वैशम्पायनः-
स श्वेतपर्वतं वीरस् समतिक्रम्य भारत
देशं किम्पुरुषावासं रामपुत्रेण रक्षितम्
महता सन्निपातेन क्षत्रियान्तकरेण ह
अजयत् पाण्डवश्रेष्ठः करे चैव न्यवेशयत्
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्
पाकशासनिरव्यग्रस् ससैन्यो वशमानयत्
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्
ऋषिकुल्याश्च तान् सर्वान् ददर्श कुरुनन्दनः
मानसं सर आसाद्य हाटकानभितः प्रभुः
गन्धर्वरक्षितं देशम् अजयत् पाण्डवस्ततः
तत्र तित्तिरिकल्माषान् समुद्गाक्षान् हयोत्तमान्
लेभे स करमत्यन्तं गन्धर्वनगरात् तदा
हेमकूटमथासाद्य न्यविशत् फल्गुनस्तदा
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः
हरिवर्षं विवेशाथ सैन्येन महता वृतः
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान्
नगरांश्च वनांश्चैव नदीश्च विमलोदकाः
पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः
तान् सर्वांस्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयः
वशे चक्रेऽथ रत्नानि लेभे च सुबहूनि च
ततो निषधमासाद्य गिरिस्थानजयत् प्रभुः
अथ राजन्नतिक्रम्य निषधं शैलमायतम्
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम्
तत्र दिव्योपमान् दिव्यान् पुरुषान् देवदर्शनान्
अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः
सदनानि च शुभ्राणि नारीश्चाप्सरसन्निभाः
दृष्ट्वा तानजयद्रम्यान् स तैश्च ददृशे तदा
जित्वा च तान् महाभागान् करे च विनिवेश्य सः
रत्नान्यादाय दिव्यानि भूषणान्यासनैस्सह
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः
स ददर्श महामेरुं शिखराणां प्रभुं महत्
तं काञ्चनमयं दिव्यं चतुर्वर्णं दुरासदम्
आयतं शतसाहस्रं योजनानां तु सुस्थितम्
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्
आक्षिपन्तं प्रभां भानोस् स्वशृङ्गैः काञ्चनोज्ज्वलैः
काञ्चनाभरणं दिव्यं देवगन्धर्वसेवितम्
नित्यपुष्पफलोपेतं सिद्धचारण सेवितम्
अप्रमेयमनाधृष्यम् अधर्मबहुलैर्जनैः
व्यालैराचरितं घोरैर् दिव्यौषधिविदीपितम्
स्वर्गमावृत्य तिष्ठन्तम् उच्छ्रायेण महागिरिम्
अगम्यं मनसाऽप्यन्यैर् नदीवृक्षसमन्वितम्
नानाविहगसङ्घैश्च नादितं सुमनोहरैः
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत् तदा
मेरोरिलावृतं वर्षं सर्वतः परिमण्डलम्
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः
नित्यपुष्पफलोपेतस् सिद्धचारणसेवितः
आस्वर्गमुच्छ्रिता राजंस् तस्य शाखा वनस्पतेः
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति श्रुतम्
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ
प्रीतिमानभवद्राजन् सर्वतस्स विलोकयन्
तत्र लेभे ततो जिष्णुस् सिद्धैर्दिव्यैश्च चारणैः
रत्नानि बहुसाहस्रं वस्त्राण्याभरणानि च
अन्यानि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा
आमन्त्रयित्वा तान् सर्वान् यज्ञमुद्दिश्य वै गुरोः
अथादाय बहून् रत्नान् गमनायोपचक्रमे
मेरुं प्रदक्षिणं कृत्वा पर्वतप्रवरं प्रभुः
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन्
स तां मनोरमां हैमां जम्बूस्वादुरसावहाम्
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम्
हैमपङ्कां हैमजलां शुभां सौवर्णवालुकाम्
क्वचित् सौवर्णपद्मैश्च सङ्कुलां हेमपुष्पकैः
क्वचित् सुपुष्पितैः कीर्णां सुवर्णकुमुदोत्पलैः
क्वचित् तीररुहैः कीर्णां हैमवृक्षैस्सुपुष्पितैः
तीर्थैश्च रुक्मसोपानैस् सर्वतस्सङ्कुलां शुभाम्
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम्
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम्
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह
अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च
दर्शनीयां नदीतीरे पुरुषान् सुमनोहरान्
तान् नदीसलिलाहारान् सदारानमरोपमान्
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान्
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः
दिव्यजम्बूफलं हेम भूषणानि च पेशलम्
लब्ध्वा तान् दुर्लभान् पार्थः प्रतीचीं प्रययौ दिशम्
नागानां रक्षितं देशमजयच्चार्जुनस्ततः
ततो गत्वा महाराज वारुणीं पाकशासनिः
गन्धमादनमासाद्य तत्रस्थानजयत् प्रभुः
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः
केतुमालं विवेशाथ वर्षं रत्नसमन्वितम्
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः
तं जित्वा चार्जुनो राजन् करे च विनिवेश्य च
आहृत्य तत्र रत्नानि दुर्लभानि तथाऽर्जुनः
पुनश्च परिवृत्याथ मध्यं देशमिलावृतम्
गत्वा प्राचीं दिशं राजन् सव्यसाची परन्तपः
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
तीरे कीचकवेणूनां छायां रम्यामुपासते
खषाञ् झषांश्च नद्योतान् प्रघसान् दीप्तवेणिकान्
पशुपांश्च कुलिन्दांश्च टङ्कणान् परटङ्कणान्
एतान् समस्ताञ्जित्वा च करे च विनिवेश्य च
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुभम्
तत्रामरोपमान् रम्यान् पुरुषान् सुखसंयुतान्
जित्वा तान् स्ववशे कृत्वा करे च विनिवेश्य च
आहृत्य सर्वरत्नानि असङ्ख्यानि ततस्ततः
नीलं नाम गिरिं गत्वा तत्रस्थानजयत् प्रभुः
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम्
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैश्शुभैः
तं देशमथ जित्वा स करे च विनिवेश्य च
अजयच्चापि बीभत्सुर् देशं गुह्यकरक्षितम्
तत्र लेभे च राजेन्द्र सौवर्णान् मृगपक्षिणः
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान् मनोरमान्
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः
गन्धर्वरक्षितं देशम् अजयत् सगणं तदा
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः
श्वेतपर्वतमासाद्य जित्वा पर्वतवासिनः
स श्वेतं पर्वतं राजन् समतिक्रम्य पाण्डवः
वर्षं हिरण्यकं नाम विवेशाथ महीपते
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा
महापथेषु राजेन्द्र सर्वतो यान्तमर्जुनम्
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया
ददृशुस्तास्स्त्रियस्सर्वाः पार्थमात्मयशस्करम्
तं कलापधरं शूरं सरथं सानुगं प्रभुम्
सवर्मं सकिरीटं वै सन्नद्धं सपरिच्छदम्
सुकुमारं महासत्वं तेजोराशिमनुत्तमम्
शक्रोपमममित्रघ्नं परवारणवारणम्
पश्यन्तस्स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः
इति वाचो ब्रुवन्त्यस्तास् स्त्रियः प्रेम्णा धनञ्जयम्
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्विताः
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम्
अथ जित्वा समस्तांस्तान् करे च विनिवेश्य च
मणिहेमप्रवालानि रत्नान्याभरणानि च
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ
शृङ्गवन्तं च कौन्तेयस् समतिक्रम्य फल्गुनः
उत्तरं कुरुवर्षं तु समासाद्य धनञ्जयः
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन्
तत्र लेभे महाबाहुर् वासो दिव्यमनुत्तमम्
किन्नरद्रुमपत्नांश्च तत्र कृष्णाजिनान् बहून्
याज्ञीयांश्चैव यान् दिव्यांस् तान् स लेभे धनञ्जयः
इयेष जेतुं तं देशं पाकशासननन्दनः
तत एनं महावीर्यं महाकाया महाबलाः
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्
द्वारपालकाः-
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत
इदं पुरं यः प्रविशेत् ध्रुवं न स भवेन्नरः
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव
न चात्र किञ्चिज्जेतव्यम् अर्जुनात्र प्रदृश्यते
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन
न हि मानुषवेषेण शक्यमत्रापि वीक्षितुम्
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षितम्
तद्वदस्व करिष्यामो वचनात् तव भारत
वैशम्पायनः-
ततस्तानब्रवीद्राजन् पाण्डवः पाकशासनिः
अर्जुनः-
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः
कृष्णस्य शासनाच्चैव पार्थिवत्वं चिकीर्षति
न प्रवेक्ष्यामि वो देशं यद्यदृश्यास्स्थ मानुषैः
युधिष्ठिराय यत् किञ्चित् करं साधु प्रदीयताम्
नो चेत् कृष्णेन सहितो योधयिष्यामि पालकाः
वैशम्पायनः-
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
कृष्णाजिनानि शुभ्राणि तस्मै ते प्रददुः करम्
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्
सङ्ग्रामान् सुबहून् कृत्वा क्षत्रियैर्दस्युभिस्तथा
स विनिर्जित्य राज्ञस्तान् करेषु विनिवेश्य च
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च
हयांस्तित्तिरिकल्माषान् शुकपत्रनिभानपि
मयूरसदृशान्यान् सर्वाननिलरंहसः
वृतस्स महता राजन् बलेन चतुरङ्गिणा
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्