातृन् करार्थं सर्वतोदिशम्
वृष्णिवीरेण सहितस् सन्दिदेशानुजान् नृपः
उदीचीमर्जुनस्तूर्णं करार्थं समुपाययौ
गत्वा शतसहस्राणि योजनानि महाबलः
जित्वा सर्वान् नृपान् युद्धे हत्वा च तरसा वशी
स्वर्गद्वारमुपागम्य रत्नान्यादाय वै भृशम्
अश्वांश्च विविधान् दिव्यान् सर्वानादाय फल्गुनः
धनं बहुविधं राजन् धर्मपुत्राय वै ददौ
भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात्
सहदेवो दिशं याम्यां जित्वा सर्वान् महीक्षितः
वशे कृत्वा महीपालान् पाण्डवाय धनं ददौ
मां सन्दिदेश राजेन्द्र करार्थमिह सत्कृतः
दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा
पार्थानां चरितं तुभ्यं सङ्क्षेपात् समुदाहृतम्
तमवेक्ष्य महाराज धर्मराजं युधिष्ठिरम्
पावकं राजसूयं च भगवन्तं हरिं प्रभुम्
एतानवेक्ष्य धर्मज्ञ करं दातुमिहार्हसि
वैशम्पायनः-
तेन तद्भाषितं श्रुत्वा राक्षसेन्द्रो विभीषणः
प्रीतिमानभवद्राजन् धर्मात्मा सचिवैस्सह
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्
तच्च कृष्णकृतं धीमान् इत्यमन्यत स प्रभुः
ततो ददौ विचित्राणि कम्बलानि कुथानि च
दान्तकाञ्चनपर्यङ्कान् मणिहेमविचित्रितान्
भूषणानि विचित्राणि महार्हाणि बहूनि च
प्रवालानि च शुभ्राणि मणींश्च विविधान् बहून्
काञ्चनानि च भाण्डानि कलशानि घटानि च
कटाहान्यपि चित्राणि द्रोण्यश्चैव सहस्रशः
राजतानि च भाण्डानि चित्राणि च बहूनि च
शस्त्राणि रुक्मचित्राणि मणिमुक्तैर्विचित्रितान्
यज्ञस्य तोरणे युक्तान् ददौ तालांश्चतुर्दश
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः
मुकुटानि महार्हाणि हेमवर्णांश्च कुण्डलान्
हेमपुष्पाण्यनेकानि रुक्ममाल्यानि चापरान्
शङ्खांश्च चन्द्रसङ्काशाञ् छतावर्तान् विचित्रिणः
चन्दनानि च मुख्यानि रुक्मरत्नान्यनेकशः
वासांसि च महार्हाणि कम्बलानि बहून्यपि
अन्यांश्च विविधान् राजन् रत्नानि च बहूनि च
स ददौ सहदेवाय तदा राजा विभीषणः
विभीषणं च राजानम् अभिवाद्य कृताञ्जलिः
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः
तानि सर्वाणि रत्नानि अष्टाशीतिर्निशाचराः
आजह्रुस्समुदा राजन् हैडिम्बेन तदा सह
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः
ततो रत्नान्युपादाय हैडिम्बो राक्षसैस्सह
जगाम तूर्णं लङ्कायास् सहदेवपदं प्रति
आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम्
सहदेवो ददर्शाथ रत्नाहारान् निशाचरान्
आगतान् भीमसङ्काशान् हैडिम्बं च तथा नृप
द्रमिला नैऋतान् दृष्ट्वा दुद्रुवुस्ते भयार्दिताः
भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिस्स्थितः
प्रीतिमानभवद्दृष्ट्वा रत्नौघं तं च पाण्डवः
तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान् प्रीतिमानभूत्
विसृज्य द्रमिलान् सर्वान् गमनायोपचक्रमे
न्यवर्तत ततो धीमान् सहदेवो नराधिपः
एवं विजित्य तरसा सान्त्वेन विजयेन च
करदान् पार्थिवान् कृत्वा प्रत्यागच्छदरिन्दमः
रत्नसालमुपादाय ययौ सह निशाचरैः
इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम्
दृष्ट्वा युधिष्ठिरं राजन् सहदेवः कृताञ्जलिः
प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चैव तेन वै
लङ्काप्राप्तान् धनौघांश्च दृष्ट्वा तान् दुर्लभान् बहून्
प्रीतिमानभवद्राजा विस्मयं च ययौ तदा
धर्मराजाय तत् सर्वं निवेद्य भरतर्षभ
कोटीसहस्रमधिकं हिरण्यस्य महात्मने
विचित्रांस्तु मणींश्चैव गोजाविमहिषांस्तथा
कृतकर्मा सुखं राजन्नुवास जनमेजय