वैशम्पायनः-
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति
महता बलचक्रेण परराष्ट्रविमर्दिना
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः
स गत्वा नरशार्दूलः पञ्चालानां पुरं महत्
पञ्चालान् विविधोपायैस् सान्त्वयामास पाण्डवः
किञ्चित् करं समादाय विदेहानां पुरं ययौ
ततस्स कण्टकीं वीरो विदेहांश्च नरर्षभः
विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः
तत्र दाशार्णको राजा सुवर्मा रोमहर्षणः
अद्भुतं कर्म भीमेन युधि चक्रे निरायुधम्
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परन्तप
बलं सर्वमवष्टभ्य परिचक्राम मण्डलम्
पोथयित्वा पुरं सर्वं सुवर्माणं ततोऽजयत्
अधिसेनापतिं चक्रे सुधर्माणं महाबलम्
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः
बलेन महता राजन् कम्पयन्निव मेदिनीम्
सोऽश्वमेधेश्वरं राजन् रोचमानं सहानुजम्
जिगाय समरे वीरो बलेन बलिनां वरः
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः
ततो दक्षिणमासाद्य पुलिन्दनगरं प्रति
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्
ततस्तु धर्मराजस्य शासनात् कुरुनन्दनः
शिशुपालं महाबाहुम् अभ्यगाज्जनमेजय
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्
उपनिष्क्रम्य नगरात् प्रत्यगृह्णात् परन्तपः
तौ समेत्य महाराज कुरुचेदिवृषौ तदा
उभयो राजकुलयोः कौशलं पर्यपृच्छताम्
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते
उवाच भीमं प्रहसन् किमिदं क्रियतेऽनघ
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्
स च तं प्रतिगृह्यैव तथा चक्रे परन्तप
भीमसेनस्तदा राजन्नुषित्वा त्रिदश क्षपाः
सत्कृतश्शिशुपालेन ययौ सबलवाहनः
वैशम्पायनः-
ततः कुमारविषये श्रेणिमन्तमथाजयत्
कोसलाधिपतिं चैव कौसल्यममितौजसम्
अयोध्यायां महीपालं दीर्घप्रज्ञं महाबलम्
अजयत् पाण्डवश्रेष्ठस् सततं भूरिदक्षिणम्
गोपालं चैव कौन्तेयो ह्यन्तपालं तथोत्तमम्
मल्लानामधिपं चैव कौसल्यं चाजयत् प्रभुः
ततो हिमवतः पार्श्वे देशान् बहुविधान् बहून्
सर्वानल्पेन यत्नेन वशे चक्रे बलाद्बली
एवं बहुविधान् देशान् विजित्य पुरुषर्षभः
कुन्तलानभितो जिग्ये कुक्षिमन्तं च पर्वतम्
पाण्डवस्सुमहावीर्यो बलेन बलिनां वरः
काशिराजं समेयाय सुबन्धुमनिवर्तिनम्
वशे चक्रे महाबाहुर् भीमो भीमपराक्रमः
ततस्सुपार्श्वमभितस् तथा राजपतिं क्रथम्
युध्यमानं बलात् सङ्ख्ये विजिग्ये पाण्डवर्षभः
ततः काशिपतीन् मत्स्यान् मालवानिह पाण्डवः
अनवद्यां गयां चैव पशुभूमिं च सर्वतः
निर्जित्य च महाबाहुर् अटवीं चैव पर्वतम्
गोपतेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान् बलात्
गर्गाणामधिपं चैव निषादाधिपतिं तथा
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान् बहून्
ततो दक्षिणमद्रांश्च भोगवन्तं च पाण्डवः
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा
शर्मगान् धर्मजांश्चैव सान्त्वेनैवाजयत् प्रभुः
वैदेहं चापि राजानं जनकं जगतीपतिम्
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्
किराताधिपतीन् सप्त व्यजयत् तत्र पाण्डवः
ततस्सुह्मान् प्रसुह्मांश्च समक्षांश्चापि वीर्यवान्
विजित्य युधि कौन्तेयो मागधानभ्ययाद्बली
दण्डं च दण्डधारं च विजिग्ये पृथिवीपतीन्
तथैव सहितस्सर्वैर् गिरिव्रजमुपाद्रवत्
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य सः
तैरेव सहितः पार्थः कर्णमभ्यगमद्बली
स कम्पयन्निव महीं बलेन चतुरङ्गिणा
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रकर्शिना
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
ततो विजिग्ये बलवान् राज्ञः पर्वतवासिनः
अथ मोदं गिरिपतिं राजानं वै महैजसम्
पाण्डवो बाहुवीर्येण निजघान महाबलः
ततः पुण्ड्राधिपं वीरं वासुदेवाख्यमाययौ
इदानीं वृष्णिवीरेण न योत्स्यामीति पौण्ड्रकः
कृष्णस्य भुजसन्त्रासात् करमाशु ददौ नृपः
कौशिकं कच्छनिलयं राजानं च महौजसम्
उभौ बलभृतां वीरावुभौ तीव्रपराक्रमौ
निर्जित्याजौ महावीर्यं वङ्गराजमुपाद्रवत्
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्
ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा
अङ्गानामधिपं चैव ये च सागरवासिनः
सर्वान् म्लेच्छगणांश्चैव विजिग्ये परुषर्षभः
किरातान् पुरुषादांश्च कर्णप्रावरणानपि
ये च काकमुखा नाम नरराक्षसयोनयः
किरातांस्तृणमूलांश्च किरातानोष्ठकर्णिकान्
एवं बहुविधान् देशान् विजित्य पुरुषर्षभः
वसून्येषामुपादाय लौहित्यमगद्बशी
स सर्वान् म्लेच्छनृपतीन् सागरानूपवासिनः
करमाहारयामास रत्नानि विविधानि च
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम्
काञ्चनं राजतं वज्रं विद्रुमं च महाधनम्
स कोटिशतसङ्ख्येन धनेन महता वृतः
अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम्
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः
निवेदयदमेयात्मा धर्मराजाय तद्धनम्